धनुर्व्वेदः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धनुर्व्वेदः, पुं, (धनूंषि उपलक्षणेन धनुरादीन्य- स्त्राणि विद्यन्ते ज्ञायन्तेऽनेनेति । विद + करणे घञ् ।) धनुर्व्विद्याबोधकशास्त्रम् । तत्तु यजु- र्व्वेदस्योपवेदः । इति चरणव्यूहः ॥ (यथा, मधुसूदनप्सरस्वतीकृतप्रस्थानभेदे । “यजुर्व्वेदस्योपवेदो धनुर्व्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः । द्वितीयः संग्रहपादः । तृतीयः सिद्धिपादः । चतुर्थः प्रयोगपादः । तत्र प्रथमे पादे धनुर्लक्षण- मधिकारिनिरूपणञ्च कृतम् । तत्र धनुःशब्दश्चापे रूढोऽपि चतुर्विधायुधवाचको वर्त्तते । तच्च चतु- र्विधम् । मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तञ्च । तत्र मुक्तं चक्रादि । अमुक्तं खड्गादि । मुक्तामुक्तं शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्र- मुक्तमस्त्रमित्युच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादि- भेदादनेकविधम् । एवं साधिदैवतेषु समग्रेषु चतु- र्विधायुधेषु येषामधिकारः क्षत्त्रियकुमाराणां तदनुयायिनाञ्च ते सर्व्वे चतुर्विधाः । पदातिरथ- गजतुरगारूढाः । एवं दीक्षाभिषेकशाकुनमङ्गल- करणादिकञ्च सर्व्वमपि प्रथमे पादे निरूपितम् । सर्व्वेषामस्त्रशस्त्रविशेषाणां आचार्य्यस्य लक्षण- पूर्ब्बकं संग्रहणं संग्रहपादे द्बितीये दर्शितम् । गुरुसम्प्रदायसिद्धानां शास्त्रविशेषाणां पुनः पुन- रभ्यासो मन्त्रदेवतासिद्धिकरणादिकं तृतीये पादे । एवं देवतार्च्चनाभ्यासादिभिः सिद्धानां अस्त्र- शस्त्रविशेषाणां प्रयोगश्चतुर्थे पादे निरूपितः ॥”)