धूम्रवर्णः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्रवर्णः, पुं, (धूम्रं वर्णमस्य ।) तुरुष्कः । इति राजनिर्घण्टः ॥ (पर्व्वतविशेषः । यथा, हरि- वंशे । २२८ । ७३ । “देवावृत्पर्व्वतश्चैव तथा वै वालुको गिरिः । क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्व्वतः ॥”) कृष्णलोहितवर्णयुक्ते, त्रि ॥ (यथा, महा- भारते । ३ । २८३ । २६ । “ऋक्षाणां धूम्रवर्णानां तिस्रः कोट्यो व्यव- स्थिताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=धूम्रवर्णः&oldid=142842" इत्यस्माद् प्रतिप्राप्तम्