नटः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

  • नटः

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

आसन्

arनः azनटः caनटः csनटः csbनटः cyनटः daनटः deनटः elनटः enनटः eoनटः esनटः etनटः euनटः faनटः fiनटः fjनटः frनटः fyनटः gaनटः hiनटः hrनटः huनटः hyनटः idनटः ioनटः itनटः jaनटः kaनटः kkनटः knनटः koनटः kuनटः kyनटः liनटः loनटः ltनटः mgनटः mkनटः mlनटः myनटः nahनटः nlनटः noनटः ocनटः plनटः ptनटः ruनटः simpleनटः smनटः srनटः svनटः taनटः teनटः thनटः tlनटः trनटः ukनटः viनटः voनटः zhनटः zh-min-nanनटः zuनटः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटः, पुं, (नमतीति । नम + “जनिदाच्युस्रिति ।” उणां ४ । १०४ । इति डटः ।) श्योणाक- वृक्षः । (नटति नृत्यतीति । नट + अच् । यद्वा, नमतीति । नम + डटः) नर्त्तकः । नेटुया इति भाषा । (यथा, देवीभागवते । १ । ७ । ४२ । “तं क्रीडसे निजविनिर्म्मितमोहजाले नाट्यो यथा विहरते स्वकृते नटो वै ॥”) तत्पर्य्यायः । शैलाली २ शैलूषः ३ जाया- जीवः ४ कृशाश्वी ५ भरतः ६ । इत्यमरः । २ । १० । १२ ॥ सर्व्ववेशी ७ भरतपुत्त्रकः ८ धात्री- पुत्त्रः ९ रङ्गजीबः १० रङ्गावतारकः ११ । इति हेमचन्द्रः । २ । २४२ ॥ अशोकवृक्षः । इति मेदिनी । टे, २० ॥ किष्कुपर्व्वा । इति जटाधरः ॥ नल इति भाषा ॥ (मदनफलम् । तत्पर्य्यायो यथा, -- “मदनश्छर्द्दनः पिण्डी नटः पिण्डीतकस्तथा । करहाटो मरुवकः शल्यको विषपुष्पकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अशोकः । अस्य पर्य्यायो यथा, -- “अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः । कङ्केलिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥”) वर्णसङ्करजातिविशेषः । यथा, पराशरपद्धतौ । “शौचिक्यां शौण्डिकाज्जातो नटो वरुड एव च ।” व्रात्यायां क्षत्त्रियाज्जातः । (यथा, मनुः । १० । २२ । “झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड एव च ॥” हनूमन्मते दीपकरागस्य रागिणी । अस्या जातिः संपूर्णा । गृहं षड्जस्वरः । ग्रीष्मर्त्तौ दिवसान्तो गानसमयः । रागमालायामस्याः स्वरूपं रक्तवर्णा नारी नवयौवना सालङ्कृता अश्वारूढा पुरुषवत् परिहितवस्रना निष्कोष- करवालं धृत्वा शत्रूनाक्रममाणा । इति सङ्गीत- शास्त्रम् ॥ नारदपुराणमते श्रीरागस्य पुत्त्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटः [naṭḥ], [नट्-अच्]

A dancer; न नटा न विटा न गायकाः Bh.3.27.

An actor; कुर्वन्नयं प्रहसनस्य नटः कृतो$सि Bh. 3.126,112; नटवद् व्यवतिष्ठते लिङ्गम् Sāṅ. K.42.

The son of a degraded Kṣatriya; Ms.1.22.

The Aśoka tree.

A kind of reed. -Comp. -अन्तिका shame, modesty. -ईश्वरः an epithet of Śiva. -चर्या the performance of an actor. -भूषणः, -मण़्डनः (yellow) orpiment.

रङ्गः a theatrical stage.

anything illusory. -वरः 'the chief actor', the Sūtradhāra of a drama. -संज्ञकम् yellow orpiment. (-कः) an actor, dancer. -सूत्रम् directions or rules for actors. पाराशर्य- शिलालिभ्यां भिक्षुनटसूत्रयोः P.IV.3.11.

"https://sa.wiktionary.org/w/index.php?title=नटः&oldid=506747" इत्यस्माद् प्रतिप्राप्तम्