धीरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरा, स्त्री, (धीर + टाप् ।) काकोली । महा- ज्योतिष्मती । इति राजनिर्घण्टः ॥ (गुडूची । अस्याः पर्य्याया यथा, -- “गुडूची मधुपर्णी स्यादमृतामृतवल्लरी । छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ॥ जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली । चक्रलक्षणिका धीरा विशल्या च रसायनी ॥ चन्द्रहासी वयस्था च मण्डली देवनिर्म्मिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मानावस्थायां मध्याप्रगल्भानायिकाभेदः । अस्या लक्षणम् । व्यङ्ग्यकोपप्रकाशा धीरा । मध्याया धीरायाः कोपव्यञ्जिका गीः । प्रौढा- धीरायास्तु रतावौदास्यम् । सा द्विविधा । ज्येष्ठा कनिष्ठा च । मध्या धीरा यथा, -- “लोलालिपुञ्जे व्रजतो निकुञ्जे स्फारा बभूवुः श्रमवारिधारा । देहे समीहे भवतो विधातुं धीरं समीरं नलिनीदलेन ॥ प्रौढा धीरा यथा, -- “नो तल्पं भजसे न जल्पसि सुधाधारानुकारा गिरो दृक्पातं कुरुषे न वा परिजने कोपप्रकाश- च्छलात् । इत्थं केतकगर्भगौरि ! दयिते कोपस्य संगोपनं किं स्यादेव न चेत् पुनः सहचरी कुर्व्वीत साचिस्मितम् ॥” इति रसमञ्जरी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरा [dhīrā], The heroine of a poetic composition who, though jealous of her husband or lover, suppresses all outward manifestation or expression of her resentment in his presence or as the Rasamañjarī puts it, व्यङ्ग्यकोपप्रकाशिका धीरा; see S. D. 12-15 also. -Comp. -अधीरा the heroine of a poetic composition who, being jealous of her husband or lover, alternately expresses and conceals her jealousy; धीराधीरा तु सोल्लुण्ठभाषितैः खेदयेदमुम् S. D.; (व्यङ्ग्याव्यङ्ग्यकोपप्रकाशिका धीराधीरा Rasamañjarī.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरा f. N. of sev. medic. plants( काकोली, क्षीर-काक्, महा-ज्योतिष्मती, मेदा, श्वेत-वचा, Rosa Glandulifera) Bhpr. L.

धीरा f. an intoxicating beverage L.

धीरा f. a woman who keeps down all expression of resentment or jealousy Sa1h.

धीरा f. N. of a woman Cat.

"https://sa.wiktionary.org/w/index.php?title=धीरा&oldid=332335" इत्यस्माद् प्रतिप्राप्तम्