धीमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीमान्, [त्] पुं, (धीरस्यास्तीति । धी + मतुप् ।) बृहस्पतिः । पण्डिते, त्रि । इति मेदिनी । ते, ११५ ॥ (यथा, मनुः । १ । १०२ । “तस्य कर्म्मविवेकार्थं शेषाणामनुपूर्ब्बशः । स्वायम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥” नरपुत्त्रस्य विराजः पुत्त्रः । यथा, -- “नरो गयस्य तनयः तत्पुत्त्रोऽभूत् विराट् ततः । तस्य पुत्त्रो महावीर्य्यो धीमांस्तस्मादजायत ॥” इति विष्णुपुराणे । २ । ३९ । पुरूरवसः उर्व्वशीगर्भजातः पुत्त्रविशेषः । यथा, महाभारते । १ । ७५ । २४ । “षट्सुता जज्ञिरेऽथैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च शतायुश्चोर्व्वशीसुताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीमत् पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।6।1।1

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीमत्¦ पु॰ धीः प्रज्ञास्त्यस्य मतुप्।

१ वृहस्पतौ

२ बुद्धिमतिपण्डितादौ त्रि॰।
“स्वायम्भवो मनुर्धीमानिदं शास्त्र-मकल्पयत्” भनुः स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीमत्¦ mfn. (-मान्-मती-मत्) Sensible, wise, learned. m. (-मान्) A name of VRIHASPATI, the preceptor of the gods. E. धी wisdom, understand- ing मतुप् possess. aff. धी अस्ति अस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीमत्/ धी--मत् mfn. intelligent , wise , learned , sensible Mn. MBh. etc.

धीमत्/ धी--मत् m. N. of बृहस्पतिL.

धीमत्/ धी--मत् m. of a son of विराज्VP.

धीमत्/ धी--मत् m. of a ऋषिin the 4th मन्व्-अन्तरib.

धीमत्/ धी--मत् m. of a son of पुरू-रवस्MBh.

धीमत्/ धी--मत् m. a बोधि-सत्त्वL.

"https://sa.wiktionary.org/w/index.php?title=धीमत्&oldid=332215" इत्यस्माद् प्रतिप्राप्तम्