धीर

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरम्, क्ली, (धियं रातीति । रा + कः ।) कुङ्कु- मम् । इति मेदिनी । रे, ५१ ॥ (पर्य्यायोऽस्य यथा भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । सङ्कोचं पिशुनन्धीरं बाह्लीकं शोणिताभिधम् ॥”)

धीरः, पुं, (धियं राति ददाति गृह्णातीति वा । रा + कः ।) ऋषभौषधिः । इति राजनिर्घण्टः ॥ वलिराजः । इति शब्दरत्नावली ॥

धीरः, त्रि, (धियं ईरयतीति । ईर + अण् । यद्बा, धियं रातीति । रा + कः ।) धैर्य्यान्वितः । स्वेरः । पण्डितः । इति मेदिनी । रे, ५१ ॥ (यथा, भागवते । ३ । ६ । ४५ । “तथापरे चात्मसमाधियोग- बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥” बलयुतः । इति शब्दरत्नावली ॥ मन्दः । इति त्रिकाण्डशेषः ॥ (यथा, -- “देहे समीहे भवतो विधातुं धीरं समीरं नलिनीदलेन ॥” इति रसमञ्जर्य्याम् ।) विनीतः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (गम्भीरः । यथा, रघुः । ३ । ४४ । “अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्त्तयन्निव ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीर पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।2।1

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीर¦ अवज्ञायाम् नित्यमवपूर्वकोऽयम् अवधीरवत् तच्छब्दे

४२

७ पृ॰ दृश्यम्।

धीर¦ त्रि॰ धियं राति रा--क। धियमीरयति ईर--अण् वाउप॰ स॰।

१ पण्डिते

२ धैर्य्यान्विते अचञ्चले

३ स्वैरे मेदि॰।

४ बलयुते शब्दर॰।

५ मन्द्रे त्रिका॰

६ विनीते संक्षिप्त॰।

६ कुङ्कुमे न॰ मेदि॰।

८ ऋषभौषधौ पु॰ राजनि॰।

९ बलिराजेपु॰ शब्दच॰।

१० चिदाभासद्वारा बुद्धिवृत्तिप्रेरके चिदात्मनिपु॰।

११ मनोहरे त्रि॰
“धीरसमीरे यमुनातीरे वसतिवने वनमाली” गीतगो॰
“प्रवृद्धमन्द्राम्बुदधीरनादः” माघः।
“मृदङ्गधोरध्वनिमन्वगच्छत्” रघुः।
“अवोचदेनंगगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव” रघुः। तत्र पण्डिते
“धीरैर्धीरोद्धतः कथितः सा॰ द॰। [Page3892-b+ 38]
“सोपधानान्धियं धीराःस्थेयसीं खट्टयन्ति ये” माघः।

१२ काकोल्यां

१३ महाज्योतिष्मत्या स्त्री राजनि॰

१४ मा-नयुतायां मध्यायां प्रगल्भायां च नायिकायां स्त्री। तल्लक्षणभेदादिकं रसमञ्जर्य्यामुक्तां यथा(
“मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिबिधे धीराअधीरा धीराधीरा च व्यङ्ग्यकोपप्रकाशिका धीरा। अव्यङ्ग्यकोपप्रकाशिका अधीरा। व्यङ्गाव्यङ्गकोपप्रका-शिका धीराधीरा। इयांस्तु विशेषः। मध्याया-धीरायाः कोपस्य गीर्व्यञ्जिका। अधीरायाः परु-षवाक्। धीराधीरायास्तु वदनरुदिते कोपप्रकाशके। प्रौढाया धीरायास्तु रत्यौदास्यम्। अधीरायास्तु तर्जन-ताडनादिः। धीराधीरायास्तु रत्यौदास्यतर्जनताडनादिच कोपस्य प्रकाशकम्। यत्तुधीराभेदः स्वीयायामेव नतु परकीयायामिति प्राचीनलिखनम् तदाज्ञामात्रंधीरत्वमधीरत्वं तदुभयं वा माननियतं परकीयायाअपि मानश्चेत्तत्तासामप्यावश्यकम्। मानश्च स्वीयायामेवन तु परकीयाया इति वक्तुं न शक्यते”। साहित्यदर्पणे तु अन्यथोक्तम् यथा
“ते धीरा चाप्यधीरा च धीराधीरेति षड्विधे” ते मध्याप्रगल्भे तत्र।
“प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरादहेद्रुषा। धीराधीरा तु रदितैरधीरा परुषोक्तिमिः। तत्रमध्याधीरा यथा
“तदवितथमवादीर्य्यन्मम त्वं प्रि-येति प्रियजनपरिभुक्तं यद् दुकूलं दधानः। मदधिवस-तिमागाः, कामिनां मण्डनश्रीर्व्रजति हि सफलत्वंबल्लभालोकनेन”। प्रगल्भा यदि धीरा स्याच्छन्नकोपा-कृतिस्तदा। उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः। तत्र प्रिये।
“एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतस्ताम्बूलानयनच्छलेन रभसाऽश्लेषो संविघ्नितः। आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिकेकान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः”। प्रत्येकं ता अपि द्विधा। कनिष्ठाज्येष्ठारूपत्वान्नायकप्र-णयं प्रति”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीर¦ mfn. (-रः-रा-रं)
1. Wise, sensible, learned.
2. Firm, steady, con- sistent, determined.
3. Cool, collected.
4. Head-strong, self-willed, uncontrollable.
5. Lazy, dull, slow.
6. Strong, powerful.
7. Well- behaved, decorous, decent.
8. Gentle, steady, (as a breeze.)
9. Deep, (as a sound) m. (-रः)
1. A name of BALI, a celebrated prince.
2. The ocean. mn. (-रः-रं) Saffron. f. (-रा)
1. A drug; also काकोली।
2. A woman who, although jealous of a husband or lover, suppresses all expression of resentment in his presence. E. धी understanding, रा to possess, क affix; or धी with ईर to go to, affix अण्; or धी to possess, क्तन् Una4di aff. धियं राति रा-क | धियमीरयति ईरअण् वा | उप० स |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीर [dhīra], a. [धियं राति रा-क, धियमीरयति ईर-अण् वा उप˚ स Tv.] Brave, bold, courageous; धीरोद्धता गतिः U.6.19.

Steady, steadfast, firm, durable, lasting, constant निषेदुषीमासनबन्धधीरः R.2.6.

Strong-minded, persevering, self-possessed, resolute, of firm resolve or purpose; धीरा हि तरन्त्यापदम् K.175; विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः Ku.1.59.

Composed, calm, collected.

Sedate, sober, grave, solemn; सागरधीरचेताः R.18.4.

Strong, energetic.

Wise, prudent, intelligent, sensible, learned, clever; तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः Bṛi. Up.4.4.21. धृतेश्च धीरः सदृशीर्व्यधत्त सः R.3.1;5.38; 16.74; U.5.31.

Deep, grave, loud, hollow (as sound); स्वरेण धीरेण निवर्तयन्निव R.3.43,59; U.6.17.

Well-conducted, well-behaved.

Gentle, soft, agreeable, pleasing (as a breeze); धीरसमीरे यमुनातीरे वसति वने वनमाली Gīt.5.

Lazy, dull.

Daring.

Headstrong.

रः The ocean.

An epithet of Buddha.

The thinking principle, the soul (चिदात्मन्).

An epithet of king Bali. -रम् Saffron. -रम् -ind. Boldly, firmly, steadfastly. steadily; धीरं विलोकयति Bh.2.31; Amaru. 13. -Comp. -उदात्तः the hero of a poetic composition (i. e. a play or poem) who is brave and noble-minded; अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः । स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ S. D. 66. -उद्धतः the hero of a poetic composition who is brave but haughty; मायापरः प्रचण्ड- श्चपलो$हंकारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः S. D.67. -चेतस् a. firm, resolute, strongminded, courageous. -प्रशान्तः the hero of a poetic composition who is brave and calm; सामान्यगुणैर्भूयान् द्विजातिको धीरप्रशान्तः स्यात् S. D.69. -ललितः hero of a poetic composition who is firm and brave, but sportive and reckless; निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् S. D.68. -ललिता f. N. of a metre with the गुणs as भरनरनग. -स्कन्धः a buffalo.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीर mf( ईor आ)n. intelligent , wise , skilful , clever , familiar with , versed in( loc. ) RV. etc. etc. ( compar. धीर-तरAV. R. )

धीर m. N. of a बुद्धL.

धीर m. of sev. men with the patr. शातपर्णेयS3Br.

धीर mf( आ)n. ( धृor धा? See. Un2. ii , 24 )steady , constant , firm , resolute , brave , energetic , courageous , self-possessed , composed , calm , grave Hariv. Ka1v. Pur.

धीर mf( आ)n. deep , low , dull (as sound) Ka1lid. Amar. etc.

धीर mf( आ)n. gentle , soft L.

धीर mf( आ)n. well-conducted , well-bred L.

धीर m. the ocean , sea (as an image of constancy?)

धीर m. N. of बलिL.

धीर m. of other men Ra1jat.

धीर n. saffron L. (not always , esp. in comp. , separable from 1. धीर).

"https://sa.wiktionary.org/w/index.php?title=धीर&oldid=500483" इत्यस्माद् प्रतिप्राप्तम्