नाटक
नाटकसन्धयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाटकम्, क्ली, (नाटयतीति । नट + णिच् + ण्वुल् ।) गद्यपद्यप्राकृतभाषादिमयग्रन्थविशेषः । तत्- पर्य्यायः । महारूपकम् २ । इति त्रिकाण्ड- शेषः ॥ तस्य लक्षणं यथा, -- “नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम् । विलासर्द्ध्यादिगुणवत् युक्तं नानाविभूतिभिः ॥ सुखदुःखसमुद्भूतिनानारससमन्वितम् । पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ॥ प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गणवान्नायको मतः ॥ एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्व्वे कार्य्यं निर्व्वहणेऽद्भुतम् ॥ चत्वारः पञ्च वा मुख्याः कार्य्यव्यापृतपूरुषाः । गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्त्तितम् ॥” इति साहित्यदर्पणे । ६ । २७७ ॥ अपि च । “नाटकं स्यात् प्रकरणं व्यायोगोऽङ्कस्तथा डिमः । ईहामृगः प्रहसनं भानः समरकारकः ॥ वीथीति भरतः प्राह नाट्येषु दशरूपकम् । नाटिका प्रेक्षणञ्चैव त्रोटकं शाकटं तथा ॥ गोष्टीसंलापशिल्पानि भानीहल्लीशरासकौ । उल्लापकं श्रीगदितं प्रस्थानं नाट्यरासकम् ॥ दुर्म्मल्लिका लासिका च काव्यञ्चेत्युपरूपकम् । स्यात सप्तदश संख्यन्तु लक्षणस्तत्र कथ्यते ॥ प्रख्यातोत्तमनायकं रसमयं राजर्षिवंशोद्भवं साङ्कं भङ्गजयान्वितं लयमयं तत्तत्पुराणाश्रयम् । भाषावैभवसुन्दरं प्रविलसन्नानाविलासं बलद्- वृत्तिव्याप्तमशेषसन्धिसहितं सप्ताङ्गवन्नाटकम् ॥” अन्ये तु । “देवतानां मनुष्याणां राज्ञां लोके महात्मनाम् । पूर्ब्बवृत्तानुचरितं प्रख्यातोदात्तनायकम् ॥ प्रवेशकविविष्कम्भादिभिः सन्धिभिरन्वितम् । इतिहासकथोद्भूतं सुखदुःखोदयैर्युतम् ॥ षट्पञ्चदशसप्ताष्टनवाङ्कैरनुभूषितम् । नानाविलासलीलाभिः सर्व्वसिद्धिभिरन्वितम् ॥ नानाभावरसैराढ्यं नाटकं सूरयो विदुः । किञ्चिदङ्गविहीनन्तु न त्याज्यं नाटकं क्वचित् ॥ आरम्भश्च प्रयत्नश्च प्राप्तिः सम्भव एव च । नियता च फलप्राप्तिः फलयोगस्तथापरः ॥ इत्यवस्थाप कं स्यात् नाटके कार्य्यवस्तुनः । संस्कृतं प्राकृतं भूतभाषाप्रभ्रंशिका गिरः । नाटके नियताः शस्ता एषा भाषा रसावहा ॥ भाषाविभाषाभेदेन प्राकृतन्तु चतुर्द्दश ॥ मागध्यावन्तिका प्राच्या शौरसेन्यर्द्धमागधी । वाह्लीका दाक्षिणात्याश्च भाषाः सप्त च प्राकृते ॥ शकाराभीरचाण्डालशवरद्रविडौड्रजाः । वनौकसीविज्रातीनां विभाषाः सप्त कीर्त्तिताः ॥ कैकेयी शौरसेनी च काञ्ची पाञ्चालमागधी । द्राविडी पाण्डुदेशी च भूतभाषा प्रकीर्त्तिताः ॥ वैदर्भी मागधी नाटी काम्बोजी चोपनागरी । पाञ्चाली षडपभ्रंशभाषा स्युर्द्देशभेदतः ॥ देवतादर्शनान्तञ्च कर्त्तव्यं नाटकं बुधैः । राजर्षिदर्शनान्तं या तेऽपि देवैः समा मताः ॥ उदाहरणम् । मुरारिकवेरनर्घराघवं भवभूते- रुत्तररामचरितं कालिदासस्याभिज्ञानशकु- न्तलञ्चेत्यादि । इति नाटकलक्षणम् ।” इति सङ्गीतदामोदरः ॥
नाटकः, पुं, (नट्यते नृत्यते देवयोनिभिरत्र । नट + घञ् । ततः स्वार्थे कन् । यद्बा, नाटयतीति नट + णिच् + ण्वुल् ।) कामाख्यास्थपर्व्वतभेदः । यथा, -- “ऐशान्यां नाटके शैले शङ्करस्य महाश्रमम् । नित्यं वसति तत्रेशस्तदधीना तु पार्व्वती ॥” इति कालिकापुराणम् ॥ (नाटकशाला । यथा, रामायणे । १ । ५ । १२ । “बधूनाटकसङ्घैश्च संयुक्तां सर्व्वतः पुरीम् ॥” नटतीति । नट + ण्वुल् ।) नर्त्तके, त्रि । इति व्याकरणम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाटक¦ त्रि॰ नट--ण्वुल्।
१ नर्त्तके स्त्रियां टप्। कामाख्यापर्वतान्तिकस्थे
२ पर्वतभेदे।
“ऐशान्यां नाटके शैलेशङ्करस्य महाश्रमम्। नित्यं वसति तत्रेशस्तदधीना तुपार्वती” कालिकापु॰।
३ दृश्यकाव्यरूपे रूपकभेदे न॰। तद्भेदलक्षणादिकं सा॰ द॰ उक्तं यथा
“नाटकमथ प्रकरणम् भाणव्यायोगसमवकारडिमाः। ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश। किञ्च,
“नाटिकां त्रोटकं गोष्ठी सट्टकं नाट्यरासकम्। प्रस्थानो-ल्लाप्यकाव्यानि प्रेङ्क्षणं रासक तथा। संलापकं श्री-गदितं शिल्पक्तञ्च विलासिका। दुर्मल्लिका प्रकरणीहल्लीशो माणिकेति च। अष्टादश प्राहुरुपरूपकाणिमणीपिणः। विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्”। सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणाञ्च। तत्र।
“नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम्। विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभिः। सुख-दुःखसमुद्भूति नानारसनिरन्तरम्। पञ्चादिका दश-परास्तत्राङ्काः परिकीर्त्तिताः। प्रख्यातवंशो राज-र्षिर्धीरोदात्तः प्रतापवान्। दिव्योऽथ दिव्यादिव्योवा गुणवान्नायको मतः। एक एव भवेदङ्गी शृङ्गारोवीर एव वा। अङ्गमन्ये रसाः सर्वे कार्य्यनिर्वहणेऽद्भु-तम्। चत्वारः पञ्च वा मुख्याः कार्य्यव्यापृतपूरुषाः। गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्तितम्”।
“देवतोनांमनुष्याणां राज्ञां लोके महात्मनाम्। पूर्ववृत्तानुचारतंप्रख्यातोदात्तनायकम्। प्रवेशकविविस्कम्भादिभिः सन्धि-भिरन्वितम्। इतिहासकथोद्भूतं सुखदुःखदयै-[Page4019-a+ 38] र्युतम्। षट्पञ्चदशसप्ताष्टनवाङ्कैरनुभूषितम्। नाना-विलासलीलाभिः सर्वसिद्धिभिरन्वितम्। नानाभावरसैराढ्यं नाटकं सूरयो विदुः। किञ्चिदङ्गविहीनन्तुन त्याज्यं नाटकं क्वचित्। आरम्भश्च प्रयत्नञ्च प्राप्तिःसम्भव एव च। नियता च फलप्राप्तिः फलयोगस्तथापरः। इत्यवस्थापञ्चकं स्यात् नाटके कार्य्यवस्तुनः। संस्कृतं प्राकृतं भूतभाषापभ्रंशिका गिरः। नाटकेनियताः शस्ता एषा भाषा रसावहा। भाषाविभाषा-भेदेन प्राकृतन्तु चतुर्दश। मागध्यावन्तिका प्राच्याशौरसेन्यर्द्धमागधी। वाह्लीका दाक्षिणात्याश्च भाषाःसप्त च प्राकृते। शकाराभीरचाण्डालशवरद्रविडौड्रजाः। वानौकसी विजातीनां विभाषाः सप्त कीर्त्तिताः। कैकेयीशौरसेनी च काञ्ची पाञ्चालमागधी। द्राविडी पाण्डु-देशी च भूतभाषाः प्रकीर्त्तिताः। वैदर्भी मागधीनाटी काम्बोजी चोपनागरी। पाञ्चाली षडपभ्रंश-भाषाः स्युर्देशभेदतः। देवतादर्शनान्तञ्च कर्त्तव्यंनाटकं बुधैः। राजर्षिदर्शनान्तं वा तेऽपि देवैः समामताः”। उदाहरणम्
“मुरारिकवेरनर्घराघवं भवभूते-रुत्तरचरितं कालिदासस्याभिज्ञानशकुन्तलञ्च” सङ्गीतदा॰। तच्च यथा कर्त्तव्यं नाटकादिविभागमुक्त्वा अग्निपु॰
३३
७ अ॰ तथा निरूपितं यथा
“सामान्यञ्च विशेषश्च लक्षणस्य द्वयी गतिः। सामान्यंसर्वविषयं शेषः क्वापि प्रवर्त्तते। पूर्वरङ्गे निवृत्ते द्वौदेशकालावुभावपि। रसभावविभावानुभावा अभिनय-स्तथा। अङ्कः स्थितिश्च सामान्यं सर्वत्रैवोपसर्पणात्। विशेषोऽवसरे वाच्यः सामान्यं पूर्वमुच्यते। त्रिवर्ग-साधनन्नाट्यमित्याहुः करणञ्च यत्। इतिकर्त्तव्यतातस्य पूर्वरङ्गो यथाविधि। नान्दीमुखानि द्वात्रिंश-दङ्गानि पूर्बरङ्गके। देवतानां नमस्कारो गुरूणामपिच स्तुतिः। गोब्राह्मणनृपादीनामाशीर्वादादि गीयते। नान्द्यन्ते सूत्रधारोऽसौ रूपकेषु निबध्यते। गुरुपूर्वक्रमंवंशप्रशंसा पौरुषं कवेः। सम्बन्धार्थौ च काव्यस्य पञ्चै-तानेष निर्दिशेत्। नटी विदूषको वापि पारिपार्श्विकएव वा। सहिताः सूत्रघारेण संलाप यत्र कुर्वते। चित्रैर्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्मिथः। आमुखंतत्तु विज्ञेयं बुधैः प्रस्तावनापि सा। प्रवृत्तकं कथोद्घातःप्रयोगातिशयस्तथा। आमुखस्य त्रयो भेदा वीजांशेषूप-जायते। कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत्। [Page4019-b+ 38] तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवृत्तकम्। सूत्रधारस्यवाक्यं वा यत्र वाक्यार्थमेवात्वा। गृहीत्वा प्रविशेत्पात्रं कथोद्द्वातः स उच्यते। प्रयोगेषु प्रयोगन्तु सूत्र-धृग्यत्र वर्णयेत्। ततश्च प्रविशेत् पात्रं प्रयोगातिशयोहि सः। शरीरं नाटकादीनामितिवृत्तं प्रचक्षते। सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदावुभौ स्मृतौ। सिद्धमागम-दृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः। वीजं विन्दुः पताका चप्रकरी कार्य्यमेव च। अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपिक्रमात्। प्रारम्लश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च। नियता च फलप्राप्तिः फलयोगश्च पञ्चमः। मुखं प्रति-मुखं गर्भो विमर्षश्च तथैव च। तथा निर्वहणञ्चेतिक्रमात् पञ्चैव सन्धयः। अल्पमात्रं समुद्दिष्टं बहुधायत् प्रसर्पति। फलावसानं यच्चैव वीजं तदभिधीयते। यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा। काव्ये शरीरानु-नतं तन्मुखं परिकीर्त्तितम्। इष्टस्यार्थस्य रचना वृत्तान्त-स्यानुपक्षयः। रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूह-नम्। आश्चर्य्यवदभिख्यातं प्रकाशानां प्रकाशनम्। अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च। देशकालौविना किञ्चिन्नेतिवृत्तं प्रवर्त्तते। अतस्तयोरुपादान-नियमात् पदमुच्यते। देशेषु भारतं वर्षं काले कृत-युगत्रयम्। मर्त्त्ये ताभ्यां प्राणभृतां सुखदुःखोदयःक्वचित्। सर्गे सर्गादिवार्त्ता च प्रसज्जन्ती न दुष्यति”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाटक¦ mfn. (-कः-की-कं) An actor, acting, dancing, &c. m. (-कः) a play, a drama: the first of the ten species of dramatic compositions of the first order. f. (-की) The court of INDRA. E. नट् to act or per- form, ण्वुल् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाटकम् [nāṭakam], [नट्-ण्वुल्]
A play, drama (in general).
The first of the 1 principal kinds of dramatic composition; for definition and other information see S. D.277, where 36 लक्षणs of a नाटक are given. -कः An actor, a dancer; वधूनाटकसंघैश्च संयुक्तां सर्वतः पुरीम् Rām. 1.5.12. -की The court of Indra. -Comp. -प्रपञ्चः the arrangement of a drama. -विधिः dramatic action.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाटक mf( ई)n. acting , dancing W.
नाटक m. an actor , dancer , mime R.
नाटक m. N. of a mountain , Ka1lP.
नाटक m. any show or representation Ba1lar. vii , 76
नाटक m. (in music) N. of a रागिणी
नाटक n. any play or drama Hariv. Ka1v. etc. (personified as m. MBh. ii , 453 )
नाटक n. a kind of play , the first of the रूपकs or dramas of the first order Sa1h. etc.
पुराणादि अष्टादशा इह---
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--connected with वागीशी. Br. IV. ३७. 8.