सामग्री पर जाएँ

धुनिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुनिः, स्त्री, (धुनोति वेतसादिनदीजातवृक्षा- निति । धु कम्पने + वहुलवचनात् निः स च कित् ।) नदी । इत्यमरटीकायां भरतः ॥ (यथा, ऋग्वेदे । २ । ३० । २ । “पथोदरन्तीरनुजोषमस्मै दिवे दिवे धुनयो यन्त्यर्थम् ॥” पुं, जलप्रतिरोधकोऽसुरविशेषः । यथा, तत्रैव । १ । १७४ । ९ । “त्वं धुनिरिन्द्रधुनिमतीरृणोरपः सीरान- स्रवन्तीः ॥” “हे इन्द्र त्वं धुनिः कम्पयिता शत्रूणामसि अतो धुनिमतीः कम्पनोपेततरङ्गवतीः अथवा धुनि- र्नामजलप्रतिरोधकार्य्यसुरः स एव प्रतिबन्धक- तया यासां तादृशीरपः ॥” इति तद्भाष्ये सायनः । धूनयति कम्पयति शत्रूनिति । मरु- द्बिशेषः । यथा, वाजसनेयसंहितायाम् । ३९ । ७ । “उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च ॥” कम्पयितरि, त्रि । यथा, ऋग्वेदे । १ । ७९ । १ । “हिरण्यकेशो रजसोविसारेहिर्धुनिर्वात इव ध्रजीमान् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुनिः [dhuniḥ] नी [nī], नी f. A river; पुराणां संहर्तुः सुरधुनि कपर्दो$धिरुरुहे G. L.22. -Comp. -नाथः tho ocean.

"https://sa.wiktionary.org/w/index.php?title=धुनिः&oldid=332579" इत्यस्माद् प्रतिप्राप्तम्