नगर

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगरम्, क्ली, नगा इव प्रासादादयः सन्ति यत्र । (“नगपांसुपाण्डुभ्यश्च ।” ५ । २ । १०७ । इत्यस्य वार्त्तिकोक्त्या रः ।) बहुलोकवासस्थानम् । शहर इति भाषा । तत्पर्य्यायः । पूः २ पुरी ३ पुरिः ४ पुरम् ५ नगरी ६ पत्तनम् ७ पट्टनम् ८ पट्टनी ९ पुटभेदनम् १० पटभेदनम् ११ स्थानी- यम् १२ निगमः १३ इत्यमरभरतौ ॥ कट- कम् १४ पट्टम् १५ । इति शब्दरत्नावली ॥ केचित्तु नगरपत्तनस्थानीयानां भेदमाहुः । तत्र पुरादित्रयं पुरे । पत्तनादिद्वयं पत्तने । स्थानी- यादिद्बयं स्थानीये । इति मन्यन्ते । यत्राष्टशत- ग्रामीयव्यवहारस्थानं मध्यवर्त्ति तत् नगरम् । यत्र राजा तत्परिचारकाश्च तिष्ठन्ति तत् पत्त- नम् । प्राकारादिना दुर्गं योजनविस्तीर्णं नगरं स्थानीयम् । केचित्तु पुरनगरयोरपि भेदमाहुः । बहुग्रामीयव्यवहारस्थानं पुरम् । तत्र प्रधान- भूतं नगरम् । इति भरतः ॥ * ॥ अथ नगरनिर्म्माणकालः । “स्थिरराशिगते भानौ चन्द्रे च स्थिरभोदये । शुद्धे काले दिने चैव नगरं कारयेन्नृपः ॥” * ॥ तस्य लक्षणं भविष्योत्तरे । “दीर्घं वा चतुरस्रं वा नगरं कारयेन्नृपः । तत्त्र्यस्रं वर्त्तुलं वापि कदाचिदपि कारयेत् ॥ दीर्घं पादैकप्रसरञ्चतुरस्रं समोचितम् । त्रिभिः पादैः समं त्र्यस्रं वर्त्तुलं बलयाकृति ॥ दीर्घं स्याद्दीर्घकालाय सुखसम्पत्तिहेतवे । चतुरस्रं चतुर्वर्गफलाय पृथिवीभुजः ॥ त्र्यस्रं त्रिशक्तिनाशाय वर्त्तुलं बहुरोगकृत् । राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः ॥ राजहस्तैश्च दशभी राजदण्ड उदाहृतः । राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥ राजच्छत्रैश्च दशभी राजकाण्ड उदाहृतः । राजकाण्डैश्च दशभी राजपूरुष उच्यते ॥ राजधानी तु कथिता दशभी राजपूरुषैः । राजधानी दशगुणा राजक्षेत्रमुदाहृतम् ॥ सप्तैव परिमाणानि प्रोक्तानि पुरपत्तने । भयत्राभोगसम्पत्तिमर्त्त्यकीर्त्तिसुखार्थिनाम् । राजक्षेत्रेण नृपतिः पूरपत्तनमारभेत् ॥ लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एकता । समृद्धिवित्तं नाशश्च मङ्गलञ्च बलं क्षयः । साम्राज्यं भोगसम्पत्तिरिति षोडश कीर्त्तिताः ॥ यथार्थसंज्ञा नगरा मुनिना तत्त्ववेदिना ॥” इति युक्तिकल्पतरुः ॥ * ॥ अपि च । “नृपावासः पुरी प्रोक्ता विशाम्पुरमपीष्यते । एकतो यत्र तु ग्रामो नगरञ्चैकतः स्थितम् ॥ मिश्रन्तु खर्व्वटं नाम नदीगिरिसमाश्रयम् । विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति हि ॥ स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च । पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम् ॥ अनेकजातिसम्बन्धं नैकशिल्पसमाकुलम् । सर्व्वदैवतसम्बन्धं नगरन्त्वभिधीयते ॥” इति विष्णुपुराणटीकार्या श्रीधरस्वामिधृतभृगु- वचनम् ॥ * ॥ अन्यच्च । “नगरं सर्व्वतोभद्रं कर्त्तव्यं रोधकं हि वा । स्वस्तिकं मध्यगं कार्य्यं कुमारीपुरमेव वा ॥ चतुष्पथचतुर्युक्तं सर्व्वकामसुखावहम् । छिन्नकर्णं विनासञ्च दुःस्थितं कृशदुर्ब्बलम् ॥ नगरं न प्रशंसन्ति गर्त्तविद्धं विभेदितम् । अग्रतः स्वल्पप्रासादं छिन्नघ्राणं विदुर्बुधाः ॥ द्बिमुखं कर्णहीनन्तु कृशमध्यं कृशं विदुः । दुःस्थितं निम्नयाम्यन्तु नैरृतं धनदुर्ब्बलम् ॥ सौम्यं सर्व्वसुखाह्लादपूरितं वारुणं वशम् । याम्यमायुःप्रदं पूर्णनगरं प्रीतिवर्द्धनम् ॥ ईशवासवसंपूर्णं सर्व्वारोग्यसुखप्रदम् । मध्यञ्चतुष्पथोपेतं न च तं पीडयेत् क्वचित् ॥ ब्रह्मस्थानं हि तं विप्र शिवस्तत्र सदा स्थितः । चतुर्व्विंशतिनाड्यस्तु हस्तान्यष्टशतं परम् ॥ अत्र मध्यं प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम् । अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् ॥ नगरार्द्धञ्च विष्कम्भं खेटं ग्रामं ततोऽर्द्धतः । नगराद्योजनं खेटं खेटाद्ग्रामोऽर्द्धयोजनः ॥ द्विक्रोशं परमा सीमा क्षेत्रसीमा चतुर्धनुः । त्रिंशद्धनूंषि विस्तीर्णो देशो मार्गस्तु तैः कृतः ॥ विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु । धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः ॥ नृवाजिरथनागानामसम्बाधः सुसञ्चरः । धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ॥ त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यिका । जङ्घापथश्चतुष्पादस्त्रिपादस्य गृहान्तरम् ॥ वृतीपादस्त्वर्द्धपादः प्राग्वंशपादकः स्मृतः ॥” इति देवीपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगर¦ न॰ नगा इव प्रासादाः सन्त्यत्र बा॰ र।
“पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम्। अनेकजा-तिसम्बद्भं नैकशिल्पिसमाकुलम्! सर्वदैवतसंबद्धं नगरंत्वभिधीयते” इत्युक्तलक्षणे

१ पुरभेदे। गौरा॰ ङीष्। नगरीत्यप्यत्र अमरः। तस्य लक्षणं भविष्योत्तरे
“दीर्घं वा चतुरखं वा नगरं कारयेन्नृपः। तत्त्र्यस्रंवर्त्तुलं वापि कदाचिदपि कारयेत्। दीर्थं पादैकप्रसर-ञ्चतुरस्रं समोचितम्। त्रिभिः पादैः समं त्र्यस्रंवर्त्तुलं वलयाकृति। दीर्थं स्याद्दीर्थकुशलसुखसम्पत्ति-हेतवे। चतुरस्रं चतुर्वर्गफलाय पृथिवीभुजः। त्र्यस्रंत्रिशक्तिगाशाय वर्त्तुलं बहुरोगकृत्। राज्ञः स्वहस्तैर्द-शभी राजहस्त उदाहृतः। राजहस्तैश्च दशभी राज-दण्ड उदाहृतः। राजदण्डैश्च दशभी राजच्छत्रमुदा-हृतम्। राजच्छत्रैश्च दशमी राजकाण्ड उदाहृतः। राजकाण्डैश्च दशभी राजपुरुष उच्यते। राजधानी तु कथि-[Page3936-b+ 38] ता दशभी राक्षपुरुषैः। राजधानी दशगुणा राजक्षेत्र-सुदाहृतम्। सप्तैव परिमाणानि प्रोक्तानि पुरपत्तने। भयस्त्रीभो{??}सम्पत्तिमर्त्यकीर्त्तिसुखार्थिनाम्। राजक्षेत्रेनरपतिः पुरपत्तनमारभेत्। लक्ष्मीर्जयः क्षमा सौख्यंपञ्चत्वं भङ्ग एकता। समृद्धिवित्तं नाशश्च मङ्गलञ्च बलंक्षयम्। साम्राज्यं भोगसम्पत्तिरिति भोडश कीर्त्तिताः। यथार्थसंज्ञा नगरे मुनिना तत्त्ववेदिना” इति युक्तिकल्प-तरुः।
“नृपवासपुरी प्रोक्ता विशाम्पुरमपीष्यते। एकतो यत्र तु ग्रामो नगरञ्चैकतः स्थितम्। मिश्रन्तुखर्वटं नाम नदीगिरिसमाश्रयम्। विप्राश्च विप्रभृत्याश्चयत्र चैव वसन्ति हि। स तु ग्राम इति प्रोक्तः शूद्राणांवास एव च। पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्यु-तम्। अनेकजातिसम्बद्धं नैकशिल्पिसमाकुलम्। सर्व-दैवतसम्बद्धं नगरन्त्वभिधीयते” इति विष्णु॰ पु॰टीकायां श्रीघरस्वामिधृतभृगुवचनम्।
“नगरं सर्व्रयोभद्रं कर्त्तव्यं रोधकं हि वा। स्वस्तिकं मध्यगं कार्य्यंकुमारीपुरमेव वा। चतुस्पथचतुर्युक्तं सर्वकाममुखा-वहम्। छिन्नकर्णं द्विमुखञ्च दुःस्थितं कृशदुर्बलम्। नगरंन प्रशंसन्ति गर्तबिद्धं विभेदितम्। अग्रतः स्वल्पप्रासादंछिन्नकर्णं विदुर्बुधाः। द्विमुखं कर्णहीनन्तु कृशमध्यंकृशं विदुः। दुःस्थितं निम्नयाम्यन्तु नैरृतं धनदुर्बलम्। सौम्यं सर्वसुखाह्लादपूरितं वारुणं बलम्। याम्यमायुः-प्रदं पूर्णनगरं प्रीतिवर्द्धनम्। ईशवासवसंपूर्णं सर्वा-रोम्यसुखप्रदम्। मध्यञ्चतुष्पथीपेतं नच तत् पीडवेत्क्वचित्। व्रह्मस्थानं हितं विप्र! शिवस्तत्र सदा स्थितः। चतुर्विंशतिनाद्ध्यस्तु हस्तास्ल्यष्टशतं एरम्। अत्र मध्यंप्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम्। अथ किष्कुशता-न्यष्टौ प्राहुर्मुख्यं निवेशनम्। नगरार्द्धञ्च वि{??}म्भं स्वेष्टंग्रामं ततोऽर्द्धतः। नगरार्द्धमितं खेष्टं खेटाद् ग्रामोऽर्द्ध-योजनः। द्विक्रोशं परमा मीमा क्षेत्रमीमा चतुर्धनुः। त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः। विंशद्धनु-र्ग्राममार्गः सीमामार्गा दशैव तु। धनूंचि दूश विस्तीर्णःश्रीमान्राजपथः कृतः। नृवाजिरथतागानामसम्बाथंसुसञ्चरः। धनूंषि चैव चत्वारि शाखा रथ्यास्तु निर्मिताः। त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यिका। जङ्घापथा-श्चतुष्पादास्त्रिपादस्य गृहान्तरम्। वृतीपादस्त्वर्द्धपादःप्राग्वंशपादकः स्मृतः” देवी पु॰। नगरसन्निवेशशब्देदृश्यम्। नगरनिर्माणकालश्च
“स्थिरराशिगते भानौ[Page3937-a+ 38] चन्द्रे च स्थिरभोदये। शुद्धे काले दिने चैव नगरंकारयेन्नृपः” ज्यो॰
“सनगरं नगरन्ध्रकरौजसः रघुः। नगरे काकः पात्रे समि॰

७ त॰ स॰। नगरकाक नगरस्थिते काकतुल्याचारवति एवं

७ त॰। नगरवायस तत्रार्थेबुक्तरोह्या॰ तयोराद्युदात्तता।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगर¦ nf. (-रं-री) A town, a city. E. नग a tree, or according to some, a mountain, रल् affix; having trees or houses like mountains. नगा इव प्रासादाः सन्ति अत्र बा० र |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगरम् [nagaram], [नगा इव प्रासादाः सन्त्यत्र बा˚ र; cf. P.V.2.17 Vārt.] A town, city (opp. ग्राम); नगरगमनाय मतिं न करोति Ś2. पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम् । अनेकजातिसंबद्धं नैकशिल्पिसमाकुलम् । सर्वदैवतसंबद्धं नगरं त्वभिधीयते ॥

Comp. अधिकृतः, अधिपः, अध्यक्षः the chief magistrate of a town, head police-officer; निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः Hariv.

governor or superintendent of a town. -अभ्याशः, -सः the vicinity of a town. -उपान्तः a suburb, the skirt of a town. -ओकस् m. a townsman.-काकः 'town-crow', an expression of contempt.-कीर्तनम् repeating the name of a god while wandering through a city. -घातः an elephant.

जनः townsfolk.

a citizen. -प्रदक्षिणा carrying an idol round a city in procession. -प्रान्तः a suburb. -मण़्डना a courtezan. -मर्दिन् m. an intoxicated elephant. -मार्गः a principal road, high-way. -रक्षा superintendence or government of a town. -रक्षिन् m.

the superintendent of a town.

a town-watchman. -स्थः a townsman, citizen.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगर n. ( m. only MBh. iii , 3014 ; ifc. f( आ). Hariv. 2951 ; prob. not fr. नग+ र, but See. g. अशमा-दि; the न्cannot be cerebralized g. क्षुभ्ना-दि)a town , city , N. of sev. cities TA1r. Mn. MBh. etc.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--in शाकद्वीप. Br. II. १९. १०१; III. ७०. १०.
(II)--a son of Manyu, and father of सम्कृति. Vi. IV. १९. २१-2.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NAGARA : In ancient days there were rules and prin- ciples regulating the construction of a city. The name ‘city’ could be applied to them only if they conformed to the rules and principles in vogue. The principles and rules of the erection of a proper city are given below:--

One yojana or a half of land should be selected as site.(** A yojana is approximately twelve Kilometres.**) The planning of the city should be commenced after worshipping the deity of Vāstu. There should be four main gates on the four sides, East, West, North and South. The South gate should be in the position of Gandharvapada, West gate in the place of Varuṇa, the North gate in the place of Soma (Moon) and the East fort gate in the place of Sūryapada (the position of the Sun). The haṭṭas (minor gates) should be wide enough for elephants etc. to pass through. The main gates should be six rods wide.

When the city is completed goldsmiths should be settled in the Agni corner(** To know the corners see under Aṣṭadikpālakas.**) (i. e. South East). The courtesans who live by dancing etc. should have their houses on the south side of the city. The houses of actors, those who extract oil, fishermen etc. should be in the corner of Nirṛti (South West). Sheds for chariots, weapons, swords etc. should be on the western side. Dealers in liquor, carpenters, blacksmiths, masons etc. and servants should be given houses in the Vāyu corner i.e. North West. The houses of Brahmins, hermits, sages, saints, and such others should be on the north side. In the Īśāna corner (North East) merchants of vegetables and on the eastern side, the authorities of the army should have their houses.

The army (Infantry, cavalry, chariots and elephants) should be put up in the Agni corner. On the south the goddesses who are protectors of women-folk should be consecrated. Archers should live in the Nirṛti corner. Most honourable people, Treasury officers, Leaders of the people, Brahmin groups and such others should have their abodes on the western side. So also Kṣatri- yas should have their houses on the eastern side, Vaiśyas on the south and Śūdras on the west of the city. Vaiśyas and horses should be placed on all four sides. The army also should be placed thus. The movable wealth should be placed on the east side and the funeral place on the south. The cattle etc. should be kept on the west, farmers on the north, and the outcastes on the corners. This should be the plan of a city as well as that of villages too.

On the east fort-gate of cities and villages Vaiśravaṇa and Śrī Bhagavatī should be consecrated. They will confer prosperity upon those who visit them. Temples dedicated to Gods should be erected on the western side facing the east. If temples are erected on the east they should face the west and those erected on the south should face the North. For the protection of the city, there should be temples dedicated to Indra, Viṣṇu and such other Gods. If there is no worshipping place in a city, a village, a fort, or a house, such places will be haunted by devils and troubled by diseases etc. If cities are built according to this plan they will afford both salvation and prosperity.

On the east there should be the house of Lakṣmī, in the Agni corner, the kitchen on the south, bedrooms in the Nirṛti corner the weapon-house, on the west the dining hall, in the Vāyu corner, the granary, on the north, the treasury, and the place of worship in the Īśāna corner.

Houses could be erected with four blocks, three blocks or only one block. Houses with four blocks could be made in two hundred and fiftyfive ways by making changes in each block and the open verandas. Houses with three blocks are of four types; with two blocks are of five types; and houses of only one block are of four types. There are houses and cities with twenty- eight open verandas. There are fiftyfive types of houses with four open verandas and seven open verandas. Houses with six open verandas and eight open verandas are of twenty types. In cities houses should have eight open verandas (Agni Purāṇa, Chapter 105).


_______________________________
*9th word in left half of page 514 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नगर&oldid=457654" इत्यस्माद् पुनः प्राप्तिः