नवतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवतिः, स्त्री, (नव दशतः परिमाणमस्य । “पङ्क्ति- विंशतित्रिंशदिति ।” ५ । १ । ५९ । इति निपा- तनात् साधुः ।) संख्याविशेषः । इति शब्द- रत्नावली ॥ ९० नव्वै इति भाषा ॥ (यथा, रघुः । ३ । ६९ । “इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥” नवतिसंख्यान्विते च । यथा, मनुः । ३ । १७७ । “वीक्ष्यान्धो नवतेः काणः षष्ठेः श्वित्री शतस्य तु । पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवतिः [navatiḥ], f. Ninety; नवनवतिशतद्रव्यकोटीश्वरास्ते Mu.3. 27; R.3.69.

"https://sa.wiktionary.org/w/index.php?title=नवतिः&oldid=345816" इत्यस्माद् प्रतिप्राप्तम्