नन्दनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दनः, पुं, (नन्दयतीति । नन्द + ल्युः ।) पर्व्वत- भेदः । यथा, कालिकापुराणे ७५ अध्याये । “तीरे तु चन्द्रकुण्डस्य नन्दनो नाम वै गिरिः तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः ॥ मर्त्त्यभावं समासाद्य सर्व्वदेवेश्वरो हरिः । सेवितुं त्रिदशेशानीं सततं वर्त्तते नतः ॥ चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः । प्रतिदर्शं तथा चन्द्रं प्रदक्षिणयति त्रिधा ॥ चन्द्रकुण्डजले स्नात्वा समारुह्य च नन्दनम् । आराध्य शक्रं लोकेशं महाफलमवाप्नुयात् ॥” (विषविशेषः । इति हेमचन्द्रः । ४ । २६३ ॥ अत्रार्थे, पुं, क्ली, इति वाचस्पतिः ॥ यथा, सुश्रुते कल्पस्थाने २ अध्याये । “अन्त्रपाचककर्त्तरीयसौरीयककरघाटकरम्भ- नन्दनवराटकानि सप्त त्वक्सारनिर्य्यासविषाणि ॥” स्कन्दस्यानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ३६ । “बर्द्धनं नन्दनञ्चैव सर्व्वविद्याविशारदौ । स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ! ॥” सिद्धपुरुषविशेषः । यथा, भागवते । ४ । ६ । ३३ । “स नन्दनाद्यैर्महासिद्धैः शान्तैः संशान्त- विग्रहम् । उपास्यमानं सख्या च भर्त्त्रा गुह्यकरक्षसाम् ॥” जिनबलविशेषः । इति हेमचन्द्रः । ३ । ३६२ ॥ वत्- सरविशेषः । यथा, बृहत्संहितायाम् । ८ । ३८ । “नन्दनोऽथ विजयो जयस्तथा मन्मथोऽथ परतश्च दुर्म्मुखः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ७५ । “नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः ॥”) विष्णुः । यथा, “आनन्दो नन्दनो नन्दः ।” इति महाभारते । १३ । १४९ । ६९ ॥

नन्दनः, पुं, स्त्री, (नन्दयतीति । नन्द + ल्युः ।) सुतः । इति मेदिनी । ने, ८० ॥ (यथा, रघुः । ३ । ४१ । “अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥”) भेकः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=नन्दनः&oldid=143325" इत्यस्माद् प्रतिप्राप्तम्