धूम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमः, पुं, (धूनोति धूयते वां । धू न कम्पे + “इषि- युधीन्धीति ।” उणां १ । १४४ । इति मक् ।) आर्द्रेन्धनप्रभवः । धू~या इति भाषा । तत्- पर्य्यायः । भम्भः २ मरुद्बाहः ३ खतमालः ४ शिखिध्वजः ५ अग्निवाहः ६ तरी ७ । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । ७ । २६ । “हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः ॥”) अस्य गुणः । वातपित्तवृद्धिकारित्वम् । इति राजवल्लभः ॥ स च मेघाञ्जनयोर्जनकः ॥ (यथा, मेघदूते । ५ । “धूमज्योतिःसलिलमरुतां सन्निपातः क्व सेघः ॥” भीमादिवदुत्तरपदलोपे धूमकेतुः । यथा, गर्गः । “उल्कापाते च त्रिदिनं धूमे पञ्चदिनानि च ॥” उद्गारजवायुविशेषः । चो~या ढे~कुर इति भाषा ॥ यथा, आह्निकतत्त्वधृतवचनम् । “धूमोद्गारे तथा वान्ते क्षुरकर्म्मणि मैथुने ॥” चिकित्साविशेषः । यथा, -- “श्वेता ज्योतिष्मती चैव हरितालं मनःशिला । गन्धाश्चागुरुपत्राद्या धूमो मूर्द्धविरेचनम् ॥ गौरवं शिरसः शूलं पीनसार्द्धावभेदकौ । कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः ॥ दन्तदौर्ब्बल्यमास्रावः स्रोतोघ्राणाक्षिदोषजः । पूतिघ्राणास्यगन्धश्च दन्तशूलमरोचकः ॥ हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे । श्लेष्मप्रसेको वैस्वर्य्यं गलशुण्ठ्युपजिह्विका ॥ खालित्यं पिञ्जरत्वञ्च केशानां पतनन्तथा । क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता ॥ धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् । शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च ॥” “स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्त्वा दन्तान् विघृष्य च । नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत् ॥ तथा वातकफात्मानो न भवन्त्यूर्द्ध्वजत्रुजाः । रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः ॥ परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान् । प्रयोगे स्नैहिके त्वेकं वैरेच्यं त्रिश्चतुःपिबेत् ॥ हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः । यथेरितानां दोषाणां सम्यक् पीतस्य लक्षणम् ॥ व्याधिर्यमान्द्यं मूकत्वं रक्तपित्तं शिरोभ्रमम् । अकाले चातिपीतश्च धूमः कुर्य्यादुपद्रवान् ॥” “न विरिक्तः पिबेद्धूमं न कृते वस्तिकर्म्मणि । न रक्ती न विषेणार्त्तो न शोची न च गर्भिणी ॥ न श्रमे न मदे नामे न पित्ते न प्रजागरे । न मूर्च्छा भ्रमतृष्णासु न क्षीणे नापि च क्षते ॥ न मद्यदुग्धे पीत्वा च न स्नेहं नच माक्षिकम् । धूमं न भुक्त्वा दध्ना च न रुक्षः क्रुद्ध एव च ॥ न तालुशोषे तिमिरे शिरस्यभिहते न च । न शङ्खके न रोहिण्यां न मेहे न मदात्यये ॥ एषु धूममकालेषु मोहात् पिबति यो नरः । रोगास्तस्य प्रवर्द्धन्ते दारुणा धूमविभ्रमात् ॥” इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥ “धूमः पञ्चविधो भवति तद्यथा, प्रायोगिकः स्नेहनो वैरेचनः कासघ्नो वामनीयश्चेति । तत्रैलादिना कुष्ठतगरवर्गेण श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डं क्षौमेणाष्टाङ्गुलं वेष्ट- यित्वा लेपयेदेषा वर्त्तिः प्रायोगिके । स्नेहफल- सारमधूच्छिष्टसर्ज्जरसगुग्गुलुप्रभृतिभिः स्नेह- मिश्रैः स्नेहने । शिरोविरेचनद्रव्यैर्वैरेचने । बृहती- कण्टकारिकात्रिकटुककासमर्द्दहिङ्ग्विङ्गुदीत्वङ्- मनःशिलाच्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कास- हरैश्च कासघ्ने । स्नायुचर्म्मखुरशृङ्गकर्कट- कास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये ॥” “मुखेन तं पिबेत् पूर्ब्बं नासिकाभ्यां ततः पिबेत् । मुखपीतं मुखेनैव वमेत् पीतञ्च नासया ॥ मुखेन धूममादाय नासिकाभ्यां न निर्हरेत् । तेन हि प्रतिलोमेन दृष्टिस्तत्र विहन्यते ॥” “अकालपीतः कुरुते भ्रममूर्च्छाशिरोरुजः । घ्राणश्रोत्राक्षिजिह्वानामुपघातञ्च दारुणम् ॥” “तत्र स्नेहनो वातं शमयति स्नेहादुपलेपाच्च । वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति रौक्ष्यात्तै- क्ष्णादौष्ण्याद्वैषद्याच्च । प्रायोगिकः श्लेष्माण- मुत्क्लेशयत्युत्क्लिष्टं चापकर्षति साधारणत्वात् पूर्ब्बाभ्यामिति ॥” “नरो धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः । दृढकेशद्बिजश्मश्रुसुगन्धिविशदाननः ॥” “प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत । मुख- नासिकाभ्याञ्च पर्य्यायांस्त्रींश्चतुरो वेति ॥ स्नैहिकं यावदश्रुप्रवृत्तिः वैरेचनिकमादोषदर्श- नात् । तिलतण्डुलयवागू पीतेन पातव्यो वाम- नीयः ग्रासान्तरेषु कासघ्न इति ।” इति सुश्रुते चिकित्सितस्थाने ४० अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम¦ पु॰ धूनीते धू--कम्पे मक्। सार्द्रेन्धनवह्निजाते मेघा-ञ्जनयोर्जनके (धूं या) ख्याते पदार्थे
“सहजमलिनवक्र-भावभाजां भवति भवः प्रभवात्मनाशहेतुः। जलधरपदवीमवाप्य धूमोज्वलनविनाशमनु प्रयाति नाशम्” प्रबो॰[Page3899-b+ 38](
“सधूमदीप्ताग्निरुचीनि रेजुः” भट्टिः
“धूमज्योतिः-सलिलमरुतां सन्निपातः क्व मेघः” मेघ॰
“पुनानं पवना-द्धुतैर्धूमैराहुतिगन्धिभिः” रघुः। भीमो भीमसेनवत् धूम-केतुशब्दस्योत्तरपदलोपः।

२ धूमकेतौ

३ उल्कापाते च
“त्रिदिनं धूमे पञ्च दिनानि गर्गः”।

४ अग्निमान्द्यसूचकेवायुभेदे (चोओंया ढेकुर)
“धूमोद्गारे तथा वान्ते क्षुर-कर्मणि मैथुने” आह्निकत॰। जाठराग्नेर्मान्द्ये हि अन्न-पाकस्यासम्भवात् जठरानलस्य दीप्त्यभावेन ततो धूमइवोद्गीर्यते इति लोकप्रसिद्धिः। सुश्रुतोक्ते

५ धूमपानेच धूमपानशब्दे दृश्यम्।

६ ऋषिभेदे ततः गर्गा॰ गोत्रेयञ्। धौम्य धूमर्षिगोत्रापत्रे पुंस्त्री। स च युधि-ष्ठिरस्य पुरोहितः धौम्यशब्दे दृश्यम्। अश्वा॰ फञ्। धोमायन तद्गोत्रापत्ये पुंस्त्री॰।

७ देशभेदे। देशबाचिन-स्ततः धूमा॰ भवार्थे वुञ्। धौमक तत्र भवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम¦ m. (-मः)
1. Smoke.
2. Scent. E. धू to agitate, Una4di affix मक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमः [dhūmḥ], [धू-कम्पे मक्]

Smoke, vapour; शिरांस्यपातयत्त्रीणि वेगवद्भिस्त्रिभिः शरैः । सधूमशोणितोद्गारी रामबाणाभिपीडितः ॥ Rām. 3.27.18. धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः Me.5.

Mist, haze.

(a) A meteor. (b) The fall of a meteor.

A cloud.

Smoke inhaled (as a sternutatory).

Belch, eructation.

A place prepared for the building of a house. -Comp. -आभ a. of a smoky appearance, smoke-coloured. (-भः) purple. -आवलिः f. a wreath or cloud of smoke. -उत्थम् ammoniac.

उद्गारः issuing of smoke or vapour; धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति Me.71.

eructation, belch. -उपहत a suffocated by smoke. -ऊर्णा N. of the wife of Yama. ˚पतिः an epithet of Yama.

केतनः, केतुः fire; कोपस्य नन्दकुलकाननधूमकेतोः Mu.1.1; R.11.81.

a meteor, comet, falling star; धूमकेतुमिव किमपि करालम् Gīt.1; धूम- केतुरिवोत्थितः Ku.2.32.

Ketu.

a kind of horse; पृष्ठवंशे यदावर्त एकः संपरिलक्ष्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ Aśvachikitsā.

N. of the sun; Mb. -ग्रहः Rāhu; दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव Māl.2.8. -जः a cloud. ˚अङ्गजम् ammoniac. -ध्वजः fire.-निर्गमनम् a chimney. -प a. inhaling only smoke as a sort of penance; इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः । ऊष्मपाः सोमपाश्चैव धूमपा आज्यपास्तथा Mb.12.284.8.

पथः a sacrifice.

seeking salvation by religious works; (कर्ममार्ग); जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम् Bhāg.4.4.1.

an air-hole, a window. -पानम् inhaling smoke or vapour. -प्राश a. feeding only on smoke (as a hermit). -महिषी fog, mist. योनिः a cloud; cf. Me.5. -लता a mass of curling smoke; कोपानलबहुल- लोलधूमलताम् (शिखाम्) Mu.1.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम m. ( धूor 1. ध्वन्)smoke , vapour , mist RV. etc.

धूम m. smoke as a sternutatory (in 5 forms) Sus3r. : a place prepared for the building of a house Jyot.

धूम m. wheat L.

धूम m. a kind of incense L.

धूम m. a saint W.

धूम m. N. of a man g. गर्गा-दि

धूम See. above.

"https://sa.wiktionary.org/w/index.php?title=धूम&oldid=500489" इत्यस्माद् प्रतिप्राप्तम्