धमनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनी, स्त्री, (धमनि + वा ङीष् ।) नाडी । (यथा, महाभारते । १२ । २१४ । १७ । “दश विद्यात् धमन्योऽत्र पञ्चेन्द्रियगुणावहाः । याभिः सूक्ष्माः प्रजायन्ते धमन्योऽन्याः सह- स्रशः ॥” यथा, -- “ओजोवहाः शरीरे वा विधम्यन्ते समन्ततः । येनौजसा वर्त्तयन्ति प्रीणिताः सर्व्वदेहिनः ॥ यदृते सर्व्वभूतानां जीवितं नावतिष्ठते । यत्सारमादौ गर्भस्य यौऽसौ गर्भरसाद्रसः ॥ संवर्त्तमानं हृदयं समाविशति यत् पुरा । यस्य नाशान्न नाशोऽस्ति धारि यद्धृदयाश्रितम् ॥ यच्छरीरबलं देहः प्राणा यत्र प्रतिष्ठिताः । तत्फला विविधा वाताः फलन्तीति महाफलाः ॥ ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात् सिराः ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥ “चतुर्व्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः । तत्र केचिदाहुः सिरा धमनी स्रोतसामविभागः सिराषिकारा एव धमन्यः स्रोतांसि चेति । तत्तु न सम्यक् । अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः कस्याद्ब्यञ्जनान्यत्वान्मूलसन्नियमात् कर्म्मवैशेष्यादागमाच्च केवलन्तु परस्परसन्नि- कर्षात् सदृशागमकर्म्मत्वात् सौक्ष्म्याच्च विभक्त- कर्म्मणामप्यविभाग इव कर्म्मसु भवति ॥ तासान्तु नाभिप्रभवानां धमनीनामूर्द्ध्वगा दश- दश चाधोगामिन्यश्चतस्रस्तिर्य्यग्गाः । ऊर्द्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्ध- सितक्षुधितरुदितादीन्विशेषानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफ- शोणितरसान् द्वे द्वे वहतस्ता दश शब्दरूपरस- गन्धानष्टाभिर्गृह्णीते । द्वाभ्यां भाषते च द्बाभ्यां घोषं करोति द्बाभ्यां स्वपिति द्वाभ्यां प्रतिबुध्यते द्वे चाश्रुवाहिन्यौ । द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते । ते एव शुक्रं नरस्य स्तनाभ्यामभि- वहतः । तास्त्वेतास्त्रिंशत् सविभागा व्याख्याता एताभिरूर्द्ध्वं नामेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवा- बाहवो धार्य्यन्ते याप्यन्ते च ॥” “अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो वहन्ति । तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थ- मेवान्नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभि- वहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्द्ध्वगतानां तिर्य्यग्गतानां रसस्थानञ्चाभिपूरयन्ति मूत्रपुरीष- स्वेदांश्च विरेचयन्त्यामपक्वाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफ- शोणितरसान् द्बे द्वे वहतस्ता दश द्बे अन्न- वाहिन्यावन्त्राश्रिते तोयवहे द्बे मूत्रवस्तिमभि- प्रपन्ने मूत्रवहे द्वे शुक्रवहे द्बे शुक्रप्रादुर्भावाय द्वे विसर्गाय ते एव रक्तमभिवहतो नारीणा- मार्त्तवसंज्ञम् । द्वेवर्च्चो निरसन्यौ स्थूलान्त्रप्रति- बद्धे । अष्टावन्यास्तिर्य्यग्गानां धमनीनां स्वेदमर्प- यन्ति । तास्त्वेतास्त्रिंशत् स विभागा व्याख्याता एताभिरधोनाभेः पक्वाशयकटीमूत्रपुरीषगुद- वस्तिमेढ्रसक्थीनि धार्य्यन्ते याप्यन्ते च ॥” “तिर्य्यग्गानान्तु चतसृणां धमनीनामेकैका शतधा सहस्रधा चोत्तरोत्तरं विभन्वन्ते तास्त्वसंख्येया- स्ताभिरिदं शरीरं गवाक्षितं विबद्धमाततञ्च । तासां मुखानि रोमकूपप्रतिबद्धानि यैः स्वेद- मभिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तर्बहिश्च तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्य्याण्यन्तः शरीरमभिप्रतिपद्यन्ते त्वचि विपक्वानि तैरेव स्पर्शसुखमसुखं वा गृह्णाति । तास्त्वेताश्चतस्रो धमन्यः सर्व्वाङ्गगताः सविभागा व्याख्याताः ॥” इति सुश्रुते शरीरस्थाने नवमेऽध्याये ॥ * ॥) हट्टविलासिनी । इत्यमरः ॥ हरिद्रा । ग्रीवा । इति हेमचन्द्रः । ३ । २९५ ॥ पृश्निपर्णी । इति राजनिर्घण्टः ॥ नलिका । इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनी स्त्री।

अञ्जनकेश्याख्यद्रव्यम्

समानार्थक:धमनी,अञ्जनकेशी,हनु,हट्टविलासिनी

2।4।130।1।1

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनी f. a sort of perfume Bhpr.

धमनी f. turmeric or Hemionitis Cordifolia L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the queen of ह्राद and mother of वातापि and Ilvala. भा. VI. १८. १५.

"https://sa.wiktionary.org/w/index.php?title=धमनी&oldid=431319" इत्यस्माद् प्रतिप्राप्तम्