धू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धू, ञ कम्पे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं- सकं-वेट् ।) स चेहापि कम्पप्रेरणमेव । ञ, धवति धवते । धवति चन्दनमञ्जरीश्चेति हला- युधः । इति दुर्गादासः ॥

धू, न ञ गि कम्पे । इति कविकल्पद्रुमः ॥ (स्वां-क्र्यां च-उभं-सकं-वेट् ।) स चेहापि कम्पप्रेरणम् । न ञ, धूनोति धूनुते । गि ञ, धुनाति धुनीते । धूनः धूनिः । धूनोति चम्पक- वनानीति हलायुधः । धुनाति वायुरश्वत्थम् । धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनः । इति दुर्गादासः ॥

धू, शि क कम्पे । इति कविकल्पद्रुमः ॥ (तुदां- चुरां-च-सकं-सेट् ।) कम्प इह ञ्यन्तस्य रूपम् । शि, धुवति मारुतो मालतीलताम् । अधुवीत् । क, धावयति । वायुर्विधूनयति केशरपुष्परेणू- निति चुरादौ हलायुधः । प्रीघूञोर्नन् वा इत्यत्र धूञग्रहणादस्य कथं नन्निति चेन्न । स्वार्थविहि- तस्य ञेर्ञकारेण सम्बन्धस्य वाच्यत्वात् । अन्यथा कम्पप्रेरणे धूनयति इत्यादिप्रयोगा न स्युः । धूनोतीत्यादीनां साध्या इति चेत् स्वभावात् कम्पप्रेरणार्थाणां तेषां ञौ कृते कम्पप्रेरणस्य प्रेरणमेवार्थः स्यात् । किञ्च कम्पनायां धूनय- तीत्यादीनामावश्यकत्वात् तत्सूत्रे ञकारः प्राचीनमतानुवादार्थ एव । इति दुर्गा- दासः ॥

धूः, [र्] स्त्री, (धुर्व्वतीति । धुर्व्व + क्विप् ।) यानमुखम् । रथादेरग्रभागः । इत्यमरः । २ । ८ । ५५ ॥ (यथा, महाभारते । १ । १३६ । २१ । “क्षणात् प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ॥”) भारः । (यथा, रघुः । १ । ३४ । “तेन धूर्जगतो गुर्व्वी सचिवेषु निचिक्षिपे ॥”) चिन्ता । इत्येकाक्षरकोषः ॥ (अग्रम् । यथा, रघुः । २ । २ । “अपांशुलानां धुरि कीर्त्तनीया ॥” हिंसके, त्रि । यथा, ऋग्वेदे । १० । ९४ । ७ । “दशधुरो दशयुक्ता वहद्भ्यः ॥” “दशभिर्धुरो धूर्भिर्हिंसितृभिः । तृतीयार्थे प्रथमा ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धू स्त्री।

रथादीनां_मुखभागः

समानार्थक:धू,यानमुख

2।8।55।2।1

त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे। धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धू¦ कम्पने भ्वा॰ उभ॰ सक॰ वेट्। धवति ते अधावीत् अधौषीत्मुग्ध॰ पा॰ मते प॰ सिचि नित्येटितिभेदः अधमविष्ट अधोष्ट। दुधाव।
“यत् कानने धवति चन्दनञ्जरीश्च” कविर॰।

धू¦ कम्पने वा॰ चुरा॰ उभ॰ पक्षे तुदा॰ कु॰ पर॰ सक॰ सेट्। धूनयति ते धुवति अदूधुनत् अधुवीत्। धूनयाम् बभूवआस चकार दुधाव। दुधुविथ
“चूतं धुनाति धुवतिस्फुरितातिमुक्तम्। वायुर्विधूनयति केशरपुष्परेणून्” कविरहस्यम्।

धू¦ कम्पने स्वा॰ क्य्रादि॰ प्वादिश्च उभ॰ सक॰ वेट्। धूनोतिधूनुते धुनाति धुनीते। अधावीत् अधौषीत् अधविष्टअधोष्ट
“धूनोति चम्पकवतानि धुनोत्यशोकं चूतधुनाति धुवति स्फुरितातिमुक्तम्” कविरहस्यम्।

धू¦ स्त्री धू--क्विप्। विधूनने मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धू [dhū], 6 P., 1,5,9,1. U. (धुवति, धवति-ते, धूनोति, धूनुते, धुनाति, धुनीते, धूनयति-ते, also धावयति-ते, धूत-धून)

To shake, agitate, cause to move or tremble; धुन्वन्ति पक्षपवनैर्न नभो बलाकाः Ṛs.3.12; धुन्वन् कल्पद्रुमकिसलयानि Me.64; Ku.7.49; R.4.67; Bk.5.11;9.7;1.22.

To shake off, remove, throw off; स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया Ś.7.24.

To blow away, destroy,

To kindle, excite, fan (as fire); वायुना धूयमानो हि वनं दहति पावकः Mb.; पवनधूतः ... अग्निः Ṛs.1.26.

To treat roughly, hurt, injure; मा न धावीररिं रणे Bk.9.5;15.61.

To shake off from oneself, free oneself from; (सेवकाः) आरोहन्ति शनैः पश्चाद् धुन्वन्तमपि पार्थिवम् Pt.1.36.

To strive against, resist, oppose. (The following stanza from Kavirahasya illustrates the root in its different conjugations: धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तं । वायुर्विधूनयति चम्पकपुष्परेणून् यत्कानने धवति चन्दनमञ्जरीश्च ॥)

धूः [dhūḥ], f. Shaking, trembling, agitating.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धू cl.5 P. A1. धूनोति, नुतेRV. AV. ; धुनोति, नुतेBr. etc. ; cl.6 P. ( Dha1tup. xxvii , 9 ) धुवतिAV. Br. ( cf. नि-; Pot. धूवेत्Ka1t2h. ); cl.9 P. A1. ( xxxi , 17 ) Pot. धुनीयात्Sus3r. ; p. A1. धुनानBhP. ; cl.1 P. ( xxxiv , 29 ) धवति; cl.2 A1. , 3. pl. धुवते( धुन्वते?) S3Br. ; p. धुवानTS. ( pf. दुधावMBh. , धुवेAV. ; दुधुवीतand दूधोत्RV. : aor. अधूष्ट, 3. pl. षतib. ; अधोष्ट, अधविष्ट; अधौषीत्, अधावीत्Gr. ; fut. धविष्यति, तेBr. etc. ; धोष्यति, ते, धोताand धविताGr. ; ind.p. धूत्वाAitBr. , -धूयAV. etc. ; inf. धवितुम्Gr. )to shake , agitate , cause to tremble RV. etc. ; to shake down from( e.g. fruits [ acc. ] from a tree [ acc. ]) RV. ix , 97 , 53 ; (oftener A1. )to shake off , remove , liberate one's self from( acc. ) Br. Up. MBh. etc. ; to fan , kindle (a fire) Ka1tyS3r. MBh. etc. ; to treat roughly , hurt , injure , destroy Ka1v. Pur. ; to strive against , resist Pan5c. i , 42 : Pass. धूयतेAV. etc. ( p. धूयत्MBh. ): Caus. धावयति( Dha1tup. xxxiv , 29 ) and धूनयति(See. धून): Desid. दुधूषति, तेGr. ; Intens. दोधवीतिRV. MBh. ( p. दो-धुवत् दविध्वत्RV. ); दोधूयते, p. यमानand यत्MBh. ; so shake or move violently (trans. and intr.); to shake off or down; to fan or kindle. [ cf. धव्and धाव्; Gk. ?.]

धू f. shaking , agitating L.

"https://sa.wiktionary.org/w/index.php?title=धू&oldid=332903" इत्यस्माद् प्रतिप्राप्तम्