नक्षत्रदान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नक्षत्रदान¦ न॰ नक्षत्रभेदे दानम्। नक्षत्रभेदे द्रव्यभेदस्यदाने तच्च हेमा॰ दा॰ उक्तं यथा भारते
“नारद उवाच कृत्तिकासु महाभाग! पायसेन समर्पिषा। सन्तर्प्य ब्राह्मणान् साधून् लोकान् प्राप्नोत्यनुत्तमान्। रोहिण्यां पाण्डवश्रेष्ठ! माषैरत्नेन सर्पिषा। पयोनु-पानाद्दातव्यमानृण्यार्थं द्विजातये। दोग्ध्रीं सवत्सान्तुनरो नक्षत्रे सोमदैवते
५ । दत्त्वादित्यविमानस्थः स्वर्गंप्राप्नोत्यनुत्तमम्” सोमदैवतं नक्षत्रं, मृगशीर्षम्।
“आर्द्रायांकृशरं दत्त्वा तिलमिश्रं समाहितः। नरस्तरतिदुर्गाणि क्षुरधारांश्च पर्वतान्। पूपं पुनर्वसौ दत्त्वाघृतपूर्णं सुपाचितम्। यशस्वी रूपसम्पन्नो बह्वन्नेजायते कुले। पुष्ये तु काञ्चनं दत्त्वा कृतं चाकृतमेवच। अनालोकेषु लोकेसु सोमवत् स विराजते”। कृतंघटितम् अकृतमघटितम्।
“अश्लेषासु तथा रौप्यंवृषभं यः प्रयच्छति। स सर्वमयनिर्मुक्तः शास्त्रवानभि-जायते। मघासु तिलपूर्णानि वर्द्धमानानि मानवः। प्रदाय पशुमांश्चैव पुत्रवांश्च प्रजायते। फाल्गुनीपूर्वसमयेब्राह्मणानामुपोषितः। मक्ष्यान् फाणितसंयुक्तान् दत्त्वासौभाग्यमृच्छति। घृतक्षीरसमायुक्तं विधिवत् षष्टि-फौदनम्। उत्तराविषये दत्त्वा स्वर्गलोके महीयते। यद्वा प्रदीयते दानमुत्तराविषये नरैः। सदा फलमन-न्तञ्च भवतीह विनिश्चयः”। फाल्गुनीपूर्वसमये, पूर्व-फल्गुनीसमय इत्यर्थः। फाणितं गुडविकारः उत्तरा-[Page3930-a+ 38] विषशे उत्तर{??} इत्यर्थः।
“हस्ते हस्ति-रधं दत्त्वा चतुर्युक्तसुपोषितः। नरस्तरति दुर्गाणिक्षुरधारांश्च पर्वतान्”। चतुर्युक्तं, चतुर्भिर्हस्तिभिर्युक्तम्।
“चित्रायां वृषभं दत्त्वा पुण्याङ्गाङ्गां च भारत!। चर-त्यप्चरसां लोके रमते नन्दने वने”। पुण्याङ्गाङ्गामितिशुभलक्षणलक्षितशरीरां धेनुमित्यर्थः।
“स्वातीष्यथ धनंदत्त्वा यदिष्टतममात्मनः। प्राप्नोति लोकान् सुशुभा-निह चैव महद्यशः। विशाखायामनड्वाहं धेनुं दत्त्वाथदुग्धदाम्। सप्रासङ्गञ्च शकटं सधान्यं वस्त्रसंयुतम्”। प्रासङ्गो युगान्तरणाष्ठम्।
“पितॄन् देवांश्च प्रीणाति प्रेत्यचानन्त्ययक्षुते। न च दुर्गाण्यवाप्नोति स्वर्गलोकं चगच्छति। दत्त्वा यधोक्तं विप्रेभ्यो वृत्तिमिष्टा स विन्दति। नारकीयांश्च स क्लेक्षान्नाप्नोतीति विनिश्चयः। अनुराधासुप्रावारवस्त्रीत्तरमुपोषितः। दत्त्वा युगशतं चापि नरःस्वर्गे महीयते”। प्रावारः प्रवारपटः, वस्त्रोत्तरंपरिधानवस्त्रादिकम्।
“कालशाकन्तु विप्रेभ्यो दत्त्वामर्त्त्यः समूलकम्। ज्येष्ठायां मृत्युमुत्साद्य गति-मिष्टाञ्च गच्छति। मूले मूलफलं दत्त्वा ब्राह्मणेभ्यःसमाहितः। स्वपितॄन् प्रीणयेदेव गतिमिष्टाञ्च गच्छति। अथ पूर्वास्वाषाढासु दधिपात्राण्युपोषितः। कुलवृत्तोप-सम्पन्ने व्राह्मणे वेदपारगे। प्रदाय जायते श्रेष्ठकुलेबहुगुणाकुले। पुत्रपौत्रैः परिवृतः पशुमान् धनवां-स्तथा। उदमन्यं ससर्पिष्कं प्रभूतमधुफाणितम्। दत्त्वीत्तरास्यापाढासु सर्वलोकानवाप्नुयात्”। उदमन्यःउदकमिश्राः सक्तवः। फाणितं दुग्धखण्डविकारः।
“दुग्धन्त्यभिजितो योगे दत्त्वा मधुवृतप्लुतम्। धर्मनिष्ठोमनीषिभ्यः स्वर्गलोके महीयते”। अयमर्थः। उत्तरा-{??}ढानक्षत्रचतुर्थपादः श्रवणस्याद्यघटिकाचतुष्टयमभि-जिद्योगः।
“श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च। श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्। गोप्रयुक्तंधनिष्ठसु यानं दत्त्वा समाहितः। वस्त्रमस्मिन्नवं दत्त्वा{??} राज्यं प्रपद्यते। गन्धं शतभिषायोगे दत्त्वा{??}चन्दनम्। प्राप्नोत्यप्सरसां लोकं प्रेत्य गन्धांञ्चशाश्वतान्। पूर्वभाष्ट्रपदायोगे राजमाषान् प्रदाय वै। सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत्। औरभ्र-मुत्तरायोगे यस्तु मांसं प्रयच्छति। पितॄन् प्रीणातिसकलान् प्रेत्यानन्त्यं रुमश्नुते”। उरभ्रो, मेषस्तस्यमांसमौरभ्रम्।
“कांस्योपदोहनीं धेनुं रेवत्यां यः प्रय-[Page3930-b+ 38] च्छति। स प्रैत्य कामानादाय दातारमुपतिष्ठति। रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तभः। हस्त्यश्वरथ-सम्पन्ने वर्चखी जायते कुले। भरणीषु द्विजातिभ्य-स्तिलधेनुं प्रदाय वै। गाः प्रसूताश्च प्राप्नोति नरः प्रेत्ययशस्तथा। भीष्म उवाच। इत्येष लक्षणोद्देशः प्रोक्तोनक्षत्रयोगतः। देवक्या नारदेनेह स्तुषाभ्यः साऽव्रवीदि-दम्”। विष्णुधर्मोत्तरे
“कृत्तिकासु सुवर्णस्य दानं बहु-फलं स्मृतम्। रक्तवस्त्रस्य रोहिण्यां सौम्ये
५ भे लवणस्यच। कृशरस्य तथार्द्रायामादित्ये
७ रजतस्य च। घृतस्यतु तथा पुष्ये गन्धानामथ सर्पभे
९ । तिलानाञ्च तथापैत्र्ये
१० प्रियगोर्भगदैवते
११ । आर्यम्णे
१२ चाज्यपूपानांसावित्रे
१३ पायसस्य तु। चित्रायां चित्रवस्त्राणां सक्तूनांवायुदैवते
१५ । ऐन्द्राग्न्ये
१६ चैव लोहानां मैत्रे
१७ माल्य-फलस्य च। छत्रस्य च तथा शाक्रे
१८ मले मूलफलस्य च। हेम्नश्च मधुयुक्तस्य दानमाप्ये
२० महाफलम्। विश्वेश्वरे
२२ ऽन्नपानस्य श्रवणे वसनस्य च। धान्यस्य वासवे
२३ विप्राबारुणे
२४ चौषधस्य च। आजे
२५ पुराणवीजानां सस्यानांतदनन्तरे
२६ । गोरसानां तथा पौष्णे
२७ स्रानानामथ-याश्विने। तिलानाञ्च सदा दानं भरणीषु महाफलम्”।