नरसिंह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरसिंहः, पुं, (नर इव सिंह इव च आकृति- र्यस्य ।) विष्णुः । इति शब्दरत्नावली ॥ स तु हिरण्यकशिपुवधार्थं भगवद्दशावतारान्तर्गत- श्चतुर्थः पूर्णावतारः । इति वराहपुराणम् ॥ (नरेषु सिंहः । नरः सिंह इव इत्युपमित- समासो वा ।) नरश्रेष्ठः । यदुक्तम् । “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥” इति विशेष्यनिघ्ने अमरः ॥ (यथा, महाभारते । १० । १० । १६ । “क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः । ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरसिंह¦ पु॰ नरएव सिंहः नरश्च सिंहश्चाकारेऽस्त्यस्य अच्वा। अर्द्धनराकारे अर्द्धसिंहाकारे

१ भगवच्छरीरभेदेतादृशशरीरग्रहणे कारणञ्च हरिवं॰

२३

१ अ॰ उक्तं यथा
“हिरण्यकशिपुरुवाच
“न देवासुरगन्धर्वा न यक्षो-रगराक्षसाः। न मानुषाः पिशाचा वा निहन्युर्मांकथञ्च न। ऋषयोनैव मां क्रुद्धाः सर्वलोकपिता-मह!। शपेयुस्तपसा युक्ता वर एष वृतो मया। नशस्त्रेण न चास्त्रेण गिरिणा पादपेन वा। न शुष्केणव चार्द्रेण स्यान्न चान्येन मे बधः। न स्वर्गेऽप्यथ पा-ताले नाकाशे नावनिस्थले। न चाभ्यन्तररात्र्यह्नोर्नचाप्यन्यत्र मे वधः। पाणिप्रहारेणैकेन सुमृत्यबल-वाहनम्। यो मां नाशयितुं शक्तः स मे मृत्युर्भवि-ष्यति” तथा वरप्राप्तौ हिरण्यकशिपुना जगतां निष्पीडनेकृते तद्बधाय दैवैः प्रार्थितो भगवान् नरसिंहरूपेणाव-ततार यथाह तत्रैवाध्याये(
“एवमुक्ता स भगवान् विसृज्य त्रिदिवौकसः। बधंसंकल्पयामास हिरण्यकशिपोः प्रभुः। सोऽचिरेणैव का-लेन हिमवत्पार्श्वमागतः। किं नु रूपं समास्थाय निह-न्म्येनं महासुरम्। यत् सिद्धिकरमाशु स्याद्बधस्य विबु-धद्विषः। अनुत्पन्नस्ततश्चक्रे सोत्पन्नो रूपमीवृशम्। ना-रसिंहमनाधृष्यं दैत्यदानवरक्षसाम्। सहायन्तु म-हाबाहुर्जग्राहोङ्कारमेव च। अथोङ्कारसहायो वैभगवान् विष्णुरच्युतः। हिरण्यकशिपोः स्थानं जगामप्रभुरीश्वरः। तेजसा भास्कराकारः कान्त्या चन्द्र इवा-परः। नरस्य कृत्वाऽर्द्धननुं सिंहस्यार्द्धतनुं तथा। नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना। ततोऽप-श्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम्”। ततस्तद्बकथा
“यदि दास्यस्यभिमतान् वरान् हे वरदोत्तम!। भूतेभ्य-स्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो!। नान्तर्बहिर्दिबानक्तमन्यस्मादपि चायुधैः। न भूमौ नाम्बरे मृत्युर्न[Page3977-a+ 38] नरैर्न मृगैरपि। व्यसुभिर्वाऽसुमद्भिर्वा सुरासुरमहोरगैः। अप्रतिद्वन्द्वतां युद्धे ऐक्यपत्यञ्च देहिनाम्” भाग॰

७ ।

३ ।

३४ एवं प्रार्थितवरप्राप्तौ स्वभ्रातृहिरण्याक्षहन्तरि विष्णौद्वेषात् तद्भक्तेऽपि प्रह्लादेऽतीव द्वेषेण तेन विरुद्धमाचरि-तम्। अनन्तरं च तेनोक्तः प्रह्लादः सर्वत्र विष्णोः स्थायित्वंप्रतिजज्ञे तेन स्तम्भेऽपि तत्सत्त्वमुक्तवान्। तच्छ्रुत्वा तेनस्तम्भताडने कृते तत्र प्रह्लादकथां सत्यां चिकीर्षुः भग-वान् नरसिंहरूपेण प्रादुर्वभूव यथाह(
“सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्चभूतेष्वखिलेषु चात्मनः। अदृश्यतात्यद्भुतरूपमुद्वहन्स्तम्भे सभायां न मृगं न मानुषम्। स सत्वमेवं परि-तोविपश्यत् स्तम्भस्य मध्यादनुनिर्जिहासनम्। नायंमृगो नापि नरोविचित्रमहो किमेतन्नृ मृगेन्द्ररूपम्। मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपं तदलं भया-नकम्। प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाके-शरजृम्भिताननम्। करालदंष्ट्रं करबालचञ्चलक्षुरान्तजिह्वं भृकुटीमुखोल्वणम्। स्तब्धोर्द्धकर्णं गिरिकन्दरा-द्भुतव्यात्तास्यनासं हनुभेदभीषणम्। दिविस्पृशत्काय-तदीर्घपीवरग्रीवोरुवक्षःस्थलमल्पमध्यमम्। चन्द्रांशुगोरै-म्छुरितं तनुरुहैर्विष्वग्भुजानीकशतं नखायुधम्” तं श्येनयेगं शतचन्द्रवर्म्मभिश्चरन्तमच्छिद्रमुपर्य्यधोहरिः। कृ-त्वाट्टहासं खरमुत्स्वनोल्वणं निमीलिताक्षं जगृहेमहाजवः। विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्व्यालोयथाखुं कुलिशक्षतत्वचम्। द्वार्य्यूरुमापात्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम्” भाग॰

७ ।

८ अ॰।
“द्वारि सभायां नान्तर्न बहिः” ऊरुं ऊरौ निपात्य न भूमौनचाम्बरे। नस्वैर्नच व्यसुभिरसुमद्भिर्वा। एवं दिवानक्तंपरिहाराय सायमिति द्रष्टव्यम्” श्रीधरस्वामी। नरसिं-हत्वं च तदीयदेहवृत्तिजातिभेदः यथोक्तं सि॰ मु॰
“अथवा चेष्टावदन्त्यावयविमात्रवृत्तिद्रव्यत्वव्याप्यव्याप्यजा-तिमत्त्वं तत् (शरीरत्वम्) मानुषत्वचैत्रत्वजातिमादायलक्षणसमन्वयः। न च नृसिंहशरीरे कथं लक्षणसम-न्वयः तत्र नृसिंहत्वस्यैकव्यक्तिवृत्तितया देवत्वस्वंवजातित्वाभावात् जलीयतैजसशरीरवृत्तितया देवत्वस्यजातित्वाभावादिति वाच्यं कल्पभेदेन नृसिंहशरीरस्यनानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात्”। नरःसिंह इव।

२ मानवश्रेष्ठे नरहरिनृसिंहादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरसिंह¦ m. (-हः) VISHN4U in his fourth Avata4r or descent, the lion- headed man.
2. A chief, a man of eminence or power. E. नर a man and सिंह a lion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरसिंह/ नर--सिंह m. " man-lion " , great warrior MBh. R.

नरसिंह/ नर--सिंह m. N. of विष्णुin his 4th अव-तार(when he was half -mman half -llion) Ka1v. Pur.

नरसिंह/ नर--सिंह m. N. of the father of king भैरवCat.

नरसिंह/ नर--सिंह m. of sev. princes and authors (also -कवि, -कवि-राज, -ठक्कुर, -दीक्षित, -देव, -पण्डित, -भट्ट, -मिश्र, -मुनि, -यति, -यती-न्द्र, -राज, -वाजपेयिन्(or हा-ग्निचिद्-वाज्) , -शास्त्रिन्, -सरस्वती, -सूरि, -सेन, नरसिंहा-चार्य) Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NARASIṀHA : See under Avatāra.


_______________________________
*8th word in right half of page 531 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नरसिंह&oldid=500556" इत्यस्माद् प्रतिप्राप्तम्