नाकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाकः, पुं, (न कं सुखमिति अकं दुःखम् । तन्नास्त्य- त्रेति ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, भट्टिः । १ । ४ । “सन्तर्पणो नाकसदां वरेण्यः ॥” नभः । इति निघण्टुः । १ । ४ ॥ यथा, महा- भारते । १ । १७२ । ६ । “य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा ॥” क्ली, अस्त्रजातिविशेषः । यथा, महाभारते । ५ । ९६ । ४० । “काकुदीकं शुकं नाकमक्षिसन्तज्जनं तथा । सन्तानं नर्त्तकं घोरमास्यमादकमष्टमम् ॥ एतैर्विद्धाः सर्व्व एव मरण यान्ति मानवाः ॥” क्षत्त्रियजातिविशेषः । यथा, वायुपुराणे । “नव नाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=नाकः&oldid=143726" इत्यस्माद् प्रतिप्राप्तम्