ध्यान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्यानम्, क्ली, (ध्यै + भावे ल्युट् ।) चिन्तनम् । (यथा, मनुः । १ । १२ । “तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥”) धारणाविषये एकप्रत्ययसन्ततिः । इति हेम- चन्द्रः । २ । २३४ ॥ अद्बितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरेन्द्रियवृत्तिप्रवाहः । इति वेदान्त- सारः ॥ * ॥ यथा, विष्णुपुराणे । “तद्रूपप्रत्ययैवैकसन्ततिश्चान्यनिस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ! ॥” अस्यार्थः । “तद्रूपस्य धारणासिद्धस्य वस्तुनः प्रत्यया यस्यां सन्ततौ सा एकावच्छिन्ना सन्ततिः । अन्यनिस्पृहा विषयान्तरेणाव्यव- धीयमाना । विजातीयप्रत्ययान्तरितः सजातीय- प्रत्ययप्रवाहो ध्यानमित्यर्थः । तच्च प्रथमैर्यमा- दिभिर्धारणान्तैः षड्भिरङ्गैर्निष्पाद्यते ।” इति तट्टीका ॥ * ॥ श्रीकृष्ण उवाच । “सर्व्वे देवाः प्राकृतिका यावन्तो मूर्त्तिधारिणः । अहमात्मा नित्यदेही भक्तध्यानानुरोधतः ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥ ब्रह्मचिन्ता । यथा, गारुडे ४९ अध्याये । “ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः । अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥” अपि च । “प्राणायामैर्द्वादशभिर्यावत्कालो हृतो भवेत् । यस्तावत्कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् । तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ॥ द्वाद्शध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः । तुष्टे तु स यतो मुक्तः समाधिः सोऽभिधीयते ॥ ध्येयान्न चलते यस्य मनोऽभिध्यायतो भृशम् । प्राप्यावधिकृतं कालं यावत् सा धारणा स्मृता ॥ ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति । नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्त्तितम् ॥ ध्येये मनोनिश्चलतां याति ध्येयं विचिन्तयन् । यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥ ध्येयमेव हि सर्व्वत्र ध्याता तल्लबतां गतः । पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ॥” इति गारुडे २४० अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्यान¦ न॰ ध्यै--भावे ल्युट्।
१ चिन्तने
२ अद्वितीयवस्तुनि वि-च्छिद्यविच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहे।
“शास्त्रोक्तदेव-ताद्यालम्बनेष्वचलो भिन्नजातीयैरनन्तरितः प्रत्यय-सन्तान एकाग्रतेति यमाहुरिति” भाष्योक्तेः
३ ध्येय-प्रत्ययैकतानत्वे। एकत्रधृतस्य चित्तस्य भगवदीकारवृत्तिप्रवाहोत्तरोत्तराऽन्याकारप्रत्ययाव्यवहिते
४ निदिध्या-सनसंज्ञे चित्तस्यात्माकाराद्वयावृत्तौ।
“ब्रह्मैवास्मीतिसद्वृत्त्या निरालम्बतया स्थितिः। ध्यानशब्देन विख्यातापरमानन्ददायिनी” इत्युक्तेः
५ परमात्मचिन्तने। धारणानिरुद्धस्य त्रिनेत्रपञ्चबक्त्राद्याकारविषयायां
६ चिन्तायाम्।
“चिन्ता तद्विषया ध्यान” मित्युक्तेः।
“तत्र प्रत्ययैकतान-ता ध्यानम्” पा॰ सू॰ तत्र तस्मिन् देशे यत्र चित्तं धृतं तत्रप्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणामपरिहारेणयदेव धारणयावलम्बनीकृतम् तदालम्बनतयैव निरन्तर-मुत्पत्तिः सा ध्यानमुच्यते। ध्यानपदनिरुक्त्यादिकमुक्तंमहानिर्वाणतन्त्रे यथा
“ध्यैचिन्तायां स्मृतो धातुः चिन्तातत्त्वेन निश्चला। एतद् ध्यानमिह प्रोक्तं सगुणं निर्गुणंद्विधा। सगुणं मन्त्रभेदेन निर्गुणं केवलं मतम्” इति। अपिच
“ध्यानं तु द्विविधं प्रोक्तं सरूपारूपभेदतः। अरूपं[Page3913-b+ 38] तत्र यद् ध्यानमबाङ्मनसगोचरम्। अव्यक्तं सर्वतो व्याप्त-मिदमित्थविवर्जितम्। अगम्यं योगिभिर्गम्यं कृच्छ्रैर्बहु-समाधिभिः। मनसो धारणार्थाय शीघ्रं स्वाभीष्टसिद्धये। सूक्ष्मध्यानप्रबोधाय स्थूलध्यानं वदामि ते। अरूपायाःकालिकायाः कालमातुर्महाद्युतेः। गुणक्रियानुसारेणक्रियते रूपकल्पना” ब्रह्मचिन्तायां यथा(
“व्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः। अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः” इतिगारुडे
४९ अ॰। तत्कालभेदश्च
“प्राणायामैर्द्वादशभिर्यावत्कालं हृतो भवेत्। यस्तावत्कालपर्यन्तं भनो ब्रह्मणिधारयेत्। तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः। द्वादशध्यानपर्यन्तं मनो ब्रह्मणि यो नरः। तिष्ठेतस यतो मुक्तः समाधिः सोऽभिधीयते। ध्येयान्न चलतेयस्य मनोऽभिध्यायतो भृशम्। प्राप्यावधिकृतं कालंयावत् सा धारणा स्मृता। ध्येयसक्तं मनो यस्य ध्येय-मेवानुपश्यति। नान्यं पदार्थं जानाति ध्यानमेतत्प्रकीर्तितम्। ध्येये मनो निश्चलतां याति ध्येयं वि-चिन्तयन्। यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः। ध्येयमेव हि सर्वत्र ध्याता तल्लयतां गतः। पश्यतिद्वैतरहितं समाधिः सोऽभिधीयते” इति गारुडे
२४
० अ॰अग्निपुराणे च तन्निरुक्त्यादिकमुक्तं यथा
“अग्निरुवाच। ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्तामुहुर्मुहुः। अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते। आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च। ब्रह्मचिन्तासमासक्तिर्ध्यानं नाम तदुच्यते। ध्येयालम्बनसंस्थस्यसदृशप्रत्ययस्य च। प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यान-मुच्यते। ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रचित्। ध्यानभेतत्समुद्दिष्टं प्रत्ययस्यैकतानता। एवं ध्यानसमा-युक्तः स्वदेहं यः परित्यजेत्। कुलं स्वजनमित्राणिसमुद्धृत्य हरिर्भवेत्। एवं मुहूर्त्तमर्धं वा ध्यायेद् यःश्रद्धया हरिम्। सोऽपि यां गतिमाप्नोति न तां सर्वै-र्महामखैः। ध्याता ध्यानं तथा ध्येयं यच्च ध्यान-प्रयोजनम्। एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्व-वित्। योगाभ्यासाद्भवेन्मुक्तिरैश्वर्य्यञ्चाष्टधा महत्। ज्ञान-वैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः। विष्णुभक्तःसदोत्साही ध्यातेत्थं पुरुषः स्मृतः। मूर्तामूर्तं परंब्रह्म हरेर्ध्यानं हि चिन्तनम्। सकलो निष्कलो ज्ञेयःसर्वज्ञः परमो हरिः। अणिमादिगुणैश्वर्य्यं मुक्ति-[Page3914-a+ 38] र्ध्यानप्रयोजनम्। फलेन योजको विष्णुरतो ध्यायेत्परेश्वरम्। गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन् निमिष-न्नपि। शुचिर्वाप्यशुचिर्वापि ध्यायेत् सततमीश्वरम्। स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम्। हृत्पद्मपी-ठिकामध्ये ध्यानयोगेन पूजयेत्। ध्यानयज्ञः परःशुद्ध्वः सर्वदोषविवर्जितः। तेनेष्ट्वा मुक्तिमाप्नोति बाह्या-शुद्धैश्च नाध्वरैः। हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्त-साधनः। ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः। तस्मा-दशुद्धं सन्त्यज्य ह्यनित्यं बाह्यसाधनम्। यज्ञाद्यं कर्मसन्त्यज्य योगमत्यर्थमभ्यसेत्। विकारमुक्तमव्यक्तं भोग्य-भोगसमन्वितम्। चिन्तयेद्धृदये पूर्वं क्रमादादौ गुण-त्रयम्। तमः प्रच्छाद्य रजसा सत्वेन छादयेद्रजः। ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात्। सत्वो-पाधिगुणातीतः पुरुषः पञ्चविंशकः। ध्येयमेतदशुद्धञ्चत्यक्त्वा शुद्धं विचिन्तयेत्। ऐश्वर्य्यं पङ्कजं दिव्यं पुरुषो-परि संस्थितम्। द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितंसितम् नालमष्टाङ्गुलं तस्य नाभिकन्दसमुद्भवम्। पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम्। कर्णिकाकेसरंनालं ज्ञानवैराग्यमुत्तमम्। विष्णुधर्मश्च तत्कन्दमितिपद्मं विचिन्तयेत्। तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयंपरम्। ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात्। तत् पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिम्। अङ्गुष्ठ-मात्रममलं ध्यायेदोङ्कारमीश्वरम्। कदम्बगोलकाकारंतारं रूपमिव स्थितम्। ध्यायेद्वा रश्मिजालेन दीप्य-मानं समन्ततः। प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्व-रम्। ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरम्। मनः-स्थित्यर्थमिच्छन्ति स्थूलध्यानमनुक्रमात्। तद्भूतं नि-श्चलीभूतं लभेत् सूक्ष्मेऽपि संस्थितिम्। नाभिकन्दे स्थितंनालं दशाङ्गुलसमायतम्। नालेनाष्टदलं पद्मं द्वादशा-ङ्गुलविस्तृतम्। सकर्णिके केसराले सूर्य्यसोमाग्निमण्ड-लम्। अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः। पद्मीचतुर्भुजो विष्णुरथ वाष्टभुजो हरिः। शार्ङ्गाक्षवलय-धरः पाशाङ्कुशधरः परः। स्वर्णवर्णः श्वेतवर्णः सश्रीवत्सःसकौस्तुभः। वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः। रत्नीज्ज्वलकिरीटश्च पीताम्बरधरो महान्। सर्वाभरण-मूषाढ्यो वितस्तिर्वा यथेच्छया। अहं ब्रह्म ज्योतिरात्मावासुदेवो विमुक्त ओम्। ध्यानाच्छ्रान्तो जपेन्मन्त्रंजपाच्छ्रान्तश्च चिन्तयेत्। जपध्यानादियुक्तस्य विष्णुः[Page3914-b+ 38] शीघ्रं प्रसीदति। जपयज्ञस्य वै यज्ञाः कलां नार्हन्तिषोडशीम्। जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः। भुक्तिर्मुक्तिर्मृत्युजयो जपेन प्राप्नुयात् फलम्”
३७
३ अ॰। ध्यानप्रकारादिकमुक्तं मिताक्षरायां यथा
“ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम्। उत्तानंकिञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा। निमीलिताक्षःसत्वस्थो दन्तैर्दन्तानसंस्पृशन्। तालुस्थाचलजिह्वश्च सं-वृतास्यः सुनिश्चलः। संनिरुद्धेन्द्रियग्रामं नातिनीचोच्छ्रितासनः। द्विगुणं त्रिगुणं वापि प्राणायाममुप-क्रमेत्। ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः। धारयेत्तत्र चात्मानं धारणां धारयन् बुधः” याज्ञ॰।
“ऊरु-स्थावुत्तानचरणौ यस्य स तथोक्तो बद्धपद्मासनः। तथो-त्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखञ्च किञ्चिदुन्नाम्योरसा च विष्टभ्यं स्तम्भयित्वा तथा निमीलिताक्षः सत्वस्थःकामक्रोधादिरहितो दन्तैर्दन्तानसंस्पर्शयन्। तथातालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः संवृता-स्यः पिहिताननः सुनिश्चलो निष्प्रकम्पस्तथा सम्यगि-न्द्रियसमूहं विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्यु-च्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टःसन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासमुपक्रमेत्। ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीपवद-प्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः तत्र च हृद्यात्मानंमनोगोचरतया धारयेत्। तथा धारणाञ्च धारयेत्। धारणास्वरूपञ्च जान्वग्रभ्रमणेन छोटिकादानकालोमात्रा। ताभिः पञ्चदशमात्राभिरधमः प्राणायामस्त्रिंश-द्भिर्मध्यमः। पञ्चचत्वारिंशद्भिरुत्तम इत्येवं प्राणायामत्र-यात्मिकैका धारणा। तास्तिस्रो योगशब्दवाच्यास्तांश्चधारयेत्। यथीक्तमन्यत्र
“संभ्राम्य छोटिकां दद्यात्कराग्रञ्जानुमण्डले। मात्राभिः पञ्चदशभिः प्राणायामी-ऽधमः स्मृतः। मध्यमो द्विगुणः श्रेष्ठस्त्रिगुणो धारणातथा। त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव चेति” मिता॰।
“हृदयस्थस्य योगेन देवदेवस्य दर्शनम्। ध्यानंप्रोक्तं प्रवक्ष्यामि सर्वस्मात् योगतः शुभम्” हृदिस्था देवताःसर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि ज्योतींषि मूयश्चहृदि सर्वं प्रतिष्ठितम्। स्वदेहमरणिं कृत्वा प्रणवञ्चो-त्तरारणिम्। ध्याननिर्मथनाभ्यान्तु विष्णुं पश्येद्धृदिस्थितम्। हृद्यन्तश्चन्द्रमाः सूर्य्यः सोममध्ये हुता-शनः। तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितो-[Page3915-a+ 38] ऽच्युतः। अणोरणीयान् महतो महीयानात्मास्य जन्तो-र्निहितो गुहायाम्। तेजोमयं पश्यति वीतशोकोधातुः प्रसादान्महिमानमात्मनः” शङ्खः।
“प्राणायाम-द्विषट्केन प्रत्याहार उदाहृतः। प्रत्याहारैर्द्वादश-भिर्द्धारणा परिकीर्त्तिता। भवेदीश्वरसङ्गत्यै ध्यानंद्वादशधारणम्” काशीख॰
४१ अ॰।
“समाहितेन मनसाचैतन्यान्तरवर्त्तिना। आत्मनोऽभीष्टदेवानां ध्यानं ध्यान-मिहोच्यते” शा॰ ति॰। ध्यायतेऽनेन ध्यै--करणे ल्युट्। देवानां
७ ध्येयरूपभेदे
“ध्यानमस्याः प्रवक्ष्यामि यथाध्यात्वार्चयेदिमाम्” तन्त्रसारः।
“तस्य (वटुकस्य) ध्यानंत्रिथा प्रोक्तं सात्विकादिप्रभेदतः” तत्र सात्विकं यथा
“बन्दे बालं स्फटिकसदृशं कुन्तलोद्भासिवक्त्रं दिव्याकल्पै-र्नवमणिमयैः किङ्किणीनूपुराद्यैः। दीप्ताकारं विशदवसनं
“सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां वटुकमनिशं शूलदण्डौदधानम्”। राजसं यथा
“उद्यद्भास्करसन्निभं त्रिनयनंरक्ताङ्गरागस्रजम् स्मेरास्यं वरदं कपालमभयं शूलंदधानं करैः। नीलग्रीवमुदारभूषणशतं शीतांशुचूडो-ज्ज्वलं बभ्रूकारुणवाससं मयहरं देवं सदा भावये” तन्त्रसा॰ तामसध्यानं तु तामसशब्दे पृ॰ उक्तम्देवानां स्वरूपभेदेनैव ध्येयत्वात् स्वरूपस्य ध्यानत्वम्। देवताप्रतिमाशब्दे च
३६
८५ पृ॰ येषां मूर्त्तिभेदा यथा द-र्शिताः तथैव तेषां ध्येयता। अन्यदेवताध्यानं तु तन्त्रसारकालिकापुराणादौ दृश्यम् विस्तरभयात् न लिखितम्।
“ज्ञानात् ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागःगीता।
“आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्” श्रुतिः।
“इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः” रघुः
“सर्वदेवाः प्राकृतिका यावन्तो मूर्तिधारिणः। अह-मात्मा नित्यदेहो भक्तध्यानानुरूपतः” ब्रह्मवै॰ जन्मख॰।
८ उपनिषद्भेदे उपनिषच्छब्दे
१२
२२ पृ॰ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्यान¦ n. (-नं)
1. Meditation, reflection, but especially that profound and abstract consideration which brings its object fully and un- disturbedly before the mind.
2. Mental representation of the per- sonal attributes of the divinity to whom worship is addressed. E. ध्यै to meditate, affix भावे ल्युट् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्यान [dhyāna], [ध्यै-भावे-ल्युट्]
Meditation, reflection, thought; contemplation; ज्ञानाद् ध्यानं विशिष्यते Bg.12.12; Ms.1.12; 6.72.
Especially, abstract contemplation, religious meditation; तदैव ध्यानादवगतो$स्मि Ś.7; ध्यानस्तिमितलोचनः R.1.73.
Divine intuition or discernment.
Mental representation of the personal attributes of a deity; इति ध्यानम्. -Comp. -गम्या a. attainable by meditation only; योगिभिर्ध्यानगम्यम् Viṣṇustotra. -तत्पर, -निष्ठ, -पर a. lost in thought, absorbed in meditation, contemplative.-धिष्ण्य a. suitable for ध्यान; रूपं चेदं पौरुषं ध्यानधिष्ण्यम् Bhāg.1.3.28. -मात्रम् mere thought or reflection.-मुद्रा a prescribed attitude in which to meditate on a deity. -योगः profound meditation. -स्थ a. absorbed in meditation; lost in thought.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्यान n. meditation , thought , reflection , ( esp. ) profound and abstract religious meditation , ( नम् आपद्, आ-स्थाor नं-गम्, to indulge in -rreligious -mmeditation) ChUp. Mn. MBh. Ka1v. etc. (with Buddhists divided into 4 stages MWB. 209 Dharmas. lxxii ; but also into 3 ib. cix )
ध्यान n. mental representation of the personal attributes of a deity W.
ध्यान n. insensibility , dulness Bhpr.
ध्यान m. N. of a partic. personification MaitrS.
ध्यान m. of the 11th day of the light half in ब्रह्म's month Pur.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DHYĀNA : (Meditation). Even from ancient times the people of Bhārata believed that heaven could be attain- ed by meditation. There are scientific methods of meditating upon God. They are described below:
The root “dhyai”, means “to think”. Dhyāna (medi- tation) means thinking of God with concentration. God is invisible and figureless. We can meditate only upon some material that contains the attributes of God. So dhyāna (meditation) is to fix the mind on the object of meditation, and to imagine that particular object in a particular place and to concentrate the mind upon it. One who casts off his body, while engag- ed in meditation attains ‘Sāyujya’ (oneness with God).
He who can meditate upon God, with concentration of mind even for a moment or two can attain heaven. The fruits he attains are far greater than the fruits attained by performing great sacrifices and offerings. For meditation, there are four factors: Dhyātā (the meditator), Dhyāna (the act of meditation) Dhyeya (the object meditated upon) and Dhyānaprayojana (the attainment by meditation). He who indulges in meditation is the meditator. The act done by him is meditation. That which is meditated upon is the object of meditation. What the meditator obtains as a result of his meditation is the attainment. A meditator should be wise and virtuous, should have attention and patie- nce, devoted to Viṣṇu and always energetic.
We can meditate upon God, walking, standing, sleeping and awake. God should be consecrated in the centre of the lotus chair of the heart and be worshipped with de- votional meditation. It is to give practice in fixing the mind firmly on a particular object, that the sages say that some visible material object should be given to meditate upon, in the early stage of meditation. When concentration of mind is obtained by meditating upon a visible object, it will be possible for us to meditate upon an object which is not amenable to our senses. When engaged in meditation we should be thinking “Ahaṁ Brahmā jyotirātmā vāsudevo vimukta Oṁ”. (I am Brahmā, the light, the Spirit, Vāsudeva, and Vimukta (having no connection with anything), OM). (Agni Purāṇa, Chapter 374).
_______________________________
*15th word in right half of page 240 (+offset) in original book.