नमस्कार

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्कारः, पुं, (नमः शब्दस्य कारः करणं यत्र ।) विषभेदः । इति शब्दचन्द्रिका ॥ (नमः करः णम् । नमस् + कृ + घञ् ।) नतिः । स च त्रिविधः । कायिकः वाचिकः मानसिकश्च । यथा, -- “कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः । नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः ॥” कायिकादिरपि त्रिविधो यथा, -- “प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ । जानुभ्यां धरणीं गत्वा शिरसा स्पृश्य मेदिनीम् ॥ क्रियते यो नमस्कार उत्तमः कायिकस्तु सः ॥ जानुभ्याञ्च क्षितिं स्पृष्ट्वा शिरसा स्पृश्य मेदिनीम् । पूर्ब्बवद्दण्डवद्भूमौ निपत्य हृदयेन तु । चिवुकेन मुखेनाथ नासया त्वलिकेन च ॥ ब्रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् । तदष्टाङ्ग इति प्रोक्तो नमस्कारो मनीषिभिः ॥ ६ ॥ प्रदक्षिणत्रयं कृत्वा साधको वर्त्तुलाकृतिः । ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यः स्यान्नमस्कृतौ । स उग्र इति देवीघैरुच्यते विष्णुतुष्टिदः ॥ ७ ॥ नदानां सागरो यादृग्द्विपदां ब्राह्मणो यथा । नदीनां जाह्नवी यादृग्देवानामिव चक्रधृक् । नमस्कारेषु सर्व्वेषु तथैवोग्रः प्रशस्यते ॥ त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः । चतुर्वर्गं लभेद्भक्तो न चिरादेव साधकः ॥ नमस्कारो महायज्ञः प्रीतिदः सर्व्वतः सदा । सर्व्वेषामपि देवानामन्येषामपि भैरव ! ॥ योऽसावुग्रो नमस्कारः प्रीतिदः सततं हरेः । महामायाप्रीतिकरः स नमस्करणोत्तमः ॥” इति कालीपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्कार¦ पु॰ नमस् + कृ--घञ्।

१ स्वापकर्षबोधकव्यापारे कर-शिरःसंयोगादौ

२ विषभेदे शब्दच॰। नमस्कारे अधिका-रिविशेषादिकं नानास्थानात् प्रदर्श्यते। अभिवादयेदि-त्यनुवृत्तौ शङ्खः
“नाप्रयतायाप्रयतश्च” इति शु॰ त॰।
“स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः” इति स्मृत्यर्थसारः।
“देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु सम्भ्रमात्। स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ। ब्राह्मणञ्चगुरुं दृष्ट्वा न नमेद्यो नराधमः। यावज्जीवनपर्य्य-न्तमशुचिर्यवनो भवेत्” इति ब्रह्मवै॰ जन्मस्य॰
“देव-तायतनं दृष्ट्वा दृष्ट्वा तु दण्डिनन्तथा। नमस्कारं नकुर्य्याद्यः प्रायश्चित्ती भवेन्नरः। सभायां यज्ञशालायांदेवतायतनेषु च। प्रत्येकन्तु नमस्कारो हन्ति पुण्यंपुराकृतम्। उपविश्य नमेत् शूद्रो दीर्घायुर्ब्राह्मणो व-देत्। स शूद्रो नरकं याति ब्राह्मणो यात्यधोगतिम्। दूरस्थं जलमध्यस्थं धावन्तं मदगर्वितम्। क्रोधवन्तंविजानीयात् नमस्कारञ्च वर्जयेत्। पुष्पहस्तो वारिहस्त-स्तैलाभ्यङ्गी जलस्थितः। आशीःकर्त्ता नमस्कर्त्ताउभयोर्नरकं भवेत्” कर्मलोचनम्।
“मातुः पितुःकनीयांसं न नमेद्वयसाधिकः। नमस्कुर्य्याद् गुरोःपत्नीं भ्रातृजायां विमातरम्” यमः।
“अभिवादयतः[Page3967-b+ 38] पूर्वमाशिषं न प्रयच्छति। यद्दुष्कृतं भवेत्तस्य तस्माद्भागंप्रपद्यते। स्वस्तीति ब्राह्मणे ब्रूयात् आयुष्मानिति रा-जनि। वर्द्धतामिति वैश्येषु शूद्रे त्वारोग्यमेव च” म॰ त॰
“गुरुपत्नी तु युवती नाभिवाद्येह पादयोः। पूर्णषोडश-वर्षेण गुणदोषौ विजानता” मनुः।
“कुर्वीत बन्दनं भूयोभगोवोहमिति ब्रुवन्। विप्रोष्य पादग्रहणमन्वहञ्चाभि-वादनम्। गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्। अभिवा-दनशीलः स्यान्नित्यं वृद्धेषु धर्मतः। असावहम्भो नामेतिसम्यक् प्रणतिपूर्वकम्। आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्जितः। आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभि-वादने। अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः। यो न वेत्त्यभिवादस्य द्विजः प्रत्यभिवादनम्। नाभि-वाद्यः स विदुषा यथा शूद्रस्तथैव सः। व्यत्यस्तपाणिनाकार्यमुप्रसंग्रहणं गुरोः। सव्येन सव्यः स्प्रष्टव्यो दक्षिणेनतु दक्षिणः। लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेववा। आददीत यतो ज्ञानं तं पूर्वमभिवादयेत्। ब्राह्म-णान् कुशलं पृच्छेत् क्षत्रबन्धूननामयम्। वैश्यं क्षेमंसमागम्य शूद्रमारोग्यमेव तु” मनुः। अभिवादनीयाश्च
“उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। बन्धुज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः। माता माता-मही गुर्वी पितुर्मातुश्च सोदरा। श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियाम्। इत्युक्तो गुरुवर्गोऽयंपितृतो मातृतो द्विजाः। अनुवर्त्तनमेतेषां मनोवाक्-कायकर्मभिः। गुरून् दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृता-ञ्जलिः” इति कूर्मपु॰

११ अ॰। अधिकं नतिशब्दे दृश्यम्।
“अयमेव नमस्कारो भूम्यादिप्रतिपत्तिभिः। प्रणाम इतिविज्ञेयः स पूर्वं प्रतिपादितः” कालिकापु॰

७० अ॰। रात्रौ-तन्निषेधो यथा
“रात्रौ नैव नमस्कुर्य्यात्तेनाशीरभिचा-रिका। अतः प्रातः पदं दत्त्वा प्रयोक्तव्ये च ते उभे” महाभारते।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्कार¦ m. (-रः)
1. Respectful or reverential address or salutation.
2. A sort of poison. f. (-री) A sensitive plant. E. नमस् bowing, and कार making, fem. affix अच० गौरा० ङीष्; or नमस् + कृ + घञ् |

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्कार/ नमस्--कार m. the exclamation " नमस्" , adoration , homage AV. Br.

नमस्कार/ नमस्--कार m. etc.

नमस्कार/ नमस्--कार m. a sort of poison L.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्कार स्त्री.
(नमस्+कृ+घञ्) छः मन्त्रों के समूह का नाम ‘नमो वः पितरो रसाय.......शूष्माय(शोषाय) ............. जीवाय............ स्वधायै......मन्यवे........ घोराय, श्रौ.को. (अं.) 1.483.

"https://sa.wiktionary.org/w/index.php?title=नमस्कार&oldid=500546" इत्यस्माद् पुनः प्राप्तिः