धात्री

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धात्री, स्त्री, (धीयते पीयते इति । धेट पाने + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति कर्म्मणि ष्ट्रन् । षित्वात् ङीष् । अस्या स्तनदुग्ध- पानात्तथात्वम् । यद्वा, दधाति धरतीति । धा + तृच् + ङीप् ।) माता । (यथा, याज्ञवल्क्य- सहितायाम् । ३ । ८२ । “पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्विमुच्यते ॥”) उपमाता । (यथा, रघुः । १० । ७८ । “कुमाराः कृतसंस्कारास्ते धात्रीस्तनपायिनः । आन्दनेनाग्रजेनेव समं ववृधिरे पितुः ॥” (कुमाररक्षाकर्त्री । धाइ इति भाषा ॥ तस्या परीक्षा यथा, “अतो धात्रीपरीक्षामुपदेक्ष्यामः । अथ ब्रूयात् धात्रीमानयेति समानवर्णां यौव- नस्थां निभृतामनातुरामव्यङ्गामव्यसनामवि- रूपामजुगुप्सितां देशजातीयामक्षुद्रां अक्षुद्र- कर्म्मिणीं कुले जातां वत्सलां जीववत्सां पुंवत्सां दोग्ध्रीमप्रमत्तामशायिनीमनुच्चारशायिनीमन- न्तावशायिनीं कुशलोपचारां शुचिमशुचि- द्वेषिणीं स्तन्यसम्पदुपेतामिति ।” “धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदा स्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं शतवीय्या सहस्रवीर्य्यां मोधामव्यथां शिवा- मरिष्टां वाट्यपुष्पीं विष्वक्सेनकान्तामिति बिभ्र- त्यौषधीः कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं पाययेदिति धात्रीकर्म्म ।” इति चरके शारीर- स्थानेऽष्टमेऽध्याये ॥ * ॥ (दधाति धारयति सर्व्व- मिति । धा + तृच् + ङीप् ।) क्षितिः । (गायत्त्री- स्वरूपिणी भगवती । यथा, देवीभागवते । १२ । ६ । ७८ । “धात्रीधनुर्धरा धेनुर्धारिणी धर्म्मचारिणी ॥” गङ्गा । यथा, काशीखण्डे । २९ । ९२ । “धर्म्मोर्म्मिवाहिनी धुर्य्या धात्री धात्रीविभूषणम् ॥”) आमलकीवृक्षः । इति मेदिनी । रे, ४९ ॥ (अस्याः पर्य्याया यथा, वैद्यकरत्नमालायाम् । “धात्री कर्षफला तिष्या वयस्थामलकी शिवा ॥”) अथ धात्र्याद्युत्पत्तिकारणम् । वृन्दामरणान्मुग्धस्य विष्णोर्मोहापनोदाय रुद्र- वाक्यादाद्यां शक्तिं स्तुवतो देवान् प्रति सा आह । अय धात्रीसेचनफलम् । “पिता पितामहाश्चान्ये अपुत्त्रा ये च गोत्रिणः । वृक्षयोनिं गता ये च ये च कीटत्वमागताः ॥ रौरवे नरके ये च महारौरवसंज्ञके । वियोनिञ्च गता ये च ये च ब्रह्माण्डमध्यगाः ॥ पिशाचत्वं गता ये च ये च प्रेतत्वमागताः ॥ ते पिबन्तु मया दत्तं धात्रीमूले सदा पयः ॥ ते सर्व्वे तृप्तिमायान्तु धात्रीमूलनिषेचनात् ॥ इति धात्रीं चाभिषिच्य वारानष्टोत्तरं शतम् । ताञ्च प्रदक्षिणीकृत्य कुर्य्याज्जागरणं व्रती ॥ जागरणन्तु प्रक्रान्तव्रतविषयम् ।” इति श्रीहरि- भक्तिविलासे १३ विलासः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धात्री स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।3।3

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

: अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

धात्री स्त्री।

उपमाता

समानार्थक:धात्री

3।3।177।1।1

धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि। क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

धात्री स्त्री।

आमलकी

समानार्थक:तिष्यफला,आमलकी,अमृता,वयःस्था,धात्री

3।3।177।1।1

धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि। क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धात्री¦ स्त्री धीयते पीयते धेट--कर्मणि ष्ट्रन् धीयन्ते पुरुषार्थाअनया वा धा--करणे ष्ट्रन्, विश्वं वा दधाति ष्ट्रन् षित्त्वात्ङीष् तृच् ङीप् वा।

१ उपमातरि (धाइमा)। भावप्र॰ धात्रीलक्षणादि
“पीताय (पानाय) यदि बालस्यविदध्यादुपमातरम्। सुविचार्य्यगुणान् दोषान् कुर्य्याद्धात्रींततेदृशीम्। सवर्णां मध्यवयसां सच्छीलां मुदितां सदा। शुद्धदुग्धाम्बहुक्षीरां सवत्सामतिवत्सलाम्। स्वाधीना-मल्पसन्तुष्टां कुलीनां सज्जनात्मजाम्। कैतवेनापरि-त्यक्तां निजपुत्रदृशं शिशौ। अथ निषिद्धां धात्रीमाह। शोकाकुला क्षुधार्त्ता च श्रान्ता ध्याधिमती सदा। अत्युच्चानितरां नीचा स्थूलातीव भृशंकृशा। गर्भिणीज्वरिणी चापि लम्बोन्नतपयोधरा। अजीर्णभोजिनीचापि तथा पथ्यविवर्जिता। आसक्ता क्षुद्रकार्य्ये तुदुःस्वार्त्ता चञ्चलापि च। एतासां स्तन्यपानेन शिशु-र्भवति सामयः। अथ बालस्य स्तन्यपानविधिः। तत्रमाता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी। उपविश्या-[Page3876-a+ 38] सने सम्यग्दक्षिणं स्तनमम्बुना। प्रक्षाल्येषत् परिस्राव्यमन्त्राभ्यामभिमन्त्रितम्। उदङ्मुखं शिशुं क्रोडे शनैःसन्धार्य्य पाययेत्। मातेत्युपलक्षणं धात्री च ईषत्-परिस्राव्य। अन्यथा वैगुण्यमाह सुश्रुतः। अस्रावितंस्तनं बालः पिबन् स्तन्येन भूयसा। पूर्णस्रोता वमीकास-श्वासैर्भवति पीडितः। अभिमन्त्रणमाह। क्षीरनोर-निधिस्तेऽस्तु स्तनयोः क्षीरपूरकः। सदैव सुभगो बालोभवत्येष महाबलः। पयोऽमृतसमं पीत्वा कुमारस्तेशुभानने। दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा। मन्त्रौ च पितृस्थानेन व्राह्मणेन पठनीयौ। यावत् मन्त्रपाठस्ताबन्मात्रा धात्र्या वा दक्षिणहस्तेन स्पर्शः कार्य्यः”
“उवाच धात्र्या प्रथमोदितं वचः” रघुः।
“धात्र्य-ङ्गुलीभिः प्रतिसार्य्यमाणः” कुमा॰।

२ क्षितौ च तस्याविश्वधारणात्।
“मेखलेव स्थिता धात्र्या देवासुर-विभागकृत्” सू॰ सि॰।

३ धारणकत्त्र्यां स्त्रियां।

३ आमलक्यां च मेदि॰। तस्याः धारणादेः पुरुषार्थ-साधनत्वात् तथात्वम्। आमलकीशब्दे

७६

४ पृ॰ तद्गुणाउक्ताः। तस्या उत्पत्तिर्माहात्म्यञ्च पाद्मोत्तरख॰

१२

७ अ॰ उक्तं यथा
“अथ क्षिप्तेभ्यो वीजेभ्यो वनस्पत्यः स्त्रियो-ऽभवन्। धात्री च मालती चैव तुलसी च नृपोत्तम!। स्वधामवा स्मृता धात्री माभवा मालती तथा। गौरी-भवा च तुलसी तमःसत्त्वरजोगुणा” स्थानान्तरे तत्रैवतन्माहात्म्यं यथा(
“शृणुष्व धात्रीमाहात्म्यं सर्वपापहरं शुभम्। यत्पुरा हरिणा प्रोक्तं वशिष्ठं प्रति नारद!। धात्री वत्स!नृणां धात्री मातृवत् कुरुते कृपाम्। दद्यादायुः पयःपानात् स्नानाद्वै धर्मसञ्चयम्। अलक्ष्मीनाशनं सद्यो-ऽप्यन्ते निर्वाणमेव च। विघ्नानि नैव जायन्ते धात्री-स्नानेन वै नृणाम्। तस्मात् त्वं कुरु विप्रेन्द्र! धात्री-स्नानं हि यत्नतः। प्रयास्यसि हरेर्धाम देवत्वं प्राप्य-नारद!। यत्र यत्र मुनिश्रेष्ठ! धात्रीस्नानं समाचरेत्। तीर्थे वापि गृहे वापि तत्र तत्र श्रियः स्थिताः। धात्री-स्नातानि दिवसे यस्यास्थीनि कलेवरे। प्रक्षालितानिविप्रेन्द्र! न स स्याद्गर्भसम्भवः। धात्रीफलेन विप्रेन्द्र!येषां केशाश्च रञ्जिताः। ते नराः केशवं यान्ति नाश-यित्वा कलेर्मलम्। धात्रीफलं महापुण्यं स्नाने पुण्य-तरं स्मृतम्। पुण्यात् पुण्यतरं वत्स! भक्षणे मुनि-पुङ्गव!। न गङ्गा न गया पुण्या न काशी न च[Page3876-b+ 38] पुष्करम्। एकैव च यथा पुण्या धात्री माधववासरे। कार्त्तिके मासि विप्रेन्द्र! धात्रीस्नानं समाचरेत्। यश्चतज्जलमश्नीयात् सोऽश्वमेधमवाप्नुयात्। धात्रीफलंस्मरेद्यस्तु सदैव मुनिसत्तम!। प्राग्जन्मनि कृतात् पा-पात् मुच्यते नात्र संशयः। संस्मरेद्यस्तु धात्रीं तामह-न्यहनि मानवः। मुच्यते पातकैः सर्वैर्मनोवाक्वायस-म्भवैः। धात्रीफलान्यमावास्यामष्टमीनबमौषु च। रवि-वारे च संक्रान्तौ संस्मरेन् मुनिपुङ्गव!। यस्य गेहेमुनिश्रेष्ठ! धात्री तिष्ठति सर्वदा। तस्य गेहं न ग-च्छन्ति प्रेतकुष्माण्डराक्षसाः। धात्रीस्नाने हरेर्नाम्निजागरे हरिवासरे। जन्मबन्धो विनश्येत हयमेधा-युतं फलम्। स्नायादामलकैर्यस्तु कार्त्तिके हरिवत्सल!। परितोषं समायाति तस्य वै माधवः स्वयम्। धात्री-च्छायां समासाद्य कुर्य्यात् श्राद्धन्तु यो मुने!। मुक्तिंप्रयान्ति पितरः प्रसादात्तस्य वै हरेः। मूर्ध्नि पाणौमुखे कण्ठे देहे च मुनिसत्तम!। धत्ते धात्रीफलं यस्तुस महात्मा स पुण्यभाक्। धात्रीफलविलिप्ताङ्गोधात्रीफलविभूषितः। धात्रीफलकृताहारो नरो नारा-यणो भवेत्। यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलंमुने!। प्रियो भवति विष्णोः स मनुष्याणाञ्च का कथा। धात्रीफलानि यो नित्यं वहते करसंपुटे। तस्य नारा-यणो देवो वरमेकं प्रयच्छति। धात्रीफलं न मोक्तव्यंकदाचित् करसंपुटात्। य इच्छेद्विपुलान् भोगानन्तेयो मुक्तिमिच्छति। धात्रीफलकृतां मालां कण्ठस्थांयो वहेन्न हि। स वैष्णवो न विज्ञेयो विष्णुभक्तिपरोऽपि च। न त्याज्या तुलसीमाला धात्रीमाला वि-शेषतः। तथा रुद्राक्षमालापि धर्मकामार्थमिच्छता। यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि। ताव-न्मनसि हृत्स्थोऽपि सदा लुठति केशवः। यावद्दिनानिवहते घात्रीमालां करे नरः। तावद्युगसहस्राणि वै-कुण्ठे वसतिर्भवेत्। सर्वदेवमयी धात्री वासुदेवमनः-प्रिया। आरोपणीया सेव्या च सेचनीया सदा बुधैः। एतत्ते सर्वमाख्यातं धात्र्या महात्म्यमुत्तमम्। श्रोत-व्यञ्च सदा सद्भिश्चतुर्वर्गफलदम्” अधिकमामलकीशब्देदृश्यम्।

२ जनन्यां विश्वः।
“पुनर्धात्रीं पुनर्गर्भमोजस्तस्यप्रधायति” याज्ञ॰।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धात्री [dhātrī], 1 A nurse, wet-nurse, fostermother; उवाच धात्र्या प्रथमोदितं वचः R.3.25; Ku.7.25.

A mother; Y.3.82; सुविचार्य गुणान् दोषान् कुर्याद् धात्रीं तदेदृशीम् Bhāva. P.

The earth; सद्यस्तनं परिमलं परिपीय धात्र्याः Rām. Ch.5.5.

The tree called आमलक. -Comp.

पुत्रः a fosterbrother.

an actor. -पुष्पिका N. of a tree (धव). -फलम् An Āmalaka fruit.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धात्री f. " female supporter " , a nurse MBh. Ka1v. etc.

धात्री f. midwife Hit. iv , 61

धात्री f. mother Ya1jn5. iii , 82

धात्री f. the earth Var. MBh. Hariv. etc.

धात्री f. Emblica Officinalis Var. Sus3r. (some derive it fr. धेSee. धायस्and Pa1n2. 3-2 , 181 ).

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--wife of Bhava and mother of उशनस्. Br. II. १०. ७७.
(II)--earth. Br. II. ३६. २२६; वा. ६२. १९३.
(III)--a nurse of the शूद्र caste. वा. ८८. १६२; ९६. ४१; ९९. ७०.
"https://sa.wiktionary.org/w/index.php?title=धात्री&oldid=431404" इत्यस्माद् पुनः प्राप्तिः