धनपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपतिः, पुं, (धनानां पतिः ।) कुवेरः । इति धनञ्जयः ॥ (यथा, महाभारते । २ । १२ । ३ । “तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा ॥”) अस्य उत्पत्तिर्यथा, -- महातपा उवाच । “शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् । यथा वायुः शरीरस्थो धनदः सम्बभूव ह ॥ आद्यं शरीरं यत्तस्मिन् वायुरन्तस्थितोऽभवत् । प्रयोजनान्मूर्त्तिमत्त्वमादिशन् क्षेत्रदेवताः ॥ तत्रामूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यते मया । तां शृणुष्व महाभाग ! कथ्यमानां मयानघ ! ॥ ब्रह्मणः सृजतः सृष्टिं मुखाद्वायुर्विनिर्ययौ । प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत् ॥ मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवन् । सर्व्वेषाञ्चैव देवानां यद्वित्तं फलमेव च ॥ तत् सर्व्वं पाहि नोक्तं तस्माद्धनपतिर्भवेत् । तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः ॥ तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः । तस्यास्तु धनदो देवस्तुष्टः सर्व्वं प्रयच्छति ॥ एषा धनपतेर्मूर्त्तिः सर्व्वकिल्विषनाशिनी । य एतां शृणुयाद्भक्त्या पुरुषः पठतेऽपि वा ॥ सर्व्वकाममवाप्नोति स्वर्गलोकञ्च गच्छति ॥” इति वराहपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपति¦ पु॰

६ त॰।

१ कुवेरे
“सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य”
“नत्वा देवं धनपतिसखं यत्र साक्षाद्वस-न्तम्” मेघ॰।

२ धनञ्जयाख्ये देहस्थे वायुभेदे च तस्यधनपतित्वकथा
“शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशि-नीम्। यथा वायुः शरीरस्थो धनदः संबभूव ह। आद्यंशरीरं यत्तस्मिन् वायुरन्तःस्थितोऽभवत्। प्रयोजनात्मूर्त्तिमत्त्वमादिशन् क्षेत्रदेवताः। तत्रामूर्त्तस्य वायोस्तुउत्पत्तिः कीर्त्त्यते मया। तां शृणुष्व महाभाग!कथ्यमाना मयाऽनघ!। ब्रह्मणः सृजतः सृष्टिं मुखा-द्वायुर्विनिर्ययौ। प्रचण्डशर्करावर्षीतं ब्रह्मा प्रव्यषेध-यत्। मूर्त्तो भवस्य शान्तश्च तत्रोक्तो मूर्त्तिमान् भवन्। सर्वेषाञ्चैव देवानां बद्वित्तं फलमेव च। तत् सर्वंबाहि येनोक्तं तस्माद्धनर्पातर्भव। तस्य ब्रह्मा ददौ तुष्ट-स्तिथिमेकादशीं प्रभुः। तस्यामनग्निपक्वाशी यो भवे-न्नियतः शुचिः। तस्मै तु घनदो देवस्तुष्टः सर्वं प्रय-च्छति। एषा धनपतेर्मूर्त्तिः सर्वकिल्विषनाशिनी” वराह पु॰। (खाजाञ्चि)

२ धनाध्यक्षे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपति¦ m. (-तिः) The god of riches, KUVE4RA. E. घन wealth, and पति master or lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपति/ धन--पति m. ( धन-)lord of -wwealth (with or scil. धनानाम्) AV.

धनपति/ धन--पति m. a rich man Ka1v.

धनपति/ धन--पति m. a king Gal.

धनपति/ धन--पति m. N. of कुबेरS3a1n3khGr2. MBh. Ka1v.

धनपति/ धन--पति m. N. of sev. authors Cat. (also -मिस्रand -सूरि).

"https://sa.wiktionary.org/w/index.php?title=धनपति&oldid=324305" इत्यस्माद् प्रतिप्राप्तम्