नरेन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरेन्द्रः, पुं, (नर इन्द्र इष नराणामिन्द्रो वा ।) राजा । (यथा, मनुः । ९ । २५३ । “रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥”) विषवैद्यः । इति मेदिनी । रे, १७१ ॥ (यथा, माघे । २ । ८८ । “सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥” वृक्षविशेषः । यथा, सुश्रुते चिकित्सितस्थाने । ९ अध्याये । “पूतीकार्कस्नुग्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च ॥” एकविंशत्यक्षरवृत्तिविशेषः । इति चिन्तामणिः ॥ यथा, -- “चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसङ्गतगन्धः । चारुसुवर्णकुण्डलयुगलकृतरोचिरलङ्कृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरेन्द्र¦ पु॰ नर इन्द्र इव।

१ नृपे

२ विषवैद्ये च मेदि॰।
“नरे-न्द्रकन्यास्तमवाप्य सत्पतिम्” रघुः
“सुनिग्रहा नरेन्द्रेणफणीन्द्रा इव शत्रवः” माघः

३ ग्रहादिनिबारकवैद्यभेदे
“तेषुकश्चिन्नरेन्द्राभिमानी मां निवर्ण्य मुद्रातन्त्रमन्त्रध्याना-दिभिश्चोपक्रम्याकृतार्थः” दशकुमा॰।
“सा च द्वारिकायक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य आ-यास्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रोनचास्ति सिद्धिरिति” दशकुमा॰।

४ एकविंशत्यक्षरपादकेवृत्तभेदे
“चामररत्नरज्ज्वुवरपरिगतविप्रगणाहित-शोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसङ्गतगन्धः। चारु सुवर्णकुण्डलयुगलकृतिरोचिरलङ्कृतवर्णः पिङ्ग-लपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः”। नरेश-नरेश्वरादयोऽपि नृपे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरेन्द्र¦ m. (-न्द्रः)
1. A king, an anointed sovereign.
2. A dealer in anti- dotes, a juggler. E. नर a man, इन्द्र chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरेन्द्र/ नरे m. " -mman-lord " , king , prince , Mn. MBh. etc.

नरेन्द्र/ नरे m. a physician , master of charms or antidotes Das3. (See. दुर्-न्)

नरेन्द्र/ नरे m. = नरे-न्द्र-द्रुमSus3r. (See. नरा-धिप)

नरेन्द्र/ नरे m. = वार्त्तिकor राजिकL.

नरेन्द्र/ नरे m. N. of a poet Cat.

नरेन्द्र/ नरे m. of another man Kshiti7s3.

नरेन्द्र/ नरे m. a kind of metre Col.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Candragupta Maurya. Br. III. ७४. १४३.

"https://sa.wiktionary.org/w/index.php?title=नरेन्द्र&oldid=431648" इत्यस्माद् प्रतिप्राप्तम्