नवम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवमः, त्रि, (नवन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । ततो “नान्ताद- संख्यादेर्म्मट् ।” ५ । २ । ४९ । इति डटो मट् ।) नवानां पूरणः । इति व्याकरणम् ॥ नयै इत्यादि भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवम¦ त्रि॰ नवानां पूरणः नान्तत्वात् डटि मः। नवसङ्ख्या-पूरणे।

१ लग्नावधिनवमराशौ

२ तद्भावे च तड्वावश्चतन्वादिद्वादशभावोक्तदिशावसेयः। स्त्रियां ङीष्।
“नवमीतुहिनप्रभा” पताकासन्निवेशे कुण्डो{??}तः।
“अर्यम्णोनवमी”
“पुष्णो नवमी” यजु॰

२५ ।

४ ।

५ नवमी पक्ष-तिरर्यमदेवत्या पूषदेवत्या च तदर्थः। चन्द्रस्य स्वस्मिन्सूर्यकिरणप्रवेशयोग्यायां नवमकलाक्रियारूपायां तदुपल-क्षितकालरूपायां वा

४ तिधौ। उभयदिने तत्प्राप्तौ कस्याःकर्मयोग्यतेति सन्देहे तन्निर्णय उक्तः कालमा॰ यथा
“अथ नवमी निर्णीयते। सा च विधिनिषेधरूपाभ्याम-न्वयव्यतिरेकाभ्यां पूर्वविद्धैव ग्राह्या। तत्र विधिश्च युग्मा-दिशास्त्रे
“वसुरन्ध्रयोरिति” पव्यते। पद्मपुराणेऽपि
“अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता। अर्द्ध-[Page3992-a+ 38] नारीश्वरप्राया उमामाहेश्वरी तिथिः”। भविष्यत्-पुराणे द्वादशीकल्पेऽपि
“नवम्या सह कार्य्या स्यादष्टमीनवमी तयेति”। निषेधस्तु पद्मपुराणेऽभिहितः
“नकार्य्या नवमी तात! दशम्या तु कदाचनेति”। सेयंनवमी भविष्यत्पुराणोक्तव्रतादौ द्रष्टव्या।
“ननुकृष्णनवम्याः पूर्वविद्धत्वऽपि शुक्लनवमी परविद्धाऽस्तु।
“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविरिति” वच-नात् मैवम् पूर्वोक्तेषु वचनेषु दशमीविद्धायाः साक्षान्नि-षेधात्। ननु तस्य निषेधस्य सामान्यरूपत्वात् कृष्णपक्षेसङ्कोचोऽस्त्विति चेत् न सङ्कोचहेतोर्भवतोदाहृतस्थापिसमान्यरूपत्वात्। पक्षयोरुभयोरपि पूर्वविद्वैव ग्राह्या। रामनवमी तु
“चैत्रशुद्धा तु नवमी पुनर्वसुयुता यदि। सैव मध्याह्नयोगेन महापुण्यतमा भवेत्। नवमी चा-ष्टमीविद्धा त्याज्या विष्णुपरायणैः। उपोषणं नवम्यांवै दशम्यां पारणं भवेदिति” वचनादष्टमीविद्धा सनक्ष-त्रापि नोपोष्या” इति भेदः।
“सा आष्टमीयुता ग्राह्यायुस्मात्। भविष्ये
“मासैश्चतुर्भिर्यत् पुण्यं विथिनापूज्यचण्डिकाम्। तत्फलं लभते वीर! नवम्यां कार्त्तिकस्यच। तथा
“नवम्यां नव वर्षाणि राजन् पिष्टाशनो भवेत्। तस्य तुष्टा भवेद्गौरी सर्वकामप्रदा शुभा”
“भावे भासितु या शुक्ला नवमी लोकपूजिता। महानन्देति साप्रोक्ता सदानन्दकरी नृणाम्। स्नानं दानं तपो होमोदेवार्चनमुपोषणम्। सर्वं तदक्षयं याति यदस्यां क्रियतेनरैः” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवम¦ mfn. (-मः-मी-मं) Ninth. f. (-मी) The ninth day of a lunar half month. E. नव nine, and डढि-मट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवम [navama], a. (-मी f.) Ninth. -मी The ninth day of a lunar fortnight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवम/ नव--म mfn. = नवतमRV. v , 57 , 3 ( Sa1y. )

नवम mf( ई)n. the ninth AV. etc. (See. 1. नवमunder 1. नव)

नवम mf( ई)n. of 9 kinds , ninefold Hcat.

"https://sa.wiktionary.org/w/index.php?title=नवम&oldid=346159" इत्यस्माद् प्रतिप्राप्तम्