नमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमः, [स्] व्य, (नम शब्दनत्योः + भावे असुन् ।) नतिः । इत्यमरः । ३ । ४ । १८ ॥ (यथा, मार्कण्डेये । “नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥” क्लीवलिङ्गेऽपि दृश्यते । यथा, भागवते । ३ । १३ । ४२ । “विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥”) त्यागः । रुतम् । इत्युणादिकोषः ॥ (क्ली, अन्नम् । इति निघण्टुः । २ । ७ ॥ वज्रम् । इति निघण्टुः । २ । २० ॥ स्तोत्रम् । यथा, ऋग्वेदे । ७ । १६ । १ । “एना वो अग्निं नमसोर्जो नपातमा हुवे ॥”)

"https://sa.wiktionary.org/w/index.php?title=नमः&oldid=143440" इत्यस्माद् प्रतिप्राप्तम्