धूप

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूप, तापे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) षष्ठस्वरी । धूपायति धूपायते । आय- न्तत्वादुभयपदमिति वोपदेवः । अरे तु आय- स्याप्राप्तिपक्षे परस्मैपदमेव । अधूपीत् दुधूप इत्यादि । तापः सन्तप्तीकरणम् । इति दुर्गा- दासः ॥

धूप, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) क, धूपयति । इति दुर्गादासः ॥

धूपः, पुं, (धूपयति स्वगन्धेन प्रीणयित्वादीप्यतीति । धूप + अच् ।) गन्धद्रव्यविशेषोत्थधूमस्तद्वर्त्तिश्च । तत्पर्य्यायः । गन्धपिशाचिका २ । इति हेम- चन्द्रः । ३ । ३१३ ॥ * ॥ यथा, -- “एवं वां कथितो दीपो धूपञ्च शृणुतं सुतौ । नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः ॥ दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य वा । कक्कोलमूषरं दार्व्वी गन्धमाद्री रसाञ्जनम् ॥ अष्टवर्गः शटी मेथी शिलाजिद्गन्धचन्दनम् । कुन्दुरू रेणुकं रास्नाजमोदा शतपुष्पिका ॥ हरिद्रा जीरकं वृक्षक्षीरञ्च रक्तचन्दनम् । कर्चूरकं मरुवकं यवानी ग्रन्थिकन्तथा ॥ शैलजं धातकीपुष्पं नखी मोचरसादिकम् । मुकुन्दधूपे देवर्षे ! सर्व्वमेतद्विवर्ज्जयेत् ॥” इति पाद्मोत्तरस्वण्डम् ॥ धूपदानविधिर्यथा, -- “मध्यमानामिकाभ्यान्तु मध्यपर्व्वणि देशिकः । अङ्गुष्ठाग्रेण देवेशि ! धृत्वा धूपं निवेदयेत् ॥ धूपस्थानं समभ्यर्च्च्य तर्ज्जन्या वामयास्पृशन् । धूपभाजनमन्त्रेण प्रोक्ष्याभ्यर्च्च्य हृदाणुना उत्तीर्य्य दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम् ॥ वादयन् वामहस्तेन दक्षहस्तेन चार्पयेत् ॥” इति तन्त्रसारः ॥ गन्धमाल्यमदत्त्वा धूपदाने दोषो यथा, -- “अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति । कूणपो जायते भूमे यातुधानो न संशयः ॥ वर्षाणि चैकविंशानि अयस्कारनिवासकः । तिष्ठतेऽत्र महाभागे ! एवमेतन्न संशयः ॥” इति वराहपुराणम् ॥ * ॥ विषघ्नधूपो यथा, -- “सक्तुः सर्ज्जरसोपेतः सर्षपा एलबालुकैः । सुवर्णा तस्करतरोः कुसुमैरर्ज्जुनस्य तु ॥ धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटा न विषं न दर्दुरसरीसृपाः ॥ न कृत्या कर्म्मणस्तत्र धूपोऽयं यत्र दह्यते ॥” * ॥ सर्पनिर्म्मोचनधूपो यथा, -- “कार्पासास्थिभुजङ्गस्य यथा निर्म्मोचनं भवेत् । सर्पनिर्म्मोचनो धूपः प्रशस्तः सततं गृहे ॥” इति मत्स्यपुराणे १९२ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूप¦ दीप्तौ चुरा॰ उभ॰ अक॰ दीपने सक॰ सेट्। धूपयति--तेअदूधुपत्--त। धूपयाम् बभूव आस चकार। धूपितः।
“वसवस्त्वा धूपयन्ति” यजु॰

११ ।

६ धूपशब्दे उदा॰

धूप¦ तापे अक॰ तापने सक॰ भ्वा॰ पर॰ सेट्। धूपायतिअधूपायीत् अधूपीत्। धूपायाम् बभूव आस चकारदुधूप। धूपायितः धूपितः।
“धूपायतीव पटलैर्नवनीर-दानाम्” माघः।

धूप¦ पु॰ धूपयति रोगान् दोषान् वा धूप--अच्।

१ गुग्गुलुप्रभृतिसुगन्धद्रव्योत्थे धूमे,

२ तत्साधनदुव्ये च तन्निरुक्तिर्यथा
“धूताशेषमहादोषपूतिगन्धः प्रभावतः। परमानन्दजन-नाद्धूप इत्यभिधीयते” धूपद्रव्यभेदः प्रपञ्चसारे
“गुग्गुल्व-गुरुकोशीरसिताज्यमधुचन्दनैः। साराङ्गारे विनिक्षिप्तै-र्मन्त्री पीठैः प्रधूपयेत्”। योगिनीतन्त्रे
“कृष्णागुरु स-कर्पूरं चन्दनं सिह्लकं तथा। भगवत्यै नरो यस्तु इदंदत्त्वा महेश्वरः। इह काममवाप्नोति दुर्गालोके मही-यते”। आह्नि॰ त॰ वामनपुराणे
“रुहिकाख्यं कनं दारु सिह्लकं साशुरुं सितम्। शङ्खोजातीफलं श्रीशे धूपानि स्युः प्रियाणि वै। रुहिकामांसी कनो महिषाख्यगुग्गुलुः सितं कर्पूरं सितेतिपाठे सिता शर्करा। शङ्खो नखी। श्रीशे विष्णौ। विष्णुधर्मोत्तरे
“धूपदः सर्वमाप्नोति धूपदः सर्वमश्नुते” वामनपुराणेऽस्य क्लीवतार्षी। तन्त्रसारे विशेषः शारदायां
“गुग्ल्वगुरुकोशीरशर्करामधुचन्दनैः। धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः”। विशेषस्तु तन्त्रान्तरे
“सिताज्यमधुसंमिश्रं गुग्गुल्वगुरु-चन्दनम्। षडङ्गं धूपमेतत्तु सर्वदेवप्रियं सदा”। तथा
“गुग्गुलुं सरलं दारु पत्रं मलयसम्भवम्। ह्रीवेरमगुरुंकुष्ठं गुडं सर्जरसं घनम्। हरीतकीं नखीं लाक्षांजटामांसीञ्च शैलजम्। षोडशाङ्गं विदुर्धूपं दैवे पैत्रेच कर्मणि”।
“मधु मुस्तं घृतं गन्धो गुग्ल्वगुरुशैलजम्। [Page3897-b+ 38] सरलं सिह्ल सिद्धार्थं दशाङ्गो धूप इष्यते”। रोग

१ रोगहर

२ रोगद

३ केशाः

४ दारु

५ जातु

६ लघु

७ पत्रविशेषाः

८ वक्रविवर्जित

९ वारिजमुद्रा

१० धूपवर्त्तिरिह सुन्दरिः भद्रा” अस्यार्थः कुड

१ हरीतकी

२ गुड

३ जटामांसी

४ देवदारु

५ लाक्षा

६ अगुरु

७ तेजपत्र

८ सरल

९ नखी

१० ”
“यथा गन्धं तथा देवि धूपं दद्याद्विचक्षणः। मध्य-मानामिकाभ्यान्तु मध्य पर्वणि देशिकः अङ्गुष्ठाग्रेण देवे-शि! धृत्वा धूपं निवेदयेत्। तथा समर्पयेद्धूपं घण्टावा-द्यजयस्वनैः”। तथा
“धूपभाजनमस्त्रेण(फट्)प्रोक्ष्याभ्यर्च्यहृदाणुना(नमः)। अस्त्रेण पूजितां घण्ठां वादयन् गुग्गुलु” दहेत्। श्यामादौ तु भुवनेश्वरी वीजं पूर्वं दत्त्वा इमंमन्त्रं पठित्वार्पयेत्।
“तथा जयध्वनिमन्त्रमातः! स्वाहे-त्युदीर्य्य च। अभ्यर्च्य वादयेद् घण्टां सुधूपैर्धूपयेत्ततः”। तन्त्रान्तरे
“धूपस्थानं समभ्यर्च्य तर्जन्या वामया स्पृशन्। धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना। एवं दीप-दानेऽपि घण्टावादनमिति। तथाच गौतमीये
“उत्तार्य-दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम्। वादयन् वाम-हस्तेन दक्षहस्तेन चार्चयेत्”। यामले
“निवेदयेत् पुरोभागेगन्धं पुष्पं च भूषणम्। दीपं दक्षिणतो दद्यात् पुरतोवा न वामतः। वामतस्तु तथा धूपमग्रे वा न तुदक्षिणे। नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः”। वामदक्षिणभागस्तु देवताया एव न तु साधकस्य।
“धूपदीपौ सुभोज्यञ्च देवताग्रे निवेदयेदिति” दर्शनात्तिथितत्त्वे स्मृतिः
“मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरुशैलजम्। सरलं सिह्लसिद्धार्थौ दशाङ्गो धूप इष्यते। दशाङ्गो दशघटितः शैलजं स्वनामख्यातं सि-द्धार्थः श्वेतसर्षपः।
“तुरुष्कं ग्रन्थिकर्पूरनागरागुरुकुङ्कुमैः। मुरामांसीसितामिश्रं धूपं दद्यान् मधुप्लुतम्”। तुरुष्कं सिह्लकं” ग्रन्थिः (गां ठीयालीति)ख्याता। सिता शर्करा नागरः शुण्ठी। भविष्ये
“जलहीने तु दुर्भिक्षं गन्धहीने त्वभाग्यताम्। धूप-हीने तथोद्वेगं वस्त्रहीने धनक्षयम्” प्राप्नुयादिति शेषःकालिकापुराणे

६८ अ॰ यथा
“एवं वां कथितो दीपोधूपञ्च शृणुतं सुतौ!। नासाक्षिरन्ध्रसुखदः सुगन्धो-ऽतिमनोहरः। दह्यमानस्य काष्ठस्य प्रयतस्येतरस्यवा। परागस्याथ वा धूमो निस्तापो यस्य जायते। म धूप इति विज्ञेयो देवानां तुष्टिदायकः। राशी-कृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत्। तथाग्निवत्तथा[Page3898-a+ 38] कृत्वा न तत् फलमवाप्नुयात्। श्रीचन्दनञ्च सरलःसालः कालागुरुस्तथा। उदयः सुरथः कन्दो रक्तविद्रुम एव च। पीतसालः परिमलो विमर्दीकाऽसन-स्तथा। नमेरुर्देवदारुश्च विल्वसारोऽथ खादिरः। सन्तानः पारिजातश्च हरिचन्दनवल्लभौ। वृक्षेषुधूपाः सर्वेषां प्रीतिदाः परिकीर्तिताः। अरालः सहसूत्रेण श्रीवासः पटवासकः। कर्पूरः श्रीकरश्चैवप्ररागः श्रीहरामलौ। सर्वौषधिरजोजातो वाराह-श्चूर्ण उत्कलः। जातीकोषस्य चूर्णञ्च गन्धः कस्तूरिकातथा। क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः। यक्षधूपो वृकधूपः श्रीपिष्टोऽगुरु झर्झरः। पत्रिवाहःपिण्डधूपः सुगोलकण्ठ एव च। अन्योन्ययोगनिर्यासा धृपा एते प्रकीर्तिताः। एतैर्विधूपयेद्देवान्धूमिभिः कृष्णवर्त्मना। येषां धूपोद्भभैर्घ्राणैस्तुष्टिंगच्छन्ति जन्तवः। निर्य्यासश्च परागश्च काष्ठं गन्ध-स्तथैव च। कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकरा मताः। न यक्षधूपं वितरेत् माधवाय कदाचन। न रक्तविद्रुमंमह्यं सुरथः स्कन्दिने तथा। यक्षधूपः पत्रिबाहः पिण्ड-धूपः सुगोलकः। कृष्णागुरुः सकर्पूरो महामाया-प्रियः स्मृतः। यक्षधूपेन वा देवीं महामायां प्रपूजयेत्। मेदोमज्जासमायुक्तान् न धूपान् विनिवेदयेत्। पर-कीयांस्तथा घ्रातान् स्तेनीकृत्याभिमर्दितान्। पुष्पं धू-पञ्च गन्धञ्च उपचारांस्तथा परान्। घ्रातान्निवेद्य देवेभ्योनरो नरकमाप्नुयात्। न भूमौ वितरेत् धूपं नासनेन घटे तथा। यथातथाधारगतं कृत्वा तद्विनिवेदयेत्। रक्तविद्रुमसालौ च सुरथः सरलस्तथा। सन्तानकोनमेरुश्च कालागुरुसमन्वितः। जातीकीषाद्यसंयुक्तोधूपः कामेश्वरीप्रियः। त्रिपुरायास्तथैवायं मातॄणा-मपि नित्यशः। सर्वेषां पीठदेवानां कान्त्यादीनाञ्चपुत्रकौ। एष वां कथितो धूपः शृणु तं नेत्ररञ्जनम्”( केशवार्चायां षोडशाङ्गादिधूपा यथा
“मुस्तकं गुगगुलुः कुष्ठं कर्पूरं मलयोद्भवम्। देवदारु जटा-मांसी जातीकोषञ्च बालकम्। मुरा मांसी ह्यगुरुकंत्वगुशीरञ्च केशरम्। एला तथा तेजपत्रं सर्वमेतद्घृताक्तकम्। धूपोऽयं षोडशाङ्गः स्याद्गोविन्दप्रीति-कारकः”। ( द्वादशाङ्गो यथा
“गुग्गुलुञ्चन्दनं पत्रं कुष्ठञ्चागुरुकुङ्कुमम्। जातीकोषञ्च कर्पूरं जटामांसी च बाल-[Page3898-b+ 38] कम्। त्वगुशीरञ्च धूपोऽसौ द्वादशाङ्गः प्रकीर्त्तितः। ( दशाङ्गो यथा
“कर्पूरं कुष्ठमगुरु गुग्गुलुर्मलयोद्भवम्। केशरं बालकं पत्रं त्वग्जातीकोषमुत्तमम्। सर्वमेतद्घृताभ्यक्तं दशाङ्गो धूप ईरितः”। ( अष्टाङ्गो यथा
“गुग्गुल्वगुरुकं तेजपत्रं मलयसम्भवम्। कर्पूरं बालकं कुष्ठं नूतनं कुङ्कुमं तथा। अष्टाङ्गःकथितो धूपो गोविन्दप्रीतिदः शुभः”। ( पञ्चाङ्गो यथा
“चन्दनं कुङ्क मं नूत्नं कर्पूरं गुग्गुलोऽ-गुरु। धूपोऽयं वृतसंयुक्तः पञ्चाङ्गः समुदाहृतः”। ( विष्णुधूपे वर्जनीयद्रव्यम् यथा
“ऐक्षवं सालनिर्यासं पद्मकंसरलं जतु। वचा मधुरिका तैलं गन्धकाष्ठं कलम्बकम्। गन्धकं टङ्कणं तालं हिङ्गुलञ्च मनःशिला। कक्कोलमूषरंदार्वी गन्धमांद्री रसाञ्जनम्। अष्टवर्गः शठी मेथीशिलाजिद् गन्धचन्दनम्। कुन्दूरु रेणुकं रास्नाऽजमोदाशतपुष्पिका। हरिद्रा जीरकं वृक्षक्षीरञ्च रक्तचन्दनम्। कर्चूरकं मरुवकं यवानी ग्रन्थिका तथा। शैलजं धा-तकीपुष्पं नखी मोचरसादिकम्। मुकुन्दधूपे देवर्षे!सर्वमेतद्विवर्जयेत्” पाद्मोत्तरखण्डे( श्राद्धदेयो धूपो यथा ब्राह्मे
“चन्दनागुरुणी चोभे तथैवो-शीरपद्मकम्। तुरुष्कं गुग्गुलुञ्चैव घृताक्तं युगपद् दहेत्”।
“उशीरं वीरणमूलं तुरुष्कं सिह्लकम्” श्राद्ध॰ त॰ विष्णुधर्मे
“धूपस्तु गुग्गुलुर्देयस्तथा चन्दनसारजः। अगुरुश्चसकर्पूरन्तुरुष्कस्त्वक् तथैव च। विष्णुः
“घृतमधुयुक्तंगुग्गुलुं श्रीखण्ड देवदारु सरलादि दद्यादिति”। देवलः
“ये हि प्राण्यङ्गजाधूपा हस्तवाताहताश्च ये। न तेश्राद्धे नियोक्तव्या ये च के चोग्रगन्धयः। घृतं नकेबलं दद्याद्दुष्टं वा तृणगुग्गुलुम्” निर्णयसि॰।
“अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति। कुणपोजायते भूमे! यातुधानो न संशयः। वर्षाणि चैक-विशानि नमस्कारनिरासकः। तिष्ठतेऽत्र महाभागे!एवमेतत् न संशयः” वराहपुराणम्। विषघ्नधूपो यथा” सक्तुः सार्जरसोपेतः सर्षपा एलवालुकैः। सुवर्णातस्करतरोः कुसुमैरर्जुनस्य तु। धूपो वासगृहेहन्ति विषं स्थावरजङ्गमम्। न तत्र कीटा नविषं न दर्दुरसरीसृपाः। न कृत्याकर्मणस्तत्र धूपोऽयं यत्र दह्यते” मत्स्यपु॰। ( धूपान्तरं तत्रैव
“कार्पासास्थि भुजङ्गस्य तथा निर्मो-चनं भवेत्। सर्पनिर्मोचनो धूपः प्रशस्तः सततं गृहे” [Page3899-a+ 38]( रोगनाशकधूपो यथा
“कूर्ममत्स्याखुमहिषगोशृगा-लाश्ववानराः। विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः। हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम्। धूपंदद्याज्जरार्त्तस्य उन्मत्तेभ्यश्च शान्तये। एतान्यौषध-जातानि धूपितानि महेश्वर!। निघ्नन्ति रोगजातानिवृक्षमिन्द्राशनिर्यथा” गारुडपु॰।
“धूपोष्मणा त्यजितमार्द्रभावम्” कुमा॰
“दोहदधूपिनिद्रुमे” नैष॰

३ सन्तापके त्रि॰
“मुमुचुः खधूपान्” भट्टिः

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूप¦ r. 1st cl. (धूपायति) To heat. r. 10th cl. (धूपयति-ते)
1. To speak.
2. To shine. तापे अक० तापने सक० भ्वा० प० सेट् | दीप्तो चु० उभ० अक० दीपने सक० सेट् |

धूप¦ m. (-पः) Incense, the aromatic vapour that proceeds from the combustion of any fragrant gum or resin, the use of which is authorized by scripture. E. धूप् to heat, affix अच्। धपयति रोगान् दोषान् वा |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूप [dhūpa] पि [pi] कः [kḥ], (पि) कः A perfumer; Rām.2.83.14.

धूपः [dhūpḥ], [धूप्-अच्]

Incense, frankincense, perfume, any fragrant substance.

The vapour issuing from any fragrant substance (like gum, resin &c.), aromatic vapour or smoke; धूपोष्मणा त्याजितमार्द्रभावम् Ku.7.14; Me.34; V.3.2; R.16.5.

A fragrant powder.-Comp. -अगुरु n. a kind of agallochum used for incense.

अङ्गः turpentine.

the Sarala tree.-अर्हम् a black kind of agallochum. -ग्रहः a censer; N.15.29. -नेत्रम् a pipe for smoking; Charaka. -पात्रम् a vessel for incense, censer. -वर्तिः a kind of cigarette; K. -वासः fumigating, perfuming. -वृक्षः a kind of pine, the Sarala tree.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूप m. ig. pl. (fr. धूas पुष्पfr. पुष्, स्तूपfr. स्तु)incense , perfume , aromatic vapour or smoke proceeding from gum or resin , the -ggum and -rresin themselves Ka1t2h. Gr2S. Ya1jn5. MBh. Ka1v. etc.

धूप m. one of the 16 acts of homage or offerings in the पञ्चायतरceremony RTL. 415.

"https://sa.wiktionary.org/w/index.php?title=धूप&oldid=500487" इत्यस्माद् पुनः प्राप्तिः