नष्टचन्द्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नष्टचन्द्रः, पुं, (नष्टो दुष्टश्चन्द्रः ।) सौरभाद्रस्यो- भयपक्षे चतुर्थ्यामुदितश्चन्द्रः । यथा, -- “नष्टश्चन्द्रो न दृश्यश्च भाद्रे मासि सितासिते । चतुर्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः ॥ चन्द्रस्तारापहरणं कलङ्कमतिदुष्करम् । तस्मै ददाति हे नन्द ! कामतो यदि पश्यति ॥ अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत् । तदा शुद्धो भवेत् सद्यो निष्कलङ्की महीतले ॥ ‘सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक ! मारोदीस्तव ह्येष स्यमन्तकः ॥’ इति मन्त्रेण पूतश्च जलं साधुः पिबेद्ध्रुवम् ॥ पुरा तारा गुरोः पत्नी नवयौवनसंयुता । रत्नभूषणभूषाढ्या रत्नसूक्ष्माम्बरा सती ॥ सुश्रोणी सुस्मिता रम्या सुन्दरी सुमनाहरा । अतीवकवरीरम्या मालतीमाल्यभूषिता ॥ सिन्दूरविन्दुना साकं चारुचन्दनविन्दुभिः । कस्तूरीविन्दुनाधश्च भालमध्यस्थलोज्ज्वला ॥ रत्नेन्द्रसारनिर्म्माणक्वणन्मञ्जीररञ्जिता । सुवक्रलोचना श्यामा सुचारुकज्जलोज्ज्वला ॥ सुचारुचारुमुक्ताभदन्तपङ्क्तिमनोहरा । रत्नकुण्डलयुग्मेन चारुगण्डस्थलोज्ज्वला ॥ कामिनीष्वतुला बाला गजेन्द्रमन्दगामिनी । सुकोमला चन्द्रमुखी कामाधारा च कामुकी ॥ स्वर्गमन्दाकिनीतीरे स्नाता स्निग्धाम्बरा वरा । ध्यायन्ती गुरुपादं सा स्वगृहं गमनोन्मुखी ॥ दृष्ट्वा तस्याश्च सर्व्वाङ्गमनङ्गवाणपीडितः । भाद्रे चतुर्थ्याञ्चन्द्रश्च जहार चेतनं व्रज ! ॥ ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली । रथमारोहयामास करे धृत्वा च तारकाम् ॥ कामोन्मत्तः कामिनीन्तां समाश्लिष्य चुचुम्ब सः । शृङ्गारं कर्त्तुमुद्यन्त तमुवाच गुरुप्रिया ॥ उवाच च महादेवो निर्भयं देवसंसदि ॥ महादेव उवाच । स्वस्थानं गच्छ पुत्त्र ! त्वं कुरु स्वविषयं मुदा । पश्चात् श्वशुरशापेन यक्ष्मग्रस्तो भविष्यसि ॥ व्यर्थं पतिव्रताशापं कर्त्तुमीशश्च को भुवि । ममाशिषा यक्ष्मणश्च प्रतिकारो मविष्यति ॥ यस्माद्भाद्रचतुर्थ्यान्तु गुरुपत्नी क्षता कृता । तस्मात्तस्मिन्दिने वत्स ! पापदृश्यो युगे युगे ॥ मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म्म शुभाशुभम् ॥ देहत्यागेन हे वत्स ! कर्म्मभोगो न नश्यति । प्रायश्चित्तान्न सन्देहो ह्यस्तमेव भविष्यति ॥ तारापहरणं वत्स ! कलङ्कश्चन्द्रमण्डले । मृगाकृतं विलग्नञ्च मविष्यति युगे युगे ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८०-८१ अः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नष्टचन्द्र¦ पु॰ नष्टः दुष्टश्चन्द्रः। सौरभाद्रमासे उभयपक्षीयचतुर्थ्यामुदिते चन्द्रे तस्य तद्दिवसे दुष्टत्वकारणं ब्रह्म-वै॰ पु॰
८० अ॰ उक्तं यथा(
“नष्टश्चन्द्रो न दृश्यश्च भाद्रे मासि सितासिते। चतु-र्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः। चन्द्रस्तारा-पहरणं कलङ्कमतिदुष्करम्। तस्मै ददाति हे नन्द!कामतो यदि पश्यति। अकामतो नरो दृष्ट्वा मन्त्र-पूतं जलं पिबेत्। तदशुद्धो भवेत् सद्यो निष्कलङ्कीमहीतले। सिंहः प्रसेनमबधीत् सिंहो जाम्बवता हतः। सुकुमारक! मा रोदीस्तव ह्येष स्यमन्तकः। इतिमन्त्रेण पूतञ्च जलं साधु पिबेद्ध्रुवम्” इत्युपक्रमे
“दृष्ट्वातस्याश्च (तारायाः) सर्व्वाङ्मनङ्गवाणपीडितः। माद्रेचतुर्थ्याञ्चन्द्रश्च जहाराचेतनां व्रजन्। ज्ञानं क्षणेन संप्राप्यरथस्थो रसिको बली। रथमारोहयामास करे धृत्वाच तारकाम्। कामोन्मत्तः कामिनीन्तां समाश्लिष्यचुचुम्ब सः
“यस्मात्तस्मिन् दिने वत्स! पापदृश्योयुगे युगे। मा भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्। देहत्यागेनहे वत्स! कर्मभोगो न नश्यति। प्रायश्चित्तान्न सन्देहोह्यस्तमेव भविष्यति। तारापहरणं वत्स! कलङ्कश्चन्द्र-मण्डले। मृगकृतं विलग्नञ्च भविष्यति युगे युगे”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नष्टचन्द्र¦ m. (-न्द्रः) The moon on the fourth lunation of either half of Bha4dra. E. नष्ट, and चन्द्र the moon: it is is very unlucky to see the moon on these days.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नष्टचन्द्र/ नष्ट--चन्द्र m. " moonless " , N. of the 4th day in both halves of भाद्रL.