ध्वज

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) वकारयुक्तः । ध्वजति । इति दुर्गा- दासः ॥

ध्वज, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं सकं-सेट् । इदित् ।) वकारयुक्तः । इ, ध्वञ्ज्यते । इति दुर्गादासः ॥

ध्वजः, पुं, (ध्वजोऽस्त्यस्येति । ध्वज + अर्शआदि- त्वादच् ।) शौण्डिकः । इति मेदिनी । जे, १० ॥ (यथा, मनुः । ४ । ८५ । “दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ॥”)

ध्वजः, पुं क्ली, (ध्वजति उच्छ्रितो भवतीति । ध्वज + पचाद्यच् ।) पतका । (यथा, पञ्चतन्त्रे । १ । ३२ । “किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा ॥”) खट्वाङ्गम् । मेढ्रम् । (यथा, सुश्रुते चिकित्सित- स्थाने १९ अध्याये । “विदग्धैस्तु सिरास्नायुत्वङ्र्मासैः क्षीयते ध्वजः ॥”) चिह्नम् । इति मेदिनी । जे, ११ ॥ (यथा, महाभारते । १ । ३३ । १७ । “तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् । ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥”) गर्व्वः । दर्पः । इति शब्दरत्नावली ॥ पूर्ब्बदिशो गृहम् । इति हेमचन्द्रः ॥ पताकादण्डः । तत्- पर्य्यायः । केतनम् २ । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । ७ । २७ । ६ । “ततोऽर्ज्जुनः सुशर्म्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥”) ध्वजयुक्तिर्यथा, -- “सेनाचिह्नं क्षितीशानां दण्डो ध्वज इति स्मृतः । सपताको निष्पताकः स ज्ञेयो द्बिविधो बुधैः ॥ पताका सार्द्धदैर्घ्येण दण्डस्तु पृथिवीभुजाम् । सपताकध्वजस्याग्रे यदा हस्तं परिन्यसेत् ॥ जयहस्तो ध्वजो नाम नैनं सामान्यमर्हति । वंशोऽथ वाकुलः शालः पालाशश्चाम्पकस्तथा ॥ नैपो नैम्बोऽथवा दण्डस्तथा वैराजवारणः । अवद्धादिकसंज्ञानां वर्णरूपप्रकाशितः ॥ सर्व्वेषाञ्चैव वंशस्तु दण्डः सम्पत्तिकारकः ॥” अ क च ट त प य शाः ॥ “प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः । पञ्चहस्तायता हस्तपरिणाहा जयाभिधा ॥ जया च विजया भीमा चपला वैजयन्तिका । दीर्धा विशाला लोला च ज्ञेया हस्तैकवृद्धितः ॥ परिणाहे पादवृद्धिरथ वर्णस्य निर्णयः । रक्तः श्वेतोऽरुणः पीतश्चित्रो नीलोऽथ कर्वुरः ॥ कृष्णश्चेति पताकानां वर्णरूपप्रकाशितः । अवद्धादिकसंज्ञानामष्टानामष्टकत्रयम् ॥ कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्मक्षत्त्रियविट्शूद्रजातीनां संप्रकाशितः ॥ गजादियुक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला । गजः सिंहो हयो द्बीपी चतुर्णां पृथिवी- भुजाम् ॥ ब्रह्मविष्ण्विन्द्ररुद्राणां सोमसूर्य्यदिवौकसाम् । ध्वजदानं महादानं सर्व्वदानोत्तमं मतम् ॥ यावन्नो दीयते शुक्र ! ध्वजः प्रासादमूर्द्धनि । तावत्तु न भवेद्बत्स ! प्रासादो देववाञ्छितः ॥ शून्यध्वजं सदा भूता नानागन्धर्व्वराक्षसाः । विद्रवन्ति महात्मानो नानावाधाञ्च कुर्व्वते ॥ तस्माद्देवगृहद्वारपुरपर्ष्वतपत्तने । उच्छ्रिताः शान्तिकामाय ध्वजाः शुक्र ! सदा हिताः ॥ न हि चान्यद्ध्वजदानादुत्तमं भारते क्वचित् । दानमिष्टञ्च पुष्टञ्च देव्या दीपन्तथैव च ॥ अनेन विधिना यस्तु ध्वजं शुक्र ! निवेदयेत् । सर्व्वकामानवाप्नोति स नरः शिवतां व्रजेत् ॥ तस्य दर्शनसम्भाषादपि पापरता नराः । विमुक्ताः सर्व्वपापेभ्यो दिवं यान्ति न संशयः ॥ राज्ञा चानेन विधिना देवीलाञ्छनरञ्जिताम् । शङ्खचक्रवृषभार्क्षहंसवर्हिणवारणैः । साचारो भक्तिमास्थाय ध्वजयष्टिं समुच्छ्रयेत् । न तस्य सङ्गरे शुक्र ! व्याधयो न च वैरिणः । नैव शस्त्रव्रणपीडा भवेच्छां स समुच्छ्रयेत् ॥” इति देवीपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वज पुं-नपुं।

पताका

समानार्थक:पताका,वैजयन्ती,केतन,ध्वज,केतु,केतन,ललाम

2।8।99।2।4

चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले। पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्.।

वृत्तिवान् : ध्वजधारिः

वैशिष्ट्य : ध्वजधारिः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वज¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। ध्वजति अध्वजीत् अध्वाजीत्दध्वाज अयमिदिदपि। धञ्जति अध्वञ्जीत् दध्वञ्जध्वञ्ज्यते।

ध्वज¦ पु॰ ध्वज--अच्।

१ शौण्डिके (शुण्डिकोपकरणभेदे)

२ मेढ्रे

३ चिह्ने

४ खट्वाङ्गे मेदि॰।

५ गर्वे

६ दर्पे चशब्दर॰।

७ पूर्वदिक्स्थे गृहे हेमच॰।

८ चतुष्कोणकारेवंशदण्डोपरिस्थे वस्त्रखण्डभेदे च विधानपा॰

९ पता-कायां पु॰ न॰ अमरः। उक्तोभयवस्त्रयुक्ते

१० दण्डभेदे चसामान्यतोऽस्य निर्माणप्रकारः युक्तिकल्पतरावुक्तो यथा
“सेनाचिह्नं क्षितीशानां दण्डो ध्वज इति स्मृतः। स-पताको निष्पताकः स ज्ञेयो द्विबिधो बुधैः। पताकासार्द्धदैर्घ्येण लम्बा तु पृथिवीभुजाम्। सपताकध्वज-स्याग्रे तदा हस्तं परिन्यसेत्। जयहस्तोध्वजोनाम नैनंसामान्यमर्हति। वंशोऽथ जाङ्गलः शालः पालाशश्चा-म्पकस्तथा। नैपो नैम्बोऽथ वा दण्डस्तथा वैराजवारणः। अबद्धादिकसंज्ञानां वर्णरूपप्रकाशितः। सर्षेपाञ्चैववंशस्तु दण्डः सम्पत्तिकारकः। अ क च ट त पयशाः। प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः। पञ्चहस्तायता हस्तपरिणाहा जयाभिधाः। जया

५ च विजया

६ भीमा

७ चपला

८ वैजयन्तिका

९ । दीर्घा

१० विशाला

११ लीला

१२ च ज्ञेया हस्तैकवृद्धितः। परि-णाहे पादवृद्धिरथ वर्णस्य निर्णयः। रक्तः श्वेतोऽरुणःतीतश्चित्रोनीलोऽथ कर्तुरः। कृष्णश्चेति पताकानां वर्णरूपः[Page3920-a+ 38] प्रकाशितः। अबद्धादिकसंज्ञानामष्टानामष्टकत्रयम्। कलसोदर्पणश्चन्द्रः पद्मं कोषो यथाक्रमम्। ब्रह्मक्षत्रियविटशूद्रजातीनां संप्रकाशितः। गजादियुक्ता माप्रोक्ता जयन्ती सर्वमङ्गला। गजो हंसादिसंयुक्तो राज्ञांसैवाष्टमङ्गला। हंसः केकी शुकश्चाषो व्रह्मादीनांयथाक्रमम्। चामरादिसमायुक्ता सा ज्ञेया सर्वबु-द्धिदा। चामरश्चाषपक्ष्माणि चित्रवस्त्रं तथा सितम्। चतुर्णां वेदनयनपक्षेन्दुगणितक्रमात्। तदग्रे यदिविन्यस्तं पताका द्वितीया भवेत्। इयं हि सर्वभोगदाषताका चक्रवर्त्तिनः। तद्वर्णः पूर्ववज्ज्ञेयः प्रमाणंविधिबोधितम्। कनकं रजतं ताम्रं नानाधातुमयंक्रमात्। कुम्भादिकं प्रशंसन्ति पताकाग्रे महीभुजाम्। तत्रापि रत्नविन्यासो विधेयो राजतक्रमः। चतुर्भि-र्मकरास्याद्यैर्युक्ता चेत् सर्वसिद्धिदा। तदा श्रेयस्करी-नाम सा पताका विजायते। भकरोऽथ गजः सिंहोव्याघ्रो वाजी मृगः शुकः। शुकश्चेति समुद्दिष्टमादि-त्यादिदशाभुजाम्। इति प्रोक्तः पताकानां निर्णयःपृथिवीभुजाम्”। ( देवादिप्रतिष्ठाङ्गमण्डपान्तर्गतध्वजमहाध्वजयोर्ल-क्षणादिकं कुण्डार्के उक्तं यथा
“ध्वजान् द्विहस्ताय-तिकांश्च पञ्चहस्तान् सपीतारुणकृष्णनीलान्। श्वेतासि-तश्वेतसितान् दिगीशवाहान् वहेत् दिक्करवंशशीर्षे” सू॰।
“ध्वजान् द्विहस्तमितायामान् पञ्चहस्तदीर्घान्पीतारुणकृष्णनीलश्वेतकृणश्वेतश्वेतान् गैरिकादिलिखि-तदिक्प्रालवाहनान् दशहस्तवंशमस्तके योजितान्
“हस्त-द्वयनिखातांश्च ध्वजांस्ता अपि पूर्वतः” इति वक्ष्य-माणत्वात्। प्राच्यादितः वहेद्धारयेदिति” व्याख्या। प्रतिष्ठासारसंग्रहे
“पोतरक्तादिवर्णाश्च पञ्चहस्ताध्वजाःस्मृताः। द्विपञ्चहर्स्तर्दण्डस्ते वंशजैः संयुता मताः” दति। क्रियासारे
“मातङ्गवस्तमहिषान् सिंहमत्स्यैणवाजिनः। वृषमं च यथान्याय ध्वजमध्ये क्रमाल्लिखेत्” पञ्चमांशं निखनेदिति। अकरणे दोषः पञ्चरात्रे
“चि-न्तयन्त्यसुरश्रेष्ठा ध्वजहीनं सुरालयम्। ध्वजेन रहितंव्रह्ममण्डपं तु वृथा भवेत्। पूजाय गादिकं सर्वंजपाद्य यत्कृतं बुधैरिति” ध्वजारोपणफलं तत्रैव
“यं कृत्वा पुरुषः सम्यक् समस्तफलमाप्नुयादिति”। अथपताकानिवेशनं महाध्वजानिवेशनं च नवमकुण्डपताकानिवेशन तत्रीक्तं यथा लोकेशवर्णस्त्रयुताः पताकाः[Page3920-b+ 38] शैलेन्दुदैर्घ्यायतिकाश्च मध्ये। चित्रं ध्वजं दिक्करदैर्घ्य-वंशत्रिदोस्ततं प्रान्तगकिङ्किणीकम्। श्वेतां च नवमीपूर्वेशानयोर्मध्यतो बुधः। विन्यसेत्तु पताकां च ध्वजांस्ताअपि पूर्वतः” सू॰
“लोकेशानां लोकपालानां ये वर्णाःपीतादयः पूर्वश्लोकोक्ताः गैरिकादिलिखितवज्रशक्ति-दण्डखडगपाशाङ्कुशगदात्रिशूलानि तैर्युताः सप्तहस्त-दीर्घा एकहस्तविस्तृताः पताका दशहस्तवंशशीर्षगाः। चित्रं ध्वजं त्रिहस्तविस्तृतं प्रान्ते वर्त्तमानकिङ्किणी-कं शीर्षे सचामरं दशहस्तदैर्घ्य वंशञ्च तादृशं तंमध्ये विन्यसेत्। पूर्वादितः पताकाश्च विन्यसेदित्युत्तर-श्लोकेनान्वयः। नवमीं पताकां पूर्वशानयोर्मध्ये श्वेतांतादृशीमेवाचार्य्यकुण्डे विन्यमेत् ध्वजांस्ता अपि पता-काश्च पूर्वादिक्रमेण भूमौ पञ्चांशरोपणेन विन्यसेदिति”।
“हयशीर्षपञ्चरात्रम्।
“ध्वजवंशः प्रकर्त्तव्यो निर्व्रणःसगुणो दृढः। तदूर्द्ध्वं तान्त्रजं चक्रं सूक्ष्मं कुर्य्याद्-द्विजोत्तमः। प्रासादस्य च विस्तारो मानं दण्डस्यकीर्त्तितम्। ध्वजयष्टिर्देवगृहे ऐशान्यां दिशि देशिकैः। स्थापनीयाथ वायव्ये साम्प्रतं ध्वजमुच्यते। पट्टकार्पास-क्षौमाद्यैर्ध्वजं कुर्य्यात् सुशोभनम्। एकवर्णं विचित्रंवा घण्टाचामरभूषितम्। किङ्किणीजालकोपेतंबर्हिपत्रविभूषितम्। शुक्लादिवर्णैर्विप्रादिक्रमाद्वा का-रयेत् ध्वजम्। दण्डाग्राद्धरणीं यावत् हस्तैकंविस्तरेण तु। महाध्वजन्तु विख्यातं सर्वकामप्रदंशुभम्। ध्वतेन रहितो विप्र! प्रासादस्तु वृथा भवेत्। पूजाहोमादिकं सर्वं जपाद्यं यत् कृतं नरैः”। शिव-सर्वस्वे
“देवेभ्यश्च गृहं दद्याद्वाहनैरुपशोभितम्। तुरङ्गमेण सूर्य्यस्य, हरस्य वृषचिह्नितम्। विष्णवे गरु-डाङ्कन्तु, दुर्गायै सिंहचिह्नितम्। कार्य्यं ध्वजपताकाश्चअन्यथा न कथञ्चन”। वह्नि॰ पु॰

५९ अ॰।
“प्रासादस्यतु विस्तारो मानं दण्डस्य कीर्त्तितम्। शिखरार्द्धेन वाकुर्य्यात् तृतीयार्द्धेन वा पुनः। द्वारशाखाद्विगुणितंदण्डम् वा परिकल्पयेत्। ध्वजयष्टिर्देवगृहे ऐशान्यांवायबेऽथवा। नानावर्णं ध्वजं कुर्य्याद्विचित्रं चैकवर्ण-कम्। घण्टाचामरकिङ्किण्या मूषितं पापनाशनम्। दण्डाग्राद्धरणीं यावत् हस्तैकं विस्तरेण तु”। इन्द्र-ध्वजशबदे तल्लक्षणं दृश्यम्। हेमचन्द्रे पूर्वदिग्गृहेइत्यर्थोक्तिः ध्वजसंज्ञकस्यायस्य पर्वदिकस्थितत्वाभिप्रा-येण” गृहशब्दे

२६

३५ पृ॰
“ध्वजी थमो हरिः श्व[Page3921-a+ 38] गौः खरेभौ वायसोऽष्टमः। पूर्वादीनान्तु काष्ठानांध्वजादीनामवस्थितिः इत्युक्तेः ध्वजरूपायस्य पूर्व-दिक् स्थत्वस्य कीर्त्तनात्। वस्तुतः ध्वजशब्द आयविशेषार्थेएव परिभाषितो न तु पूर्वदिग्गृहे। तत्र शुण्डिकोप-करणे
“दशशूनासमं चक्रं दशचक्रसमो ध्वजः” मनुः।
“शूनादिशब्दैस्तद्वानुपलक्ष्यते दशशूनावत्सु यावान् दोष-स्तावानेकस्मिन् चक्रवति तैलिके। यावान् दशसु तैलिकेषुदोषः तावानेकध्वजवति शौण्डिके” कुल्लू॰। चिह्ने
“तं बव्रे वाहनं विष्णुर्गरुत्त्वन्तं महाबलम्। ध्वजंचक्रे च भगवानुपरि स्थास्यतीति तम्” भा॰ आ॰

३३ अ॰।
“श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च। कूर्मो नीलोत्पलं शङ्खःफणी सिंहोऽर्हता ध्वजाः” हेमच॰।
“शरेण शक्रस्य महाशनिध्वजम्” रघुः
“ब्रह्महा द्वा-दशसमाः कुटीं कृत्वा वने वसेत्। भैक्षाश्यात्मविशु-द्ध्यर्थं कृत्वा शवशिरो ध्वजम्” मनुः। वृषध्वजः मक-रध्वजः धूमध्वज इत्यादि ततो वाह्वा॰ इञ्। ध्वाजितत्सम्बन्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वज¦ r. 1st cl. (ध्वजति) also (इ) ध्वजि r. 1st cl. (ध्वंजति) To go, to move. भ्व० पर० सक० सेट् |

ध्वज¦ mn. (-जः-जं)
1. A flag or banner.
2. A mark, a sign or symbol.
3. The penis.
4. The upper part of a skull carried on a stick, as a penance for the murder of a Bra4hman.
5. A house situated to the east of any object.
6. A flag-staff.
7. (In Prosody,) An Iam- bic. m. (-जः)
1. A distiller.
2. Pride.
3. Hypocrisy, fraud. E. ध्वज to go, affix अच् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजः [dhvajḥ], [ध्वज्-अच्]

A flag, banner, standard, ensign; R.7.4;17.32; आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा Pt.1.26; ध्वजं चक्रे च भगवानुपरि स्थास्यतीति तम् Mb.

A distinguished or eminent person, the flag or ornament (at the end of comp.); as in कुलध्वजः 'the head, ornament, or distinguished person of a family'.

A flagstaff.

A mark, emblem, sign, a symbol; वृषभ˚, मकर˚ &c.

the attribute of a deity.

The sign of a tavern.

The sign of a trade, any trademark.

The organ of generation (of any animal, male or female).

One who prepares and sells liquors; Ms.4.85; सुरापाने सुराध्वजः Ms.

A house situated to the east of any object.

Pride.

Hypocrisy.

A skull carried on a staff (as a mark of ascetics) or as a penance for the murder of a Brāhmaṇa; see खट्वाङ्ग.

(In prosody) An iambic foot. (ध्वजीकृ to hoist a flag; (fig.) to use as a plea or pretext.)

part of a sword; श्रेष्ठखड्गाङ्गयोरपि Nm. -Comp. -अंशुकम्, -पटः, -टम् a flag; तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः R.12.85. -आरोपणम्, -आरोहणम् raising a flag. -आरोहः a kind of ornament on a flag; काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः । अर्चिष्मन्तो व्यरोचन्त ध्वजारोहा सहस्रशः ॥ Mb.6.16.12. (v. l.).-आहृत a. seized on the battle-field; Ms.8.415.-उच्छ्रयः hypocrisy; Mb.3.3/3.1. -उत्थानम् a festival in honour of Indra. -गृहम् a room in which banners are kept. -द्रुमः the palm tree. -प्रहरणः air, wind.-भङ्गः, -पातः inability to beget children. -यन्त्रम् any contrivance to which a flag-staff is fastened. -यष्टिः a flag-staff; संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः Ms.9.285.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वज m. ( n. only Hariv. 9245 and g. अर्धर्चा-दि; fr. 2. ध्वज्)a banner , flag , standard( ifc. f( आ). ) RV. etc.

ध्वज m. a flag-staff W.

ध्वज m. mark , emblem , ensign , characteristic , sign MBh. Hariv.

ध्वज m. attribute of a deity(See. मकर-, वृषभ-etc. )

ध्वज m. the sign of any trade ( esp. of a distillery or tavern) and the business there carried on Mn. iv , 85

ध्वज m. a distiller or vendor of spirituous liquors L.

ध्वज m. ( ifc. )the ornament of( e.g. कुल-ध्वज) L.

ध्वज m. the organ of generation (of any animal , male or female) Sus3r. L. (See. पुं-, स्त्री-)

ध्वज m. a skull carried on a staff (as a penance for the murder of a Brahman W. ; as a mark of ascetics and योगीs MW. )

ध्वज m. N. of a tree(= -वृक्ष) Cat.

ध्वज m. a place prepared in a peculiar way for building L. (in pros.) an iambic

ध्वज m. (in Gr. )a partic. kind of क्रम-पाठ

ध्वज m. (in astrol. ) N. of a योग

ध्वज m. pride , arrogance , hypocrisy L.

ध्वज m. N. of a ग्रामPa1n2. 4-2 , 109 Sch.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--flag; of शिव (bull)--of ललिता with महिष, मृग and सिंह emblems: फलकम्:F1:  Br. III. 3. ७९; २७. १५; ४९. १३; ५५. १५; IV. १६. ३५; १९. ८४; २१. 8.फलकम्:/F of Arjuna, कार्तवीर्य. फलकम्:F2:  M. ४३. १९; ४४. ६७; २५७. १७; २८१. 9.फलकम्:/F वृषदक्ष, given by Surabhi. फलकम्:F3:  वा. ६६. ७६; ९४. १५.फलकम्:/F
(II)--the 9th battle where Dhvaja was killed by Mahendra विष्णु. Br. II. ७२. ७५; वा. ९७. ७५, ८५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhvaja occurs twice in the Rigveda[१] in the sense of ‘banner’ used in battle. It is characteristic of Vedic fighting that in both passages reference is made to arrows being discharged and falling on the banners.

  1. vii. 85, 2;
    x. 103, 11. In Epic warfare banners are of vast importance -e.g., Rāmāyaṇa, ii. 67, 26;
    they were attached to a pole on the chariot, Mahabhārata, vii. 3332, etc. The army was called dhvajinī, ‘bannered host,’ ibid., i. 2875, etc.
"https://sa.wiktionary.org/w/index.php?title=ध्वज&oldid=473730" इत्यस्माद् प्रतिप्राप्तम्