ध्वजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजः, पुं, (ध्वजोऽस्त्यस्येति । ध्वज + अर्शआदि- त्वादच् ।) शौण्डिकः । इति मेदिनी । जे, १० ॥ (यथा, मनुः । ४ । ८५ । “दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ॥”)

ध्वजः, पुं क्ली, (ध्वजति उच्छ्रितो भवतीति । ध्वज + पचाद्यच् ।) पतका । (यथा, पञ्चतन्त्रे । १ । ३२ । “किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा ॥”) खट्वाङ्गम् । मेढ्रम् । (यथा, सुश्रुते चिकित्सित- स्थाने १९ अध्याये । “विदग्धैस्तु सिरास्नायुत्वङ्र्मासैः क्षीयते ध्वजः ॥”) चिह्नम् । इति मेदिनी । जे, ११ ॥ (यथा, महाभारते । १ । ३३ । १७ । “तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् । ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥”) गर्व्वः । दर्पः । इति शब्दरत्नावली ॥ पूर्ब्बदिशो गृहम् । इति हेमचन्द्रः ॥ पताकादण्डः । तत्- पर्य्यायः । केतनम् २ । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । ७ । २७ । ६ । “ततोऽर्ज्जुनः सुशर्म्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥”) ध्वजयुक्तिर्यथा, -- “सेनाचिह्नं क्षितीशानां दण्डो ध्वज इति स्मृतः । सपताको निष्पताकः स ज्ञेयो द्बिविधो बुधैः ॥ पताका सार्द्धदैर्घ्येण दण्डस्तु पृथिवीभुजाम् । सपताकध्वजस्याग्रे यदा हस्तं परिन्यसेत् ॥ जयहस्तो ध्वजो नाम नैनं सामान्यमर्हति । वंशोऽथ वाकुलः शालः पालाशश्चाम्पकस्तथा ॥ नैपो नैम्बोऽथवा दण्डस्तथा वैराजवारणः । अवद्धादिकसंज्ञानां वर्णरूपप्रकाशितः ॥ सर्व्वेषाञ्चैव वंशस्तु दण्डः सम्पत्तिकारकः ॥” अ क च ट त प य शाः ॥ “प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः । पञ्चहस्तायता हस्तपरिणाहा जयाभिधा ॥ जया च विजया भीमा चपला वैजयन्तिका । दीर्धा विशाला लोला च ज्ञेया हस्तैकवृद्धितः ॥ परिणाहे पादवृद्धिरथ वर्णस्य निर्णयः । रक्तः श्वेतोऽरुणः पीतश्चित्रो नीलोऽथ कर्वुरः ॥ कृष्णश्चेति पताकानां वर्णरूपप्रकाशितः । अवद्धादिकसंज्ञानामष्टानामष्टकत्रयम् ॥ कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्मक्षत्त्रियविट्शूद्रजातीनां संप्रकाशितः ॥ गजादियुक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला । गजः सिंहो हयो द्बीपी चतुर्णां पृथिवी- भुजाम् ॥ ब्रह्मविष्ण्विन्द्ररुद्राणां सोमसूर्य्यदिवौकसाम् । ध्वजदानं महादानं सर्व्वदानोत्तमं मतम् ॥ यावन्नो दीयते शुक्र ! ध्वजः प्रासादमूर्द्धनि । तावत्तु न भवेद्बत्स ! प्रासादो देववाञ्छितः ॥ शून्यध्वजं सदा भूता नानागन्धर्व्वराक्षसाः । विद्रवन्ति महात्मानो नानावाधाञ्च कुर्व्वते ॥ तस्माद्देवगृहद्वारपुरपर्ष्वतपत्तने । उच्छ्रिताः शान्तिकामाय ध्वजाः शुक्र ! सदा हिताः ॥ न हि चान्यद्ध्वजदानादुत्तमं भारते क्वचित् । दानमिष्टञ्च पुष्टञ्च देव्या दीपन्तथैव च ॥ अनेन विधिना यस्तु ध्वजं शुक्र ! निवेदयेत् । सर्व्वकामानवाप्नोति स नरः शिवतां व्रजेत् ॥ तस्य दर्शनसम्भाषादपि पापरता नराः । विमुक्ताः सर्व्वपापेभ्यो दिवं यान्ति न संशयः ॥ राज्ञा चानेन विधिना देवीलाञ्छनरञ्जिताम् । शङ्खचक्रवृषभार्क्षहंसवर्हिणवारणैः । साचारो भक्तिमास्थाय ध्वजयष्टिं समुच्छ्रयेत् । न तस्य सङ्गरे शुक्र ! व्याधयो न च वैरिणः । नैव शस्त्रव्रणपीडा भवेच्छां स समुच्छ्रयेत् ॥” इति देवीपुराणम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजः [dhvajḥ], [ध्वज्-अच्]

A flag, banner, standard, ensign; R.7.4;17.32; आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा Pt.1.26; ध्वजं चक्रे च भगवानुपरि स्थास्यतीति तम् Mb.

A distinguished or eminent person, the flag or ornament (at the end of comp.); as in कुलध्वजः 'the head, ornament, or distinguished person of a family'.

A flagstaff.

A mark, emblem, sign, a symbol; वृषभ˚, मकर˚ &c.

the attribute of a deity.

The sign of a tavern.

The sign of a trade, any trademark.

The organ of generation (of any animal, male or female).

One who prepares and sells liquors; Ms.4.85; सुरापाने सुराध्वजः Ms.

A house situated to the east of any object.

Pride.

Hypocrisy.

A skull carried on a staff (as a mark of ascetics) or as a penance for the murder of a Brāhmaṇa; see खट्वाङ्ग.

(In prosody) An iambic foot. (ध्वजीकृ to hoist a flag; (fig.) to use as a plea or pretext.)

part of a sword; श्रेष्ठखड्गाङ्गयोरपि Nm. -Comp. -अंशुकम्, -पटः, -टम् a flag; तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः R.12.85. -आरोपणम्, -आरोहणम् raising a flag. -आरोहः a kind of ornament on a flag; काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः । अर्चिष्मन्तो व्यरोचन्त ध्वजारोहा सहस्रशः ॥ Mb.6.16.12. (v. l.).-आहृत a. seized on the battle-field; Ms.8.415.-उच्छ्रयः hypocrisy; Mb.3.3/3.1. -उत्थानम् a festival in honour of Indra. -गृहम् a room in which banners are kept. -द्रुमः the palm tree. -प्रहरणः air, wind.-भङ्गः, -पातः inability to beget children. -यन्त्रम् any contrivance to which a flag-staff is fastened. -यष्टिः a flag-staff; संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः Ms.9.285.

"https://sa.wiktionary.org/w/index.php?title=ध्वजः&oldid=336823" इत्यस्माद् प्रतिप्राप्तम्