नक्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रः, पुं, (न क्रामति दूरस्थलमिति । क्रम + अन्येष्वपीति डः । नभ्राडिति नलोपो न ।) कुम्भीरः । इत्यमरः । १ । १० । २१ ॥ (यथा, पञ्चतन्त्रे । ३ । ४३ । “नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानात् शुनापि परिभूयते ॥” मकरः । थया, कादम्बर्य्याम् । “तथा चेन्नाचरेयं नयेत नक्रकेतनः क्षणेनैकेनाकीर्त्तनीयां दशां जनं चैनम् ॥” ग्राहः । यथा, रघुः । १६ । ५५ । “स तीरभूमौ विहितोपकार्य्या- मानायिभिस्तामपकृष्टनक्राम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रः [nakrḥ], [न क्रामतीति]

A crocodile, an alligator; नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति Pt.3.46; R.7.3;16.55.

The sign Scorpio of the zodiac.

क्रम् The upper timber of a door.

The nose.

क्रा The nose.

A swarm of bees or wasps. -Comp. -केतनः N. of the god of love. -नखरम् a fragrant medicinal root (Mar. नागरमोथा; cyperus pertenuis); कतकं नक्रनखरं नलदं नाग- केसरम् Śiva. B.3.14. -मक्षिका a fly that enters the nostrils and hums or an aquatic fly. -राज् m., -राजः, -हारकः a shark or any other large sea-animal.

"https://sa.wiktionary.org/w/index.php?title=नक्रः&oldid=338096" इत्यस्माद् प्रतिप्राप्तम्