नागवल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागवल्ली, स्त्री, (नाग इव दीर्धा वल्ली लता ।) ताम्बूली । इत्यमरः । २ । ४ । १२० ॥ अस्याः पर्य्यायास्ताम्बूलवल्लीशब्दे गुणाश्च ताम्बूलशब्दे द्रष्टव्याः । सा च श्रीवाटाम्लवाटादिनानाग्रामस्थ- स्थानभेदादेव भिन्ना । “एकाप्येषा देशमृत्स्नावशषा- न्नानाकारं याति काये गुणे च ॥ श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा । रसाढ्या च रसा रुच्या विपाके शिशिरा स्मृता ॥ स्यादम्लवाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककर्त्री । विदाहपित्तासविकोपनी च विष्टम्भदा वातनिवर्हणी च ॥ सप्तमी मधुरा तीक्ष्णा कटुरुष्णा च पाचनी । गुल्मोदराघ्मानहरा रुचिकृद्दीपनी परा ॥” अन्यच्च । “गुहागरे सप्तशिरा प्रसिद्धा तत्पर्णचूर्णातिरसातिरुच्या । सुगन्धितीक्ष्णा मधुरातिहृद्या सन्दीपनी पुंस्त्वकरा च बल्या ॥ विरेचनी वक्त्रसुगन्धिकारिणी । नाम्ना याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत् पित्तोद्रेकहरासुदीपनकरी बल्यामुखामोदिनी । स्त्रीसौभाग्यविवर्द्धिनी मदकरी ज्ञेया सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता सा मालवे तु स्थिता ॥ अन्ध्रि पुष्कलिका नाम कषायोष्णा कटुस्तथा । मलापकर्षा कण्ठस्य पित्तहृद्बातनाशिनी ॥ द्वैषणीया कटुस्तीक्ष्णा हृद्या दीर्घदला च सा । कफवातहरा रुच्या कटुदीपनपाचनी ॥” इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागवल्ली स्त्री।

नागवल्ली

समानार्थक:ताम्बूलवल्ली,ताम्बूली,नागवल्ली

2।4।120।1।3

ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा। हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागवल्ली¦ स्त्री नाग इव दीर्घा वल्ली। ताम्बूलवल्ल्याम्अमरः। सा च देशभेदात् मृत्तिकाभेदेन नानाकारगुणायथोक्तं राजनि॰
“एकाप्येषा देशमृत्स्नाविशेषान्नाना-कारं याति काये गुणे च” इत्युपक्रमे
“श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा। रसाढ्यासुरसा रुच्या विपाके शिशिरा स्मृता। स्य दम्लवाटोकटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुस्वपाककर्त्री। विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिर्वहणी च। सप्तमी मधुरा तीक्ष्णा कटुरुष्णा च पाचनी। गुल्मो-दराध्मानहरी रुचिकृद्दीपनी परा” अन्यच्च
“गुहागरेसप्तसिरा प्रसिद्धा तत्पर्णचूर्णातिरसातिरुच्या। सुगन्धितीक्ष्णा मघुरातिहृद्या सन्दीपनी पुंस्त्वकरी च बल्या”
“नाम्ना याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत्पित्तोद्रेकहरी सुदीपनकरी बल्या मुखामोदिनी। स्त्रीसौभाग्यविवर्द्धिनी मदकरी ज्ञेया सदा वल्लभा गुल्-माध्मानविबन्धजिच्च कथिता सा मालवे तूत्थिता। अन्ध्रि-पुष्कलिका नाम कषायोष्णा कटुस्तथा। मलापकर्षाकण्ठस्य पित्तहृद्वातनाशिनी। द्वैषणीया कटुस्तीक्ष्णाहृद्या दीर्घदला च सा। कफवातहरी रुच्या कटुर्दीपनपाचनी” स्वार्थे क। नागवल्लिकाऽप्यत्र
“पर्णमूलेभवेद् व्याधिः पर्णाग्रे पापसम्भवः। जीर्णपर्णं हरे-दायुः सिरा बुद्विप्रणाशिनी” आह्नि॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागवल्ली¦ f. (-ल्ली) The betel plant, (Peper betel.) E. नाग the infernal Na4ga, and वल्ली a creeper; the creeper of the lower regions; also with कन् added नागवल्लिका |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागवल्ली/ नाग--वल्ली f. id. R. (also लिS3is3. ix , 35 , लिकाL. )

नागवल्ली/ नाग--वल्ली f. N. of wk. (also 605123 -कल्प, m. )

"https://sa.wiktionary.org/w/index.php?title=नागवल्ली&oldid=348802" इत्यस्माद् प्रतिप्राप्तम्