धातु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुः, पुं, (धीयते सर्व्वमस्मिन्निति । धा + “सितनि- गमीति ।” उणां १ । ७० । इति तुन् ।) शरीर- धारकवस्तूनि । तद्यथा । कफः । वातः । पित्तम् । “शरीरदूषणाद्दोषा मलिनीकरणान्मलाः । धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥” इति वैद्यकम् ॥ (“रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्त दूष्याः मलामूत्रशकृत्स्वेदादयोऽपि च ॥” इति वाभटे सूत्रस्थाने प्रथमेऽध्याये ॥ धातुशब्देनात्र शुक्रार्त्तवे अप्युच्येते तद् यथा । “तथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहा- स्तीति वक्तुं नैव नास्तीत्यथवास्ति सतां भावानां अभिव्यक्तिरिति कृत्वा केवलं सौक्ष्म्यान्नाभि- व्यज्यते स एव गन्धो विवृतपत्रकेशरैः कालान्त- रेणाभिव्यक्तिं गच्छत्येवं बालानामपि वयः परिणामात् शुक्रप्रादुर्भावो भवति रोमराज्या- दयोथार्त्तवादयश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्य- भिवृद्धिर्भवति । स एवान्नरसो वृद्धानां जरा- पक्वशरीरत्वान्न प्रीणनो भवति । त एते शरीर- धारणाद्धातव इत्युच्यन्ते ॥” इति सुश्रुते सूत्र- स्थाने १४ अध्यायः ॥ अथ धातुशब्दस्य निरुक्तिमाह । “एते सप्त स्वयं स्थित्वा देहन्दधति यन्नृणाम् । रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ॥” सप्तोपधातवो यथा, -- “माक्षिकं तुत्थिकाभ्रे च नीलाञ्जनशिलालकाः । रसकश्चेति विज्ञेया एते सप्तोपधातवः ॥” * ॥ शरीरस्थसप्तधातुभवसप्तोपधातवो यथा, -- “स्तन्यं रजश्च नारीणां काले भवति गच्छति । शुद्धमांसभवः स्नेहो यः सा संकीर्त्त्यते वसा ॥ स्वेदो दन्तास्तथा केशास्तथैवोजश्च सप्तमम् । इति धातुभवा ज्ञेया एते सप्तोपधातवः ॥” इति सुखबोधः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातु पुं।

मनःशिलादिधातुः

समानार्थक:धातु

2।3।8।1।1

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः। निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे॥

 : धातुविशेषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

धातु पुं।

श्लेष्मादिः

समानार्थक:धातु

3।3।65।2।1

श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

पदार्थ-विभागः : , द्रव्यम्

धातु पुं।

रसरक्तादिः

समानार्थक:धातु

3।3।65।2।1

श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

 : रक्तम्

पदार्थ-विभागः : , द्रव्यम्

धातु पुं।

महाभूताः

समानार्थक:धातु

3।3।65।2।1

श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

पदार्थ-विभागः : , द्रव्यम्

धातु पुं।

महाभूतगुणाः

समानार्थक:धातु

3।3।65।2।1

श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

पदार्थ-विभागः : , गुणः

धातु पुं।

इन्द्रियम्

समानार्थक:करण,धातु,अक्ष,स्रोतस्

3।3।65।2।1

श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

 : चक्षुरादीन्द्रियम्, शब्दादीन्द्रियम्

पदार्थ-विभागः : इन्द्रियम्

धातु पुं।

अश्मविकृतिः

समानार्थक:धातु

3।3।65।2।1

श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

धातु पुं।

शब्दयोनिः

समानार्थक:धातु

3।3।65।2।1

श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातु¦ पु॰ धीयते सर्वं निःक्षिप्यते सुषुप्त्यादावस्मिन् धा--आधारेतुन्।

१ परमात्मनि।
“स एष चिद्धातुः” श्रुतिः। दधातिशब्दान्।

२ सर्वेषां नाम्नां प्रकृतिभूते भूप्रभृतौ तस्यलक्षणविभागादिकं शवलर्थरत्नेऽस्माभिर्दर्शितं यथा(
“धातुर्नान क्रियावाचकोगणादिपठितः शब्दविशेषःक्रिया च पूर्वोक्तफलानुकूलो व्यापार एव सर्वेषाञ्च कार-[Page3870-a+ 38] काणामन्वयोपपत्तये कालान्वयोपपत्तये च धातूनांक्रियावाचकत्वाङ्गीकारात्। तथाहि।
“क्रियाभेदायकालस्तु संख्या सर्वस्य भेदिकेति” वाक्यपदीये कालानांक्रियाभेदकत्वमुक्तमुक्तञ्च तेनैव
“क्रिया नियतसाधना” इत्यादिना साधनानां क्रियाकाङ्क्षित्वं तत्र यदि धातुभिःक्रिया न बोध्येत क्व तदा तेषामन्वयो विशेषणत्वंवा भवेदतीऽवश्यं सर्वेषां क्रियावाचकत्वं स्वीकार्यंधातूनां फलमात्रवाचकत्वे आख्यातानां व्यापारार्थकत्वेकृदादिस्थले आख्याताभावेन कारकाद्यन्वयानुपपत्तेःनापि क्रियामात्रवाचकत्वं त्यजिगम्योः पर्य्यायतापत्तेः। तथाच फलवाचकत्वस्य तेषां प्रायशोगणपाठे एव उक्त-त्वात् न तदंशे विवादः। किञ्च फलावच्छिन्नक्रियायाःपृथक्शक्त्या विशिष्टशक्त्या वा धात्वर्थत्वाभावे सकर्म-काकर्मकविभागोच्छेदः स्यात् स्याच्च फलमात्रधात्वर्थत्वेसर्वेषां कारकाणां तत्रानन्वयः तत्रैव कालान्वयोपगमेच व्यापारविगमकालेऽपि फलसत्त्वेन वर्त्तमानत्वादिप्रयो-गापत्तिः। अतोऽवश्यं क्रियावाचकत्वं स्वीकार्यमतएव
“धातोरर्थः क्रियोच्यते” इत्यनेन धात्वर्थत्वेनैव क्रिया-त्वस्वीकारः। अतएव च
“भूवादयोधातवः” इतिषाणि-नीयसूत्रमपि क्रियावाचकत्वं धातुमात्राणां प्रतिपादयति। तथाहि मूश्च वा च भूवौ आदिश्चादिश्चादीभूवौ आदी येषां ते धातवैति तथा चात्र प्रथम आदिशब्दोव्यवस्थावाची भुवा सह तदन्वयात् भूप्रभृतयैत्यर्थ-लाभः द्वितीयआदिशब्दः सादृश्यवाची वाधातुनातदन्वयस्तेन वासदृशा इत्यर्थलाभः तत्सादृश्यञ्च क्रिया-वाचित्वेन बाधातीर्गथर्थतया क्रियावाचित्वप्रसिद्धेस्तथाच मूप्रभूतयः क्रियावाचित्वेन वासदृशा धातव इत्येवफलितम्। भुवश्चादित्वं गणपाठापेक्षया तस्य चक्रियावाचकत्वं पूर्वोक्तयुक्तेरिति संक्षेपः। अत्र क्रिया-वाचित्वानुक्तौ गणपठितत्वेन सर्वनामाव्ययादीनामपिधातुत्वापत्तिः तन्मात्रोक्तौ च हिरुगाद्यव्ययानां क्रिया-वाचित्वेन धातुत्वापत्तिरत उभयमुक्तम्। उक्तञ्च
“किञ्च क्रियावाचकतां विना धातुत्वमेव नो। सर्व-नामाव्ययादीनां यावादीनां प्रसङ्गतः। न हि तत्पाठ-मात्रेण युक्तमित्याकरे स्फुटमिति”। तत्पाठः गणपाठः। विदि अवयवे गडि वदनैकदेशे इत्यादिद्रव्यवाचिनामपितत्साधनक्रियावाचित्वमस्त्येव कालकारकाद्यन्वयानुरो-धात् तत्फलस्य द्रव्यरूपत्वेऽपि न क्षतिः। गणादीत्या-[Page3870-b+ 38] दिपदेन सूत्रसंज्ञासूत्रग्रहणं तेन स्मैत्राणां स्कत्भुप्रमृ-तीनां सनादयोधातव इत्यादीनाञ्च प्रत्ययान्तानां धातु-त्वमव्याहतमेव दर्शितयुक्तेः तत्रापि क्रियावाचित्वादे-रवश्यं स्वीकाराच्च नाप्रसङ्गैति दिक्। ( ते च सर्वेऽपि धातवः सकर्मकाकर्मकभेदेन द्विविधाः। तत्र व्यापाराधिकरणमात्रावृत्तिफलवाचकः सकर्मकःपच्यादेः व्यापाराधिकरणावृत्तिविक्लित्तिरूपफलस्य बोधक-तया सकर्मकत्वं कर्त्तृकर्मोभयनिष्ठफलवीधकस्यापि गम्यादेःव्यापाराधिकरणम्भत्रावृत्तिफलवोधकतया सकर्मकत्वम्। भूप्रमृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधकतयान सकर्मकत्वं फलस्य सक्षायास्तत्सम्बन्धरूपव्यापारस्यैक-स्मिन्नेव धर्मिणि बटादौ सत्त्वात्। उक्तञ्च वाक्यपदीये
“आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते। अन्धर्भा-वाच्च तेनासौ कर्मणा न सकर्मकः” इति। अस्यायमर्थःआत्मानं स्वरूपं विभ्रत् आत्मधारणानुकूलव्यापाराश्रयःअस्तीतिपदेन समानाधिकरणतया व्यपदिश्यते तदभेद-बोधनाय तिङादिकं प्रयुज्यते इति यावत् तेनात्मनात्म-रूपेण कर्मणा धारणकर्मणा धातुः न सकर्मकः। अत्रहेतुरन्तर्भावात् धात्वर्थ एव तस्य कर्मणः प्रवेशात् आत्म-धारणानुकूलव्यापाररूपधात्वर्थेनात्मनौपसंग्रहादित्यर्थः। अथ वा अन्यरेव व्यापाराधिकरण एव भावात् फलस्यसत्त्वात् व्यापारसामानाधिकरण्यादित्यर्थः तेन भुवादे-रुत्पत्त्यनुकूवव्यापारवाचितया धात्वर्थोपसंगृहीतकर्मक-त्वाभावेऽपि फलसमानाधिकरणव्यापारवाचित्वादकर्मक-त्वम्। अतएव
“फलव्यापारयोरेकनिष्ठतायामकर्मकः। धातु स्तयोर्धर्मिभेदे सकर्मकौदाहृत” इति फलसामाना-धिकरण्यादिकृताकर्मकसकर्मकविभागोऽभिहितः। ए-कनिष्ठतायामेकमात्रवृत्तितायामित्यर्थः तेन गम्यादेर्व्यापा-राधिकरणवृत्तिफलवाचित्वेऽपि नाकर्मकत्वमिति धर्मि-भेदेऽधिकरणान्यत्वे इत्यर्थः। एवमेव शब्दकौस्तुभकारादयः। एतन्मते सकर्मकाकर्मकशब्दौ पारिभाषि-काविति द्रअव्यम्। मञ्जूषाकृतस्तु
“कर्मणा सहेतिनास्ति कर्म यस्मेति व्युत्पक्ष्या सकर्मकाकर्मकशब्दौयोगिकौ तत्र साहित्यं तदन्वितस्वार्थबोधकत्वम् अन्वयश्रपृथक्पदोपस्थाप्ययोः सम्बन्धरूपोग्राह्यस्तेन जीवत्या-दीनां प्राणधारणानुकूनव्यापारार्थकतया तत्कर्मणःप्राणादेर्धात्वर्थमध्यपातात् न सकर्मकत्वं धात्वर्थोप-गृहीतकर्मकत्वेनाकर्मकत्वात्। कर्म च व्याकरणशा-[Page3871-a+ 38] स्त्रीयपारिभाषासिद्धकर्मसंज्ञाविशिष्टमुच्यते तेनाधिशय्यतेप्रासादैत्यादौ कर्मणि लकारोपपत्तिः अधिशेतेः कर्मसंज्ञाविशिष्टान्वितस्वार्थबोधकत्वात् अन्यथा पूर्वमते तस्यफलसमानाधिकरणव्यापारवोधकतयाऽकर्मकत्वेन
“मानेचाकर्मकेभ्यः” इति भाव एव लकारापत्तेः। भवति चग्रामं गच्छतीत्यादौ गम्यादिः ईप्सिततमत्वेन कर्मसं{??}विशिष्टेन पृथग्भूतेन ग्रामेणान्वितं स्वार्थं बोधयन्सकर्नकः, अधिवसतिस्तु अधिकरणत्वेन कर्मसंज्ञाविशिष्टेनेति विवेकः” इति प्राहुः। युक्तञ्चैतत् धात्वर्थोप-गृहोतकर्मकाणां व्यापारव्यधिकरणफलवाचितया पूर्व-कल्पे सकर्मकत्वापत्तेः तत्तद्भिन्नत्वेन निवेशे नौरचंतथा कर्मणोऽविवक्षायां गम्यादेरपि अकर्मकत्वस्वीका-रेघ अविवक्षाविशिष्टत्वेन निवेशे गौरवञ्च। एतन्मते तुकर्माभावादेव तदन्वितस्वार्थबोधकत्वाभावान्नाकर्मकत्व-हानिरिति सूक्ष्ममीक्षणीयम्। अत्र पक्षे अकर्मकस्तुतदनन्विवस्वार्थवोधक इति वोध्यम्। सकर्मकाश्च द्विविधाः एककर्मका द्विकर्मकाश्च। एक-कर्मान्वितस्वार्थबोधकाः गम्यादयः एककर्मकाः। द्विकर्मकाअपि द्विविधाः द्विकर्मान्वितैकव्यापारर्थकाः द्विकर्मा-न्वितद्विव्यापारार्थकाश्च। तत्राद्या दुह्यादयः। न चते सिद्धान्ते द्विव्यापारार्थकाः तथात्वे ईप्सिततमाभ्या-मेव कर्मभ्यां व्यापारद्वयेऽन्वयसम्भवेन द्वितीयाद्युत्पत्तौ
“अकथितञ्चेति” सूत्रेण दुह्यादीनां कारकान्तरसंज्ञाना-पन्नस्याकथितस्य कर्मसंज्ञाविधानानौचित्यात्। दर्शयि-व्यते च दुह्यादीनामेकव्यापारार्थकता। यदा पुन स्तेषांद्विव्यापारार्थकता विवक्षिता तदा ईप्सिततमसूत्रेणैवकर्मसंज्ञायां जातायां द्विकर्सान्वितद्विव्यापारार्थका एव तेणिजन्तादिबदिति बोध्यम्। द्विकर्मान्वितद्विव्यापारार्थकाश्चभिजन्ताः तत्र च धातुना एकत्यापारोऽभिधीयते द्वितो-यखु णिचा, तद्व्यापारद्वये च ईप्सितकर्मणः प्रयोज्य-कर्तृरूपकर्मणश्च यथाक्रममन्वतः। तथात्वञ्च गम्या-दीनामिति बोध्यम्। पाच्यादीनां तु नैवं, तद्योगेप्रयोज्यकर्त्तुः कर्मसंज्ञाभावेन व्यापारद्वये कर्मद्वयान्वया-भावात्। नाव पाच्यादेः क्रियाफसाश्रयत्वेनोद्देश्यतयाप्रयोज्यकर्त्तुः कर्मसंज्ञा भवितुचर्हति गन्तादिशाप्तुयोगे-एव तन्नियमात्। उक्तञ्च हरिका
“सुखक्रियायांस्वातन्त्र्यं प्रधाने कर्मतां गत{??}। नियमात् कर्म-संज्ञायाः स्वधर्मेणाभिधीयते” इति सिवमात् ततिबुद्ध्या-[Page3871-b+ 38] दिसूत्रेण तदितरेषां निषेधात् स्वातन्त्र्यं कर्तृत्वमेवस्वधर्मेण तृतीययाऽभिधीयते इति तदर्थः। वस्तुतस्तुप्रयोज्यकर्त्तुरीप्सिततमत्वेऽपि परत्वात् कर्तृसंज्ञयातस्य वाधात् कर्मत्वाप्रसक्तौ गत्यादिसूत्रेण अप्राप्तप्राप-कत्परूपविधित्वाश्रयेण गम्यादेः कर्मत्वं विहितं नषाच्यादेरिति द्रष्टव्यम्। उक्तञ्च हरिणा
“परत्वादन्तरङ्ग-त्वादुपजीव्यतथाऽपि च। प्रयोज्यस्यास्तु कर्तृत्वं गत्या-देर्विधितोचितेति”। परत्वात्
“विप्रतिषेधे परं कार्यम्” इ-त्युक्तेः
“अपादानसम्प्रदानकरणाधारकर्मणाम्। कर्त्तु-श्चोभयसम्राप्तौ परमेव प्रवर्त्तते” इति चोक्तेः
“अन्तरङ्ग-त्वात् पच्यादिरूपप्रकृत्याकाङ्क्षितकर्तृसंज्ञारूपकार्यम्
“अन्तरङ्गं बलोय” इति न्यायात् पाच्याद्याकाङ्क्षितकर्म-संज्ञायाः प्रत्ययाश्रितत्वेन दुर्वलत्वादिति भावः। उप-जीव्यतया उपजौव्यजातीयतया सर्वेषामेव कारकाणांकर्तृप्रयोज्यत्वेन कर्क्षुरुपजीव्यजातीयत्वादिति फलि-तोऽर्थः तेन पाच्याद्यापेक्षया तस्योपजीव्यत्वाभावेऽपिन क्षतिः। एवं पाच्यादियोगे प्रयोज्यस्य कर्मसंज्ञाया-एवाप्रवृत्तेः न द्विकर्मकत्वं तेष्ममित्यन्यत्र विस्तरः। अकर्मका अपि धातवः हेतुचतुष्टयाधीनाकर्मकक्रियार्थ-त्वात् चतुर्विधाः। अकर्मकक्रियात्वे हेतवश्च चत्वारीहरिणा प्रदर्शिता यथा
“धात्रोरर्थान्तरे वृत्तेर्धात्वर्थेनोप-संग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रियेति”। धातोः स्ववीधकधातोरर्थान्तरे स्वसजातीयभिन्ने वृत्तेःसामर्थ्यात् स्वविजातीयार्थबोधकत्वादित्येकः। यथाजानातिः ज्ञानं वदन् सकर्मकः प्रवृत्त्यादिकं बोधयन्न-कर्मकः नतु गतिवाची गम्यादिः ज्ञानाद्यर्थेऽप्यकर्मकःतयोर्द्वयोरप्यर्थयोः सकर्मकत्वेन स्वसजातीयत्वात्। धात्वर्थेनोपसंग्रहादिति द्वितीयः। कर्मणो धात्वर्थेनउपसंग्रहात् स्वशरीरे प्रवेशनात् यथा जीवत्यादीनांप्राणधारणानुकूलव्यापाररूपक्रियार्थतया तत्कर्मणः प्रा-णादेर्धात्वर्थेएव प्रवेशः। प्रसिद्धेः सत्तालज्जादिरूपाणा-मकर्मकत्वेन प्रसिद्धेः। सक्षादिकञ्चानुपदं प्रदर्श्यतेतेषां फलसमानाधिकरणव्यापारबोधकत्वादित्यथः। इति तृतोयो हेतुः। कर्मणोऽविवक्षातः अकर्मकः

४ । अत्र च कर्मपदं व्यपदेशिवद्भावेन फलस्याप्युपलक्षणं तेनफलस्वाविवश्चायामेत्व गन्यादेरकर्मकत्वमिति कौस्तुभानु-सारिणः तेषाञ्च व्यापारपात्रबोधकतया फलावाचित्वान्नलकर्मकत्वमिति द्रष्टव्यम्। अत्र चाविवक्षा नाम येन[Page3872-a+ 38] रूपेणान्वयविवक्षया यस्य कर्मसंज्ञा तेन रूपेणान्वय-विवक्षाभावः। तत्र क्वचित् कर्मणोऽविबक्षया यथापच्यते इत्यादौ, क्वचिच्च कर्मत्वाविवक्षया यथा मातुःस्मर्यते इत्यादौ। अत्र मातुः कर्मत्वेनैव स्मरणान्वयेकर्मसंज्ञा न पुनः सम्बन्धत्वेन, तथा विवक्षायामेव कर्मणिषष्ठीविधानात् स्मरणादेः कर्मान्वयसत्त्वेऽपि कर्मत्वेनतदन्वयाभावादकर्मकत्वं तेन भावे लकारादय इतिबोध्यम्। क्वचित्तु कार्यप्रवृत्तिवेलायामविवक्षा पश्चाद्वि-वक्षा। यथा कृतपूर्वी कटम् मुक्तपूर्वी ओदनमित्यादौ। तथाहि कृतं पूर्वमनेनेति विग्रहे तत्कृतमनेनेतिपूर्वसूत्रादिनिमबनुर्त्त्य सपूर्वाच्चेति सूत्रेण विद्यमानपूर्वात् पूर्वशब्दादपि इनिर्विहितः तत्र यदि कृतमितिकर्मणि क्तः स्यात्तदा तस्य कटादिरूपकर्मविशेषणतयासापेक्षत्वेन समासादिवृत्तिर्न्न स्यात् एकत्र विशेषणत्वे-नोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात् वृत्तिश्चात्रजायते भाष्यादिषु तथाप्रयोगादतोऽवश्यं प्रथमं कर्मा-विवक्षयाऽकर्मकत्वेन भावे क्तप्रत्यये विहिते तदन्तेनपूर्वादिभिः सुप्सुपेति समासे च कृते तत्पूर्वकात् पूर्व-शब्दात् कर्त्तरि इनिप्रत्ययोभवति। पश्चाच्च कर्त्तृकृत-क्रियायाः कर्मविशेषाकाङ्क्षायां कटादिकर्मणोऽन्वयः। उक्तञ्च हरिणा
“अकर्मत्वे सत्येव क्तान्ते भावाभि-धायिनि। पश्चात् क्रियावता कर्त्रा योगो भवति कर्म-णाम्। अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः। क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थितेति”। क्रिया-वतेत्यनेन क्रियाद्वारैव कर्मणीऽन्वय इति द्योतितम् क्रिया-याश्च वृत्तिशब्दैकदेशतयाऽनन्वयशङ्कायामाहाविग्रहेति। नास्ति विशेषेण ग्रहोज्ञानं यस्याः सा पृथगुपस्थित्य-भावेन ज्ञातुमशक्येत्यर्थः गतादिस्था कर्त्तृबोधकनिष्ठा-न्तगतपदोप्स्थाप्यगमनकर्त्तृरूपार्थप्रविष्टापि यथा ग्रामंगतैत्यादौ विभिन्नपदोपात्तैरपि ग्रामादिकर्मभिःक्रिया सम्बध्यते तथेत्यर्थः समुदायशक्तिस्वीकारे एकदेशान्वयाभ्युपगमादवयवशक्तिस्वीकारे तु तदनुपगमेक्षत्यभाबादिति भावः। कृतपूर्व्यादिष्वित्यादिपदेनाध्वरे-ष्विष्टीत्यादयोगृह्यन्ते तत्रापि इष्टादिभ्यश्चेत्यनेन कर्त्तरिइनिविधानात्। अत्रेदं बोध्यं
“निष्पत्तिमात्रे कर्त्तृत्वंसर्वत्रैवास्ति कारके” इत्युक्तेः कर्मणोऽपि स्वव्यापार-द्वारा क्रियानिष्पत्तिहेतुत्वेन कर्तृत्वे स्थिते तद्व्यापारस्यधात्वर्थत्वविवक्षायां धात्वर्थक्रियाश्रयत्वेन तस्य कर्तृत्वं[Page3872-b+ 38] समानानुपूर्वीकमुख्यार्थवोधकधातूपात्तफलाश्रयत्वेन चकर्मत्वमित्येकस्यैव कर्मकर्तृता एवञ्च तत्र धातोरर्था-न्तरे वृत्तेरेवाकर्मकत्वम्। तथाहि अन्नं पच्यते स्वयमेवे-त्यादौ विक्लित्तिस्तदनुकूलोऽन्नस्थाल्यादिसंयोगरूपोव्यापारश्च तद्विशिष्टो वा पच्यर्थः तयोः फलव्यापारयो-रेकनिष्ठतया तद्वोधकधातोरकर्मकत्वं तेन अन्नेन पच्यतेखयमेवेत्यादी भावे लकारोपपत्तिः। द्विकर्मकाणान्तुएककर्मणः कर्तृत्वविवक्षयाऽपरस्याविवक्षयैवाकर्मकत्वंपचिदुह्योस्तु कर्मान्तरसत्त्वेऽपि कर्मवद्भावविधानात् सकर्म-कत्वं तेन तयोर्न भावे लकारादयः किन्तु कर्मण्येवतेन दुह्यते गवा दुग्धं स्वयमेवेत्यादि। एवञ्च सर्वेषामेवधातूनां कर्मणः कर्तृत्वविवक्षायां कर्मवद्भावे प्राप्तेधातुविशेषयोग एव कर्मवत्कार्य्यातिदेशपे न सर्वधातुयोगे तेन गम्यादियोगे कर्त्तरि वाच्ये न कर्म-वद्भावः किन्तु कर्तृवत्कार्थं, भावे तु इष्यते एव कर्म-वत्कार्यम्। पच्यादियोगे तु कर्त्तरि भावे च वाच्ये कर्म-वद्भाव इति विवेकः। उक्तञ्च
“कर्मस्थेऽपि च धात्वर्थेकर्मकर्त्ता च कर्मवत्। कर्तृस्थेऽपि च धात्वर्थे कर्मकर्त्ता च कर्तृवदिति”। कर्मवत् कर्मवत्कार्यवानित्यर्थःअतएव
“कर्मवत् कर्मणा तुल्यक्रिये” इति सूत्रे कर्म-पदेन कर्मस्थक्रिया लक्षिता शास्त्रकारैस्तेन कर्मस्थ-क्रियातुल्यक्रियावति कर्त्तरि कर्मवत् कार्यमित्यर्थःक्रिययोस्तुल्यत्वञ्च एकाधिकरणमात्रवृत्तित्वेन तथाचकर्मस्थक्रियया फलेन व्यापारस्य सामानाधिकरण्येएव कर्मवद्भावविधानात् पच्यादेस्तथाभूतार्थकतया तत्-कर्त्तरि कर्मवत्कार्यं, गम्यादेस्तु व्यापारस्योक्तफलसामा-नाधिकरण्याभावात् कर्त्तृस्थगावकत्वमिति विवेकः। तथा तुल्यक्रिये कर्तरीत्यमिधानेन गम्यादीनामपि भावेकर्मवत्कार्यं यागादि भवत्योव। यद्यपि सर्वेषामेवाकर्मकाणां फलव्यापारयोः सामानाधिकरण्यबोधकतयाकर्मवद्भावापक्षिस्तथापि सूत्रे कर्मणा तुल्येति निर्देशात्येषां धातूनां मुख्यार्यवाचिनां सकर्मकत्वं तेषामेवकर्मवद्भाव इति गम्यते अस्त्यादेः सत्तादिरूपमुख्यार्थसकर्मकत्व। भावात् न तत्प्रसङ्गः। भवतेस्बु लाक्षणिका-नुभवार्थे वर्त्तमानस्य सकर्मकत्वेऽपि सत्तारूपमुख्यार्थेतथात्वाभावान्न प्रसङ्गः। एवञ्च सर्वेषामेव सकर्म-काणां कर्त्तृकर्मोभयस्थभाचकावेनाव्यवस्थायां हरिणाक्रियाकृतविशेषेण व्यवस्था दर्शिता यथा
“विशेष-[Page3873-a+ 38] दर्शनं यत्र क्रिया तत्र व्यवस्थिता। शब्दप्रवृत्तिरन्येषांशब्दैरेव प्रकल्पितेति”। यत्र कर्मणि कर्त्तरि वा विशेषःक्रियाकृतोऽसाधारणधर्मो दृश्यते तत्रैव क्रिया व्यबस्थि-तेत्यर्थः धात्वर्थयोः फलव्यापाररूपयोः क्रिययोरुभय-निष्ठत्वेऽपि तत्कृतविशेषादेव तन्निष्ठत्वव्यवहार इतिभावः। विशेषश्च द्विविधः धातूपस्थाप्यः तदनुपस्था-य्यश्च तत्राभ्यर्हितत्वेन उपस्थितत्वेन च धातूपात्तवि-शेषस्यैव प्रथमं ग्रहणं तदप्राप्तौ तु अपरस्येतिबिवेकः। तेन पच्यादयः स्वोपस्थाप्यस्य कर्त्त्रपेक्षयाऽ-साधारणधर्मस्य व्यापाररूपक्रियाकृतस्य विक्लित्तिरूष-फलस्य बोधकाः कर्मस्थभावकाएव गम्यादयस्तु नैवं तदु-पस्थाप्यफलस्य संयोगादेरुतयनिष्ठतया साधारण्यात्धातूपस्थाप्यविशेषासत्त्वात् धात्वनुपस्थाप्यस्य क्रियाकृतस्यश्रमादिरूपासाधारणधर्मस्य ग्रहणं तस्य च कर्त्तरिदर्शनात् कर्त्तृस्थत्वम्। एवञ्च कर्त्तृस्थादिविभाग एत-म्भते न्यायमूल एव। अन्येषां मते पुनः शब्दप्रवृत्तिःकर्मवनुकार्य्यप्रवृत्तिः शब्दैरेव निथामकशास्त्रैरेव प्रकल्पि-तेति द्रष्टव्यम्। तच्च शास्त्रं यथा
“कर्मस्थः पच-तेर्भावः कर्मस्थाश्च भिदादयः। कर्त्तृस्थो बुद्ध्यतेर्भावःकर्तृस्थाश्च गमादयः” इति कर्मस्थाः कर्मस्थक्रियार्थका इ-त्यर्थः एवमग्रेऽपि। सम्प्रदायविदस्तु एतच्छास्त्रमपिन्यायमूलकं पूर्वोक्तरीत्या एतेषां कर्मस्थत्वादिव्यवस्थाप-नात् अन्यथा प्रातखिकरूपेण तद्गणनस्य कर्तुमशक्य-तयाऽव्यवस्थापत्तेरित्याहुः। एवञ्च क्रियाकृतविशेषे-णैव क्रियाव्यवस्थेति पक्षमलम्ब्य
“निर्वर्त्त्ये च विकार्य्येच कर्मवद्भाव इष्यते। नतु प्राप्ये कर्मणि तु सिद्धान्तोऽयंव्यवस्थितः” इत्यभियुक्तैर्व्यवस्था भङ्ग्यन्तरेण दर्शिता। तथा च निवर्त्त्यविकार्य्ययोरेव क्रियाकृतस्य उत्प्रत्त्यादि-रूपस्य विशेषस्य सत्त्वात्, प्राप्ये तदसत्त्वाच्च तेषु कर्मव-द्भावाभावौ बोध्यौ।
“क्रियाकृतविशेषाणां सिद्धिर्यत्र बतिष्ठति” इत्यग्रिमप्राप्यकर्मलक्षणे प्राप्यस्य क्रियाकृतविशेषा-भावकथनात् व्यतिरेकेण निर्वर्त्त्यविकार्ययोस्तत्सत्त्वमर्था-यातमित्यलं विस्तरेण। सनन्तधातूनां धात्वर्थेच्छार्थ-कत्वेन कर्तृस्थत्वेऽपि तत्प्रकृतीभूतधातोरेव कर्मस्थ-कर्तृस्थभावकतया व्यवस्था तत्प्रकृतेरात्मनेपदादिना तद-न्तस्यात्मनेपदादिवदिति द्रष्टव्यम्’ बोघस्तु कर्मकर्तरिकर्तरीव यथा ओदनः पच्यते स्वयमेवेत्यादौ ओदनाभि-न्नैकाश्रयकबिक्लित्त्यनुकूलस्थाल्यादिसंयोगरूपोव्यापारः। [Page3873-b+ 38] अपरे तु कर्तुराश्रयांशे विशेषणत्ववत् व्युत्पत्तिवैचित्र्येणफलेऽपि विशेषणत्वमङ्गीचक्रुरङ्गीचक्रुश्चात्र नामार्थधात्व-र्थयोरपि साक्षादन्वयम्। वस्तुतस्तु तिङर्थाश्रयस्यैव व्युत्-पत्तिवैचित्र्येणोभयत्रान्वय इति द्रष्टव्यम्, अकर्मकत्वेनप्रसिद्धाः सत्ताद्यर्थका अभियुक्तैरन्यत्र संगृहीता यथा(
“सत्ताजीवनदर्पभीतिशयनक्रीडानिवासक्षयाव्यक्तध्वान-नभोगतिस्थितिजरालज्जाप्रमादोदये। मोहे खेटनवेग-युद्धदहनख्यातिक्षरोन्मादके शुद्धिस्वेदपलायनभ्रमणके-शान्तौ प्लुतौ मज्जने। दृप्तौ जागरशोषवक्रगमनोत्साहेमृतौ गंशये म्लानौ मन्दगतौ च नृत्यपतने चेष्टा-क्रुधौ रोदने। वृद्धौ हावकृतौ च सिद्धिविरतौ हर्षो-पवेशे बले कम्पोद्वेगनिमेषभङ्गयतनार्थे धातवोऽकर्मकाः। दौर्बल्यादिषु चार्थेषु वर्त्तमानास्तु धातवः। वाचका भाव-मात्रस्य यतस्तस्मादकर्मकाः। कौटिल्यादिषु चार्थेषु प्रोक्ताये ते तु धातवः। तद्वद्भावेऽकर्मकाः स्युस्तद्वत्कृत्यां सक-र्मकाः। क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः। प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि धातवः” इति।

३ आकाशादिमहाभूतेषु।

४ इन्द्रियेषु

५ शब्दाद्याकाशादिगुणेषु। देहस्थेषु
“रसासृङ्मांसमेदोऽस्थिमज्जा-शुक्राणिं धातव इत्युक्तेषु

६ रसादिषु।

७ मनःशिला-द्यश्मविकारे।

८ कफादौ अमरः। अत्राह सुश्रुतः।
“ते धातबोऽपि विद्वद्भिर्गदिता देहधारणात्। विसर्गा-दानविक्षेपैः सोमसूर्य्यानिला यथा। धारयन्ति जगद् देहंकफपित्तानिलास्तथेति”।

९ अस्थ्नि।

१० स्वर्णादौ तत्राष्टघातवोयथा
“हिरण्यं रजतं कांस्यं ताम्रं सीसकमेव च। रङ्ग-मायसरैत्यञ्च धातवोऽष्टौ प्रकीर्त्तिता” इति दानसागरः।
“सुवर्णं रजतं ताम्रं लौहं कुप्यञ्च पारदम्। रङ्गञ्च सीसकञ्चैव इत्यष्टौ देवसम्भवाः” इति वैद्यकम्। सप्त धातवो यथा।
“स्वर्णं रूप्यञ्च ताम्रञ्च रङ्गं यसदमेवच। सीसं लोहञ्च सप्तैते धातवो गिरिसम्भवाः” इतिभावप्र॰।
“बलीपलितखालित्यकार्श्यावल्यजरामयान्। निवार्य देहं दधति नृणां तद्धातवो यथा।
“सुवर्णरूप्यताम्राणि हरितालमनःशिला। गैरिकाञ्जनकासीस-सीसलोहाः सहिङ्गुलाः। गन्धकोऽभ्रकमित्याद्याधानवो गिरिसम्भवाः”। नव धातवो यथा
“हेम-तारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम्। कांस्यकंकान्तलौहश्च धातबो नव कीर्त्तिताः”। माक्षिकंतुत्थिकाभ्रे च नीलाञ्जनशिलाऽलकाः। रसकश्चेति[Page3874-a+ 38] विज्ञेया एते सप्तोपधातवः। शरीरस्थसप्तधातुभवस-प्तोपधातवो यथा।
“स्तन्यं रजश्च नारीणां काले भ-वति गच्छति। शुद्धमांसभवस्नेहो यः सा सङ्की-र्त्यते वसा। स्वेदोदन्तास्तथा केशास्तथैवौजश्च सप्तमम्। इति धातुभवाज्ञेया एते सप्तोपधातवः” इति सुख-बोधः।

११ लोकेषु

१२ वस्तुनि शब्दार्थचि॰। रसादेर्धातुवाच्यतायां निरुक्तिस्तत्कर्माणि च भावप्र॰ उ-क्तानि यथा
“एते सप्तखयं स्थित्वा देहं दधति यन्नृणाम्। रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः। प्रीणनंजीवनं लेपः स्नेहो धारणपूरणे। गर्भोत्पादश्च कर्माणिधातूनां कथितानि च। रसादीनां धातूनां क्रमेण प्रीण-नादिकर्माणीति बोध्यम्। एतेषाञ्च पूर्वपूर्बस्योत्तरोत्तर-हेतुत्वं तच्च कायशब्दे

१९

०८ पृ॰ दर्शितम्। उपधातवःतद्गुणाश्च भावप्र॰ अन्यथोक्ताः यथा
“सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम्। तुत्थंकांस्यञ्च रीतिश्च सिन्दूरं च शिलाजतु। उपधातुषुसर्वेषु तत्तद्धातुगुणा अपि। सन्ति किन्त्वेषु तेऽत्रोनास्तत्त-दंशाल्पभावतः”। तत्र स्वर्णादिधातौ
“दह्यन्तेध्मायमानानांधातूनां हि यया मलाः” मनुः। उपधातवश्च गौण-धातवस्तेन तत्रापि धातुशब्दप्रवृत्तिः। अतएव उप-धात्वभिप्रायेण गैरिकादीनां धातुशब्दवाच्यता दृश्यते यथा
“न्यस्ताक्षरा धातुरसेन यत्र”
“अकालसन्ध्यामिव धातु-मत्ताम्” कुमा॰।
“वर्द्धयन्निव तत् कूटान् उद्धूतै-र्धातुरेणुभिः” रघुः।
“त्वामालिख्य प्रणथकुपितां धातु-रागैः शिलायाम्” मेघ॰।
“अद्रीणामिव कूटानि धातु-रक्तानि शेरते” मा॰ आ॰

१९ अ॰।

१३ देहादिधारकेआत्मनि
“स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते। पञ्च धातून् स्वयं षष्ठः आदत्ते युगपत् प्रमुः” याज्ञ॰।
“पञ्च धातून् पृथिव्यादिपञ्चभूतानि शरीरारम्भक-तया षष्ठश्चिद्धातुरात्मा प्रभुः शरीरारम्भकादृष्टकर्मयोगि-तया समर्थः युगपदादत्ते भोगायतनत्वेन स्वीकरोति” मिता॰ आकाशादौ
“तदव्ययमनुद्रिक्तं सर्वव्यापि ध्रुवंस्थिरम्। नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम्” भा॰आश्व॰

३६ अ॰।
“भूतेषु धातवः पञ्च ब्रह्मा तान-सृजत् पुरा। आवृता यैरिमे लोकाः महाभूताभि-संज्ञिताः” भा॰ शा॰

१८

४ अ॰।
“अन्नमशितं त्रेधाविधीयते तस्य यः स्थविष्टो धातुस्तत् पुरीषम्” छा॰ उप॰। प्रभृतौ
“धातोः स्थाने इवादेशं सुग्रीवं संन्यवेशयत्”। [Page3874-b+ 38]
“अवेक्ष्य धातोर्गमनार्थमर्थवित्” रघुः। रसादौ
“शरीर-धातवो ह्यस्य मांसं रुधिरमेव च। नेशुर्ब्रह्मास्त्रनि-र्दग्धाः न च भस्माप्यदृश्यत” भा॰ व॰

२८

९ अ॰। परमेश्वरे
“अनादिनिधनो धाता विधाता धातुरुत्तमः” विष्णुस॰। धातुर्विरिञ्चेरुत्कृष्टः इति वा नामद्वयंकार्य्यकरणात् प्रपञ्चधारणात् वा चिद्धातुः” भा॰।
“वायुंपूर्वमथो सृष्ट्वा यो धातुर्धातुसत्तमः। धारणाद्धातुशब्दञ्चलभते लोकसंज्ञितम्” हरिवं॰

२० अ॰। केशाद्युष-धातौ
“काकपदमक्षिका केशधातुयुक्तानि शर्कराबिद्धम्” वृ॰ सं॰

८० अ॰।

१४ धारके।
“अत्यं हविः सचतेसच्च धातु चारिष्टगातुः” ऋ॰

५ ।

४४ ।

३ ।
“धातु सर्वधार-कम्” भा॰।

१५ प्रकारे
“त्रिधातवः परमा अस्य गावः” ऋ॰

५ ।

५० ।


“त्रिधातुः प्रथयद्विभूम” त्रिधातुः त्रिप्रकारः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातु¦ m. (-तुः)
1. A principle or humour of the body, as phlegm, wind, and bile.
2. Any constituent part of the body, as blood, flesh, &c.
3. A primary or elementary substance, viz. earth, water, fire, air and A4ka4sa or atmosphere.
4. The property of a primary element viz. ordour, flavour, colour, touch, and sound.
5. An organ of sense.
6. A mineral, a fossil.
7. A metal.
8. A grammatical root; in Sanskrit this radical performs no other office, and cannot be used as a word without undergoing some change. E. धा to possess, to contain, (life, substance, &c.) तुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुः [dhātuḥ], [धा-आधारे तुन्]

A constituent or essential part, an ingredient.

An element, primary or elementary substance, i. e. पृथिवी, अप्, तेजस्, वायु and आकाश; Bhāg.7.15.6.

A secretion, primary fluid or juice, essential ingredients of the body (which are considered to be 7: रसासृङ्मांसमेदो$स्थिमज्जाशुक्राणि धातवः, or sometimes ten if केश, त्वच् and स्नायु be added); Mb.3.213.1.

A humour or affection of the body, (i.e. वात, पित्त and कफ); यस्यात्मबुद्धिः कुणपे त्रिधातुके Bhāg.1.84.13.

A mineral, metal, metallic ore; न्यस्ताक्षरा धातुरसेन यत्र Ku.1.7; त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् Me.17; R.4.71; Ku.6.51.

A verbal root; भूवादयो धातवः P.I.3.1; पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् R.15.9.

The soul.

The Supreme Spirit; धातुप्रसादान्महिमानमात्मनः Kaṭha.

An organ of sense.

Any one of the properties of the five elements, i. e. रूप, रस, गन्ध, स्पर्श and शब्द; तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते Mb.6.5.11.

A bone.

A part, portion.

A fluid mineral of a red colour.

Ved. A supporter.

Anything to be drunk, as milk &c. -f. A milch cow. -Comp. -उपलः chalk. -काशीशम्, -कासीसम् red sulphate of iron. -कुशल a. skilful in working in metals, metallurgist. -क्रिया metallurgy, mineralogy-क्षयः waste of the bodily humours, a wasting disease, a kind of consumption. -गर्भः, -स्तपः a receptacle for ashes, Dagoba; Buddh. ˚कुम्भः a relic urn. -ग्राहिन् m. calamine. -घ्नम्, -नाशनम् sour gruel (prepared from the fermentation of rice-water). -चूर्णम् mineral powder.-जम् bitumen -द्रावकः borax. -पः the alimentary juice, the chief of the seven essential ingredients of the body. -पाठः a list of roots arranged according to Pāṇini's grammatical system (the most important of these lists called धातुपाठ being supposed to be the work of Pāṇini himself, as supplementary to his Sūtras).-पुष्टिः f. nutrition of the bodily humours. -प्रसक्त a. devoted to alchemy; -भृत् m. a mountain.

मलम् impure excretion of the essential fluids of the body; कफपित्तमलाः केशः प्रस्वेदो नखरोम च । नेत्रविट् चक्षुषः स्नेहो धातूनां क्रमशो मलाः ॥ Suśruta.

lead.

माक्षिकम् sulphuret of iron.

a mineral substance. -मारिणी borax.-मारिन् m. sulphur. -रसः a mineral or metalic fluid; न्यस्ताक्षरा धातुरसेन यत्र (भूर्जत्वचः) Ku.1.7. -राजकः, -कम् semen. -वल्लभम् borax.

वादः mineralogy, metallurgy.

alchemy. -वादिन् m. a mineralogist. -विष् f. lead. -वैरिन् m. sulphur. -शेखरन् green sulphate of iron, green vitriol. -शोधनम्, -संभवम् lead. -साम्यम् good health, (equilibrium of the three humours).-हन् m. sulphur.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातु m. layer , stratum Ka1tyS3r. Kaus3.

धातु m. constituent part , ingredient ( esp. [ and in RV. only] ifc. , where often = " fold " e.g. त्रि-धातु, threefold etc. ; See. त्रिविष्टि-, सप्त-, सु-) RV. TS. S3Br. etc.

धातु m. element , primitive matter(= महा-भूतL. ) MBh. Hariv. etc. (usually reckoned as 5 , viz. खor आकाश, अनिल, तेजस्, जल, भू; to which is added ब्रह्मYa1jn5. iii , 145 ; or विज्ञानBuddh. )

धातु m. a constituent element or essential ingredient of the body (distinct from the 5 mentioned above and conceived either as 3 humours [called also दोष] phlegm , wind and bile BhP. [See. पुरीष, मांस, मनस्, ChUp. vi , 5 , 1 ] ; or as the 5 organs of sense , इन्द्रियाणि[See. s.v. and MBh. xii , 6842 , where श्रोत्र, घ्राण, आस्य, हृदयand कोष्ठare mentioned as the 5 -dh धातुof the human body born from the either] and the 5 properties of the elements perceived by them , गन्ध, रस, रूप, स्पर्शand शब्दL. ; or the 7 fluids or secretions , chyle , blood , flesh , fat , bone , marrow , semen Sus3r. [ L. रसा-दिor रस-रक्ता-दि, of which sometimes 10 are given , the above 7 and hair , skin , sinews BhP. ])

धातु m. primary element of the earth i.e. metal , mineral , are ( esp. a mineral of a red colour) Mn. MBh. etc. element of words i.e. grammatical or verbal root or stem Nir. Pra1t. MBh. etc. (with the southern Buddhists धातुmeans either the 6 elements [see above] Dharmas. xxv ; or the 18 elementary spheres [ धातु-लोक] ib. lviii ; or the ashes of the body , relics L. [See. -गर्भ]).

धातु mfn. ( धे)to be sucked in or drunk( हविस्) RV. v , 44 , 3

धातु f. = धेनु, milch cow La1t2y. vii , 5 , 9.

धातु n. (with रौहिण)N. of a सामन्A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Marut of the III गण. Br. III. 5. ९४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHĀTU(S) : (Minerals). To understand the Purāṇic stories regarding the origin of iron, copper, tin etc. see under Irump (iron).


_______________________________
*3rd word in right half of page 232 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातु पु.
(‘उखा-’ नाम के पात्र के लिए अभिप्रेत)मिट्टी का ढेला, ‘अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति......’, का.श्रौ.सू. 16.3.27 (ढेलों-पिण्डोंकी संख्या दो होती है, एक तो आधार के शीर्ष पर (एक तरफ) लगाया जाता है, जिसकी झलरियों को थोड़ा उठा हुआ बनाया जाता है); वेदि पर बिछायी गयी घास की तह या पंक्ति, भा.श्रौ.सू. 2.8.13 (दर्श)। धातुर्ऋच् (स्त्री.) (द्वि.) ‘धातृ’ नामक देवता को सम्बोधित दो ऋचायें, उदा. ‘धाता ददातु नो रयिम्......’, आप. श्रौ.सू. 15.18.7.

"https://sa.wiktionary.org/w/index.php?title=धातु&oldid=500471" इत्यस्माद् प्रतिप्राप्तम्