नन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दः, पुं, (नन्दतीति । नन्द + पचाद्यच् ।) विष्णुः । यथा । “आनन्दो नन्दनो नन्दः ।” इति महाभारते । १३ । १४९ । ६९ ॥ नरपतिभेदः । स तु महानन्दिसुतः क्षत्त्रियवंशान्तः । (यथा, भागवते । १२ । १ । ७ -- ११ । “महानन्दिसुतो राजन् ! शूद्रागर्भोद्भवो बली । महापद्मपतिः कश्चिन्नन्दः क्षत्त्रविनाशकृत् । ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्म्मिकाः ॥ स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः । शासिष्यति महापद्गो द्वितीय इव भार्गवः ॥ तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः । य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः ॥ नव नन्दान् द्विजः कश्चित् प्रपन्नाबुद्धरिष्यति । तेषामभावे जगतीं मौर्य्या भक्ष्यन्ति वै कलौ ॥”) आनन्दः । निधिविशेषः । इति पुराणशब्द- रत्नावल्यौ ॥ गोपभेदः । स च श्रीकृष्णपिता । नन्दः पुरा द्रोणनामा वसुरासीत् । यथा, -- “द्रोणो वसूनां प्रवरो धरया सह भार्य्यया । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोको ययाञ्जो दुर्गतिन्तरेत् ॥ स्वस्तीत्युक्तः स भगवान् व्रजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥” इति श्रीभागवते । १० । ८ । ४८-५० ॥ वेणुविशेषः । यथा, -- “महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तमा वंशा मातङ्गमुनिसम्मताः ॥ दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ॥” इति सङ्गीतदामोदरः ॥ (मृदङ्गविशेषः । यथा, महाभारते । ७ । २२ । ८५ । “मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ ॥” स्कन्दस्यानुचरविशेषः । इति महाभारते । ९ । ४५ । ६१ ॥ नागविशेषः । इति महाभारते । ५ । १०३ । १२ ॥ यज्ञेश्वरस्यानुचरविशेषः । यथा, भागवते । ४ । ७ । २२ । “दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम् । सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥” धृतराष्ट्रस्य पुत्त्राणामन्यतमः । इति महा- मारतम् । १ । ६७ । ९६ । मदिरागर्भजातो वसुदेवस्य पुत्त्रविशेषः । इति भागवतम् । ९ । २४ । ४८ ॥ क्रौञ्चद्वीपस्य वर्षपर्व्वतविशेषः । इति भागवतम् । ५ । २० । २१ ॥ स्वनाम- ख्यातो दत्तकमीमांसाग्रन्थप्रणेता । यथा, -- “अभिवन्द्य जगद्बन्द्यपदद्बन्द्वविनायकम् । पुत्त्रीकरणमीमांसां कुरुते नन्दपण्डितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्द¦ पु॰ नन्द--भावे घञ्।

१ हर्षे आनन्दे

२ तदात्मके परमे-श्वरे च
“आनन्दो नन्दनो नन्दः” विष्णुसं॰।
“सर्वाभि-रुपपत्तिभिः समृद्धो नन्दः” भा॰। नन्दति मेघवर्षणात्नन्द--अच्।

३ भेके शब्दरत्ना॰।

४ क्षत्रियभेदे
“नव नन्दाभविष्यन्ति चाणक्यो यान् हनिष्यति” स्कन्दपु॰।
“महानन्दिसुतो राजन्! शूद्रागर्भोद्भवो बली। महा-पद्मपतिः कश्चित् नन्दः क्षत्रविनाशकृत्। ततो नृपाभविष्यन्ति शूद्रप्राया ह्यधार्मिकाः। स एकच्छत्रां पृथिवी-मनुल्लङ्घितशासनः। शासिष्यति महापद्मो द्वितीय इवभार्गवः। तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाःसुताः। य इमां भोक्ष्यन्ति महीं राजानश्च शतंसमाः। नव नन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति। तेषामभावे जगतीं मौर्य्या भोक्ष्यन्ति वै कलौ। स एवचन्द्रगुप्तं वै द्विजो राज्येऽमिषेक्ष्यति” भाग॰

१२ ।

१ ।


“नव नन्दान् नन्दं तत्पुत्रांश्चाष्टौ इत्येवं नव, प्रपन्नान्विश्वस्तान् विख्यातान् वा द्विजः कौटिल्यवात्स्यायनादि-पर्य्यायः चाणक्य उद्धरिष्यति उन्मूलयिष्यति” श्रीधरस्वामीविस्तरेण तत्कथा वृहत्कथायां दृश्या। तेषां सपुत्राणांनवसंख्यत्वेन तत्तुल्यसंख्याके

५ नवसंख्यायुक्ते च
“नन्दत्रिषड्लग्नभवर्क्षपुत्रव्यया इनाद्धर्षपदं स्वभोच्चम्” नी॰ ता॰

६ कुमारातुचरभेदे
“वृषो मेषप्रवाहश्च तथा नन्दो-पनन्दकौ” भा॰ श॰

४६ अ॰।

७ मृदङ्गभेदे
“मृदङ्गौचात्र विपुलौ दिव्यौ नन्दोपनन्दकौ” भा॰ द्रो॰

२३ अ॰।

८ धृतराष्ट्रपुत्रभेदे
“ऊर्णनाभः पद्मनाभस्तथा नन्दोप-नन्दकौ” भा॰ आ॰

६७ अ॰।

९ वसुदेवस्य मदिरायांजाते पुत्रभेदे
“पौरषी रोहिणी भद्रा मदिरा रोचनाइला। देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः।
“वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत्। सुभद्रोवहुवाहुश्च दुर्मदो भद्र एव च। पौरव्यास्तनया ह्येतेभूताद्या द्वादशाभवन्। नन्दोपनन्दकृतकशूराद्या मदि-रात्मजाः” भाग॰

९ ।

२४ ।

२४ ।

१० क्रौञ्चद्वीपस्थ वर्षपर्वतभेदे
“तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः। शुक्लो[Page3959-b+ 38] वर्द्धमानो भोजन उपवर्हणो नन्दो नन्दनः सर्वतोभद्र इति” भाग॰

५ ।

२० ।

१५ । तद्वर्षवर्णने

११ वेणुभेदे सङ्गीत-दामोदरः यथा
“महानन्दस्तथा नन्दो विजयोऽथ जय-स्तथा। चत्वार उत्तमा वंशा मातङ्गमुनिसम्मताः। दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः”। वसुनामकद्रोणावतारे ब्रजस्थिते

१२ गोपभेदे
“द्रोणो वसूनां प्रवरोधरया सह भार्य्यया। करिष्यमाण आदेशान् ब्रह्मण-स्तमुवाच ह। जातयोर्नौ महादेवे भुवि विश्वेश्वरेहरौ। भक्तिः स्यात् परमा लोके ययाञ्जोदुस्तरं तरेत्। अस्त्वित्युक्तः स एवेह व्रजे द्रोणो महायशाः। जज्ञेनन्द इति ख्यातो यशोदा सा धरा भवत्” भाग॰

१० ।

८ अ॰

१३ यज्ञेश्वरानुचरभेदे
“दक्षो गृहीतार्हणसादनोत्तमं यज्ञे-श्वरं विश्वसृजां परं गुरुम्। सुनन्दनन्दाद्यनुगैर्वृतं मुदागृणन् प्रपेदे प्रयतः कृताञ्जलिः” भाग॰

४ ।

७ ।

२२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्द¦ mf. (-न्दः-न्दी) Happiness, pleasure, felicity. m. (-न्दः)
1. One of KUVE4RA'S nine inestimable gems or treasure.
2. The cow- herd NANDA, the foster father of KRISHN4A.
3. A name of VISHN4U.
4. A prince, the son of MAHA4NANDI.
5. A flute, one eleven inches long. f. (-न्दा)
1. An earthen water jar.
2. The first, sixth, or eleventh day of the fortnight.
3. Prosperity, increase.
4. A husband's sister. f. (-न्दी) INDRA'S garden. f. (-न्दा or -न्दी) A name of DURGA
4. E. नदि to be prosperous or happy, affixes अच् and टाप् or भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दः [nandḥ], [नन्द्-भावे घञ्]

Happiness, pleasure, joy.

A kind of lute (11 inches long). (MW. 7 inches).

A frog.

N. of Viṣṇu.

N. of a cowherd, husband of Yaśodā and foster-father of Kṛiṣṇa (to whose care the child was committed when Kaṁsa wanted to destroy it).

N. of the founder of the Nanda dynasty; or of nine brother-kings of Pāṭaliputra killed by the machinations of Chāṇakya, the minister of Chandragupta; समुत्खाता नन्दा नव हृदयरोगा इव भुवः Mu. 1.13; अगृहीते राक्षसे किमुत्खातं नन्दवंशस्य Mu.1.27;3.28.

One of the nine treasures of Kubera.

Number 'nine' (from the nine Nandas.). -दी An epithet of Durgā. -Comp. -आत्मजः, -नन्दनः an epithet of Kṛiṣṇa-पालः an epithet of Varuṇa. -प्रयागः N. of a sacred place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्द m. joy , delight , happiness (also pl. ) AV. VS. etc.

नन्द m. (in mus.) a flute 7 inches long

नन्द m. N. of one of युधि-ष्ठिर's 2 drums MBh.

नन्द m. of one of कुबेर's 9 gems L.

नन्द m. a son (in गोप-add. ; See. नन्दन)

नन्द m. N. of विष्णुMBh.

नन्द m. of one of स्कन्द's attendants ib.

नन्द m. of a नागib.

नन्द m. (also -क)

नन्द m. of a Buddh. deity Lalit.

नन्द m. of an attendant on दक्षBhP.

नन्द m. of a son of धृत-राष्ट्र(also -क) MBh.

नन्द m. of a step-brother and disciple of गौतमबुद्धMWB. 441

नन्द m. of a son of वसु-देवPur.

नन्द m. of the foster-father of कृष्णand ancestor of दुर्गाMBh. Hariv. Pur. etc. (also -कL. )

नन्द m. of a leader of the सात्वतs BhP.

नन्द m. of a king of पाटलि-पुत्रand founder of a dynasty consisting of 9 successive princes HParis3. Pur. Katha1s. Pan5c. etc.

नन्द m. of the number 9 (because of the 9 नन्दs) Jyot.

नन्द m. of sev. scholars and authors Cat.

नन्द m. of a mountain BhP. (See. -पर्वतand नन्दि-गिरि)

नन्द n. a kind of house Gal.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an attendant on पुरुषोत्तम Vis2n2u (Hari); फलकम्:F1:  भा. II. 9. १४; X. ३९. ५३; ८९. ५७; VIII. २२. १५.फलकम्:/F praised Dhruva; फलकम्:F2:  Ib. IV. १२. २२.फलकम्:/F went with Hari going to पृथु's sacrifice; फलकम्:F3:  Ib. IV. १९. 5; VI. 4. ३९.फलकम्:/F attacked the Asuras, the followers of Bali. फलकम्:F4:  Ib. VIII. २१. १६.फलकम्:/F
(II)--a Mt. of क्रौञ्चद्वीप. भा. V. २०. २१.
(III)--a son of मदिरा and Vasudeva. भा. IX. २४. ४८; Br. III. ७१. १७१; वा. ९६. १६९; Vi. IV. १५. २३.
(V)--a king of the Nanda dynasty; फलकम्:F1:  भा. XII. 1. 9.फलकम्:/F from परीक्षित् to Nanda the period was १११५ years; At the time of Nanda the सप्तऋषिस् moved from Magha to पूर्वाषाढ. फलकम्:F2:  Ib. XII. 2. २६-7, ३२.फलकम्:/F
(VI)--the fourth son of मेधातिथि and founder of the Nanda Kingdom. Br. II. १४. ३६-9.
(VII)--a वानर chief. Br. III. 7. २३४.
(VIII)--a son of शूर and भोजा. M. ४६. 3.
(IX) city; Uragapati, in the third Tala or Vitalam. वा. ५०. २९.
(X)--an Ajitadeva. वा. ६७. ३४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nanda  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in left half of page p33_mci (+offset) in original book.

Nanda  : m.: Name of a drum (mṛdaṅga).

One of the two drums (the other being Upananda), of suitable size, producing sweet sound at the crest of the flag of Yudhiṣṭhira (yasya dhvajāgre nadato mṛdaṅgau nandopandau madhurau yuktarūpau) 3. 254. 6.


_______________________________
*2nd word in left half of page p109_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nanda  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in left half of page p33_mci (+offset) in original book.

Nanda  : m.: Name of a drum (mṛdaṅga).

One of the two drums (the other being Upananda), of suitable size, producing sweet sound at the crest of the flag of Yudhiṣṭhira (yasya dhvajāgre nadato mṛdaṅgau nandopandau madhurau yuktarūpau) 3. 254. 6.


_______________________________
*2nd word in left half of page p109_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नन्द&oldid=445575" इत्यस्माद् प्रतिप्राप्तम्