ध्रुवक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवकः, पुं, (ध्रुव + स्वार्थे कन् ।) स्थाणुः । इति हेमचन्द्रः । ४ । १८८ ॥ गीताङ्गविशेषः । धया इति भाषा । तस्य लक्षणं यथा, -- “उत्तमः षट्पदः प्रोक्तो मध्यमः पश्चमः स्मृतः । कनिष्ठश्च चतुर्भिः स्याद्ध्रुवकोऽयं मयोदितः ॥ उक्तं द्विखण्डमुद्ग्राहे द्विखण्डं ध्रुवके मतम् । ततो द्बिखण्डमाभोगे तालमानरसैः सह ॥ आभोगे कविनाम स्यात्तथा नायकनाम च । उद्ग्राहं प्रथमं गीत्वा ध्रवं गायेत्ततः परम् ॥ ततोऽन्तरा ध्रुवस्तस्मादाभोगध्रुवकौ ततः । उद्ग्राहः प्रथमः पादः कथितः पूर्ब्बसूरिभिः ॥ गीत्वा पूर्ब्बपदं न्यासो यत्र स ध्रुवको मतः । यत्रैव कविनाम स्यात् स आभोग इतीरितः ॥ ध्रुवकादिपु सर्व्वेषु भवेदेवंविधः क्रमः ॥” स तु षोडशविधः । यथा, -- “जयन्तः शेखरोत्साहौ मधुरो निर्म्मलस्तथा । कुन्तलः कमलश्चैव सानन्दश्चन्द्रशेखरः ॥ सुखदः कुमुदो जायी कन्दर्पो जयमङ्गलः । तिलको ललितश्चेति ध्रुवकाः षोडश स्मृताः ॥ एकादशाक्षरपदादेकैकाक्षरवर्द्धितैः । खण्डैर्ध्रवाः षोडश स्युः षड्विंशत्यक्षरावधि ॥ द्विगुणैरक्षरैरेव पदमेकमिहेष्यते । उद्ग्राहध्रुवकाभोगैरित्थं षट्पदनिर्णयः ॥ पञ्चपादे तु ध्रुवके पदेनैकेन तद्ध्रुवः । चतुष्पादे तु ध्रुवके पृथङ्नास्त्येव तद्ध्रुवः ॥” इति सङ्गीतदामोदरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवक¦ पु॰ ध्रुव--क्वुन् स्वार्थे को वा।

१ ध्रुवशब्दार्थे

२ गीताङ्गविशेषे स चोक्तः सङ्गीतदामोदरे
“उत्तमःषट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः। कनिष्ठश्च चतु-र्भिः स्याद् ध्रुवकोऽयं मयोदितः। उक्तं द्विखण्डमुद्-ग्राहे द्विखण्डे ध्रुवके मतम्। ततो द्विखण्डमाभोगेतालमानरसैः सहः। आभोगे कविनाम स्यात् तथानायकनाम च। उद्ग्राहं प्रथमं गीत्वा ध्रुवं गायेत्ततःपरम्। ततोऽन्तरा ध्रुवस्तस्मादाभोगध्रुवकौ ततः। उद्ग्राहः प्रथमः पादः कथितः पूर्वसूरिभिः। गीत्वापूर्वपदं न्यासो यत्र स ध्रुवको मतः। यत्रैव कविनामस्यात् स आभोग इतीरितः। ध्नुवकादिषु सर्वेषु भवे-देवं विधिः क्रमः”। स तु षोडशधा यथा
“जयन्तोशेखरोत्साहौ मधुरो निर्मलस्तथा। कुन्तलः कमल-श्चैव सानन्दश्चन्द्रशेखरः। सुखदः कुमुदो जायी क-न्दर्पो जयमण्डलः। तिलकोललितश्चेति ध्रुवकाःषोडश स्मृताः। एकादशाक्षरपदादेकैकाक्षरवर्द्धितैः। खण्डैर्ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि। द्विगु-णैरंक्षरैरेव पदमेकमिहेष्यते। उद्ग्राहध्रुवकामो-गैरित्थं षट्पदनिर्णयः। पञ्चपादे तु ध्रुवके पदेनैकेनतद्ध्रुवः। चतुष्पादे तु ध्रुवके पृथङ् नास्त्येव तद्-ध्रुवः” इति सङ्गीतदा॰। ध्रुवशब्दार्थे ध्रुवशब्ददर्शितेग्रहाणां स्पष्टतोपयोगिनि

३ अङ्कभेदे खगोलशब्दे

२४

२३ ।

२५ पृ॰ दृश्यम् ध्रुवशब्दे सू॰ सि॰ वाक्यमुक्तम्। स्त्रियांक्षिपका॰ कापि न अत इत्त्वम्। ततः पिच्छा॰ अस्त्यर्थेइलच्। ध्रुवकिल तद्युक्ते त्रि॰। ततोऽपत्यादौ स्त्रीभ्यो-टकं वाधित्वा बाह्वा॰ इञ्। ध्रौवकि ध्रुवकापत्ये पुंस्त्रीततः चतुरर्य्यां प्रेक्ष्या॰ इनि। ध्रुवकिन् ध्रुवकानिर्वृत्तादौत्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवक¦ m. (-कः)
1. The trunk of a lopped tree.
2. Longitude. f. (-का) The introductory stanza and burden of a song: see ध्रुवा E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवकः [dhruvakḥ], 1 The introductory stanza of a song (repeated as a sort of chorus); see ध्रुव.

A trunk, stem.

A post.

Polar longitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवक m. the unchangeable longitude of fixed stars Su1ryas.

ध्रुवक m. post , pale , stake L.

ध्रुवक m. (in music)= ध्रुवाf.

ध्रुवक m. N. of an attendant of स्कन्दMBh.

ध्रुवक m. N. of a woman g. बाह्व्-आदि.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHRUVAKA : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Stanza 75).


_______________________________
*6th word in left half of page 239 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ध्रुवक&oldid=431532" इत्यस्माद् प्रतिप्राप्तम्