नर्त्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्त्तकः, पुं, (नृत्यतीति । नृत् + “शिल्पिनि ष्वुन् ।” ३ । १ । १४५ । इति ष्वुन् ।) नटः । पोट- गलः । चारणः । केलकः । नटपर्य्यायः । सर्व्व- वेशी २ लयालम्बः ३ तालरेचनकः । इति शब्दरत्नावली ॥ द्विपः । इति हेमचन्द्रः ॥ नृत्यकर्त्तुर्लक्षणं यथा, -- “यादृशं नृत्यपात्रं स्याद्गीतं योज्यञ्च तादृशम् । नृत्यस्य धारणात् पात्रं नर्त्तकः परिकीर्त्तितः ॥” अपि च । “असम्बद्धप्रलापी च सदा भ्रूकुटितत्परः । हासप्रहासचतुरो वाचालो नृत्यकोविदः ॥” इति सङ्गीतदामोदरः ॥ (नर्त्तयतीति । नृत् + णिच् + ण्वुल् । नृत्यकारके, त्रि । यथा, साहित्यदर्पणे ३ परिच्छेदे । “तर्को विचारः सन्देहात् भ्रूशिरोऽङ्गुलि- नर्त्तकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्त्तक¦ त्रि॰ नृत्यति नृत--गात्रविक्षेपे
“शिल्पिनि ष्वुन्” पा॰कर्त्तरिष्वुन्। जीविकार्थं गात्रविक्षेपभेदनृत्यकारके
“भ्रु-कुंसश्च भ्रूकुंसश्च भ्रकुंसश्चेति नर्त्तकः” अमरः। स्त्रियांवित्त्वात् ङीष्।
“रङ्गाय दर्शयित्वा निवर्त्तते नर्त्तकी यथानृथात्” सा॰ का॰
“नर्त्तकीवत् प्रवृत्तस्य निवृत्तिश्चारिता-र्थ्यात्” सा॰ सू॰।

२ शिवे पु॰ नर्त्तशब्दे दृश्यम्।

३ सङ्कीर्णजातिमात्रे पुंस्त्री॰
“वेश्यायां रञ्जकाज्जातो नर्त्तकोगायको भवेत्” उशनाः। नर्त्तयति नृत--णिच् ण्वुल्।

४ अङ्गुल्यादेश्चालके।
“तर्कोविचारः सन्देहात् भ्रूशिरो-ऽङ्गुलिनर्त्तकः” सा॰ द॰। नृत--पचा॰ अच् संज्ञायां कन्।

५ नलतृणे पोटगले

६ चारणे

७ केलके च शब्दरत्ना॰

८ गजे

९ नृपे हेम॰।

१० करेणौ हस्तिन्यां स्त्री मेदि॰

११ नलिकानामगन्धद्रव्ये स्त्री राजनि॰। नृत्यकर्त्तुर्लक्षणंसङ्गीतशास्त्रोक्तं यथा
“यादृशं नृत्यपात्रं स्याद्गीतंयोज्यञ्च तादृशम्। नृत्यस्य धारणात् पात्रं नर्त्तकःपरिकीर्त्तितः”
“असम्बद्धप्रलापी च सदा भ्रुकुटित-त्परः। हासप्रहासचतुरो वाचालो नृत्यकोविदः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्त्तक¦ m. (-कः)
1. An actor, a mime.
2. A juggler, a dancer, a player of any description.
3. A bard, a herald.
4. An elephant.
5. A reed, (Arundo karka, Rox.)
6. A peacock. f. (-की)
1. An actress, female dancer or singing girl.
2. A female elephant.
3. A peahen. E. नृत् to dance or act, ष्वुन् aff.

"https://sa.wiktionary.org/w/index.php?title=नर्त्तक&oldid=344568" इत्यस्माद् प्रतिप्राप्तम्