नत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नतम्, क्ली, (नम + क्तः ।) तगरपादी । तगर- मूलम् । इति मेदिनी । ते, २९ ॥ (पर्य्यायो- ऽस्य यथा, -- “कालानुशारिवावक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥” इति वैद्यकरत्नमालायाम् ॥)

नतः, पुं, (नमति स्मेति । नम + क्तः ।) जन्म- नाडिकाविशेषः । तद्यथा, -- “असकृत्कर्म्मणा येन यान्ति दृक्तुल्यतां दिवि । नतोन्नतौ ततः साध्यौ भावाः खेटबलानि षट् ॥ दिनार्द्धान्तरिता जन्मनाडिका नतनाडिका । पूर्ब्बापरार्द्धे जातस्य प्राक्पराख्या दिने भवेत् ॥ रात्रेर्गतघटीशेषघटीदिनार्द्धसंयुता । परपूर्ब्बाभिधा ज्ञेया रजन्यां नतनाडिका ॥” इति कोंष्ठीप्रदीपः ॥

नतः, त्रि, (नम + क्तः ।) कुटिलः । नम्रः । इति मेदिनी । ते, २९ ॥ (यथा, हरिवंशे । २०१ । ३९ । “पतन्ति युगपत् सर्व्वे पादयोर्मूर्द्धभिर्नताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नत वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।1।6

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नत¦ त्रि॰ नम--कर्त्तरि क्त।

१ नम्रीभूते

२ कुटिले च मेदि॰।
“नतभ्रुवो नव्यजनापनेयः” उद्भदः। सि॰ शि॰ प्रमिता॰उक्ते येन कालेन मध्याह्नान्नतोरविस्तादृशे

२ काल-भेदे उन्नतशब्दे

१८

८ ।

८९ पृ॰ दृश्यम्
“पूर्वं नतं स्याद्दि-नरात्रिखण्डं दिवानिशोरिष्टघटीविहीनम्। दिवानिशो-रिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात्” नी॰ ता॰उक्ते

३ इष्टघटीहीने दिवारात्रार्द्धकाले इष्टघटीतो वाहीने

४ तथाभूते काले च छायया दिनज्ञानार्थे

५ धनुः-कलाभेदे च सच सू॰ सि॰ रङ्गनाथाभ्यां दर्शितो यथा(
“मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका। स्व-कर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे। उत्तराश्चो-त्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः। दिग्भेदे मि-श्रिताः सोम्ये विश्लिष्टाश्चाक्षलिप्तिकाः” सू॰ सि॰
“अभीष्ट-दिने माध्याह्निकी छाया भुजसंज्ञा ज्ञेया। तेनभुजेन त्रिज्या गुणिता मध्याह्नच्छायाकर्णेन भक्ताफलस्य धनुःकला नता नतसंज्ञास्ताः नतकला दक्षिणेभुजे मध्याह्नच्छायारूपभुजे प्राच्यापरसूत्रमध्याद्दक्षिण-दिक्स्थे सति उत्तरदिक्वा, उत्तरे भुजे दक्षिणाः। चो विषयव्यवस्थार्थकः। ता नतकलाः सूर्यक्रान्तिनत-कलाः प्रागुक्ताः, दिग्भेदस्वदिशोर्भिन्नत्वे मिश्रिताःसंयुक्ताः साम्येऽभिन्नदिक्त्वे विश्लिष्टा अन्तरिताः। द्वाद-शाङ्गुलशङ्कुकोटौ मध्याह्नच्छायाकर्णे वा मध्यच्छायाभुज्स्तथा खस्वस्तिकान्मध्याह्नकाले सूर्यस्य याम्यो-तरवृत्ते यदन्तरेण नतत्वं ता नतकलास्तज्ज्या नतां-शज्या मध्याह्नोन्नतांशज्यारूपशङ्कौ त्रिज्याकर्णे वा भुजइति मध्याह्नच्छायाकर्णे मध्याह्नच्छाया भुजस्तदा[Page3953-b+ 38] त्रिज्याकर्क्षे को बुज इत्यनुपातेन नतज्य तद्धनुरत्रकलात्मकत्वान्नतकलास्ता ग्रहसम्बद्धा इति छायादिग्-विपरीतदिक्काः। अथ क्रान्त्यंशाक्षांशयोरेकदिक्त्वे यो-गेन नतांशा इति दक्षिणा नतकला दक्षिणक्रान्तिकलाभिर्हीना अक्षांशा भवन्ति। क्रान्त्यंशाक्षांशयोर्भि-न्नदिक्त्वेऽन्तरेण नतांशा यदि दक्षिणास्तदा क्रान्त्यू-नाक्षांशस्य नतत्वादुत्तरक्रान्तियुता अक्षांशाः यदितूत्तरास्तदाक्षोनक्रान्तेर्नतत्वान्नतोनोत्तरक्रान्तिरक्ष इतिसम्यगुपपन्नम्” रङ्ग। अधिकं नतिशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नत¦ mfn. (-तः-ता-तं)
1. Bent, bowed, reclining.
2. Crooked, curved. n. (-तं)
1. The arc or distance of any planet from the Zenith.
3. A plant or its root: see तगर and तगरमूल। E. नम् to bow or bend, affix कर्त्तरि-क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नत [nata], p. p. [नम्-क्त]

Bent, bowed, stooping, inclined.

Sunk, depressed.

Crooked, curved.

Bowing to, saluting; सुविस्मितं कृत्यमजं नतो$स्मि तम् Bhāg.5.18.4.

तम् The distance of any planet from the meridian.

The zenith distance at a meridian transit.

Inclination.

The buttocks (cf. नततटे); L. D. B. -Comp. -अंशः zenith distance. -अङ्गः a.

bending the body.

stooping, bowed.

(ङ्गी) a woman with stooping limbs; नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती । सती शम्भोरम्भो- रुहचटुलचक्षुर्विजयते ॥ Ā. L.4.

a woman in general; तामीषत्प्रचलविलोचनां नताङ्गीमालिङ्गन्पवन मम स्पृशाङ्गमङ्गम् Māl. 1.38. -उन्नत a. high and low; अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति Ś.4.15. -कालः, -घटिका an hour-angle; distance in time from meridian. -ज्या the sine of the hour-angle.

नाडी, नाडिका the distance in time of any planet from the meridian.

any hour of birth after noon or before midnight.-नाभि a. thin, slender; तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः Ku.1.38. -नासिक a. flat-nosed. -पर्वन्a. flat-jointed. -भूः a woman with curved eye-brows; यदि हंस गता न ते नतभ्रूः सरसो रोधसि दृक्पथं प्रिया मे V.4.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नत mfn. bent , bowed , curved , inclined , inclining RV. etc.

नत mfn. bowing to , saluting( acc. or gen. ) BhP. vi , 9 , 40 ; v , 18 , 4

नत mfn. depressed , sunk , flat

नत mfn. deep , hanging down MBh. Ka1v. etc.

नत mfn. ifc. bent down by or turned towards(See. वाम-add. )

नत mfn. cerebralized (as the letter न्See. नति) RPra1t.

नत m. n. Tabernaemontana Coronaria L.

नत n. zenith-distance at meridian transit Su1ryas.

नत n. hour-angle or distance in time from meridian ib.

नत n. inclination ib.

"https://sa.wiktionary.org/w/index.php?title=नत&oldid=340306" इत्यस्माद् प्रतिप्राप्तम्