ध्वजी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वजी, [न्] पुं, (ध्वजोऽस्त्यस्येति । ध्वज + “अत इनिठनौ ।” ५ । २ । ११५ ॥ इति इनिः ।) ब्राह्मणः । पर्व्वतः । रथः । सर्पः । घोटकः । इति मेदिनी । ने, ७७ ॥ मयूरः । इति राजनिर्घण्टः ॥ शौण्डिकः । इति हेमचन्द्रः ॥ (यथा, याज्ञवल्क्ये । १ । १४१ । “प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥” ध्वजविशिष्टे, त्रि । यथा, महाभारते । १ । २२६ । २८ । “कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥” चिह्नयुक्ते च । यथा, मनुः । ११ । ९३ । “सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ॥”)
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वजी in comp. for ज.