धनुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धनुः, पुं, (धनतीति । धन + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) चापः । (यथा, हितोपदेशे । “धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥”) राशिविशेषः । पियालवृक्षः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥
धनुः, [स्] पुं, (धन + “अर्त्तिपॄवपीति ।” उणां २ । ११८ । इति उसिः स च नित् ।) पियाल- वृक्षः । धनुर्धरे, त्रि । इति मेदिनी । से, २६ ॥
धनुः, [स्] क्ली, (धनतीति । धन शब्दे + “अर्त्ति- पॄवपीति ।” उणां २ । ११८ । इनि उसिः स च नित् ।) शरनिःक्षेपयन्त्रम् । धनुक इति भाषा । तत्पर्य्यायः । चापः २ धन्व ३ शरासनम् ४ कोदण्डम् ५ कार्मुकम् ६ इष्वासः ७ । इत्यमरः । २ । ८ । ८३ ॥ स्थावरम् ८ गुणी ९ शरावापः १० तृणता ११ त्रिणता १२ । इति त्रिकाण्ड- शेषः । अस्त्रम् १३ धनूः १४ । इति जटाधरः ॥ तारकम् १५ काण्डम् १६ । इति शब्दरत्ना- वली ॥ तस्य लक्षणं यथा, -- “धनुस्तु द्बिविधं प्रोक्तं शार्ङ्गं वांशं तथैव च । कोमलं वर्णवृढता तयोर्गुण उदाहृतः ॥ सुखसम्पत्तिकरणं सममुष्ट्यायतं धनुः । विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥” इति युक्तिकल्पतरुः ॥ धनुर्विद्यारम्भदिनं यथा, -- “शनिभौमबुधान्येषु वारेषु सुतिथौ हरौ । प्रबुद्धे चापविद्याया आरम्भः शुभदो मतः ॥” इति ज्योतिःसारसंग्रहः ॥ विद्यारम्भोक्तनक्षत्राणि तत्र शुभानि ॥ (एतदस्त्रविद्यां ब्रह्मा पृथुनाम्ने महीपतये प्रथमं दत्तवान् । असौ एव लोकेषु अस्याः प्रचारमकरोत् । यदुक्तम् वैशम्यायनेन । “असिः पूर्ब्बं मया सृष्टो दुष्टनिग्रहकारणात् । भवादृशसमीपस्थो लोकान् शिक्षन् चरत्यसौ ॥ धनुराद्यायुधव्यक्तौ त्वमेवादिः स्मृतो मया । पीतः स्वर्णवर्णो वा पर्व्वतचरः महाशब्दकरः पूर्ब्बदिक्स्वामी दृढाङ्गः रूक्षः क्षत्त्रियवर्णः उष्मः पित्तप्रकृतिरित्यर्थः अल्पसन्तानः अल्प- स्त्रीसङ्गः अग्निराशिः ॥ * ॥ एतद्राशिजात- फलं यथा, “क्रोधी द्रुतवाक् पुण्यमतिः शुचिः प्राज्ञः सुखी सर्व्वलोकालापी च ॥” इति जातकचन्द्रिकादयः ॥ * ॥ अपि च । “बहुकलाकुशलः प्रबलो महान् विमलताकलितः सरलोक्तिभाक् । शशधरे हि धनुर्धरगे नरो धनकरो न करोति धनव्ययम् ॥” तल्लग्नजातफलं यथा, -- “धनुर्लग्ने समुत्पन्नो नीतिमान् धनवान् सुखी । कुलमध्ये प्रधानश्च प्राज्ञः सर्व्वस्य पोषकः ॥” इति कोष्ठीप्रदीपः ॥
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धनुः in comp. for नुस्.