नाट्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्यम्, क्ली, (नटानां कार्य्यम् । नट + “छन्दोगौक्- थिकयाज्ञिकबह्वृचनटात् ञ्यः ।” ४ । ३ । १२९ । इति ञ्यः ।) नृत्यगीतवाद्यम् । तत्पर्य्यायः । तौर्य्यत्रिकम् २ । इत्यमरः । १ । ७ । १० ॥ (यथा, देवीभागवते । १ । ७ । ३० । “नाट्यं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगम् ॥”) नटानां समूहः । इति व्याकरणम् ॥ नाट्या- रम्भनक्षत्राणि यथा । अनुराधा १७ धनिष्ठा २३ पुष्यः ८ हस्ता १३ चित्रा १४ स्वाती १५ ज्येष्ठा १८ शतभिषा २४ रेवती २७ ॥ इति ज्योतिषम् ॥ * ॥ नाट्यफलं यथा, -- “देवर्षिक्षितिपालपूर्ब्बचरितान्यालोक्य धर्म्मादय- स्तत्स्तावाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः परा । संगीतायुतचित्तवृत्तिभरणा वश्या भवन्त्यङ्गना ज्ञानं शङ्करसेवयेति कथितं नाट्यं चतुर्व्वर्ग- दम् ॥ यो यस्य दयितो भावः स तं नाट्ये निरीक्षते । अतः सर्व्वमनोहारि नाट्यं कस्य न रञ्जकम् ॥” नाट्योत्पत्तिर्यथा, -- “इहानुश्रूयते ब्रह्मा शक्रेणाभ्यर्थितः पुरा । चकाराकृष्य वेदेभ्यो नाट्यवेदन्तु पञ्चमम् ॥ उपवेदोऽथ वेदाश्च चत्वारः कथिताः स्मृतौ । तत्रोपवेदो गान्धर्व्वः शिवेनोक्तः स्वयम्भुवे ॥ तेनापि भरतायोक्तस्तेन मर्त्ये प्रचारितः । शिवाब्जयोनिभरतास्तस्मादस्य प्रयोजकाः ॥” इति सङ्गीतदामोदरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्य नपुं।

नृत्यम्

समानार्थक:ताण्डव,नटन,नाट्य,लास्य,नृत्य,नर्तन

1।7।10।1।3

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने। तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्.।

वृत्तिवान् : नर्तकी,नटः

 : नृत्यविशेषः

पदार्थ-विभागः : , क्रिया

नाट्य नपुं।

नृत्यगीतवाद्यानाम्_मेलनम्

समानार्थक:तौर्यत्रिक,नाट्य

1।7।10।2।2

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने। तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्य¦ न॰ नटस्य इदं कृत्यस्
“छन्दोगौकिथकेत्यादिना” पा॰ष्यञ्।

१ नटकृत्ये नृत्यगीतवाद्यात्मके

२ लास्ये वाक्या-र्थाभिनये च तत्फलादिकं सङ्गीतदा॰ उक्तं यथा(
“देवर्षिक्षितिपालपूर्वचरितान्यालोक्य धर्मादयस्तत्स्ताबाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः परा। सङ्गी-तायुतचित्तवृत्तिहरणावश्या भवन्त्यङ्गना ज्ञानं शङ्करसेव-येति कथितं नाट्यं चतुर्वर्गदम्। यो यस्य दयितो भावःस तं नाट्ये निरीक्षते। अतः सर्वमनोहारि नाट्यं कस्यन रञ्जकम्”। नाट्योत्पत्तिर्यथा
“इहानुश्रूयते ब्रह्माशक्रेणाभ्यर्थितः पुरा। चकाराकृष्य वेदेभ्यो नाट्यवेदन्तुपञ्चमम्। उपवेदोऽथ वेदाश्च चत्वारः कथिताः स्मृतौ। तत्रोपवेदो गान्धर्वः शिवेनोक्तः सयम्भुवे। तेनापिभरतायोक्तस्तेन मर्त्ये प्रचारितः। शिवाब्जयोनिभरता-स्तस्मादस्य प्रयोजकाः”। नाट्यारम्भमुहूर्त्तादिनिरूपणायपी॰ धा॰ वसिष्ठ आह
“त्रिकोत्तरामित्रगुरुश्रविष्ठाहस्ते-न्द्रवारीश्वरपौष्णभेषु। सङ्गीतनृत्यादिसमस्तकर्म कार्यंविभौमार्कजवासरेषु”। श्रीपतिरपि
“हस्तः पुष्यो वासवंचानुराधा ज्येष्ठा पौष्णं वारुणं चोत्तराश्च। पूर्वाचार्यैःकीर्त्तितश्चन्द्रवर्त्ती नृत्यारम्भे शोभनोऽयं भवर्गः”। काश्यपः
“लग्नसंस्थे बुधे चन्द्रे बुधराशौ तु वीक्षिते। शुभग्रहै-श्चतुर्थस्थैर्नाट्यारम्भः प्रशस्यते”। अतएव रतमालायाम्
“बुधे विलग्ने शशिनि ज्ञराशौ शुभवीक्षिते। हिकुकस्थैः शुभैर्नाट्यप्रारम्भः सद्भिरिष्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्य¦ n. (-ट्यं) The science or art of dancing or acting, or the union of song, dance, and instrumental music. E. नट् to dance, affix ण्यत् or ज्य, or नटानां कर्म ष्यञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्यम् [nāṭyam], [नटस्येदं कृत्यं ष्यञ्]

Dancing.

Dramatic representation, gesticulation; acting; नाट्ये च दक्षा वयम् Ratn.1.6; नूनं नाट्ये भवति च चिरं नोर्वशी गर्वशीला Vikr. 18.29.

The science or art of dancing or acting, scenic art; नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् M.1.4.

The costume of an actor; न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा Bhāg.1.8.19. -ट्यः An actor. -Comp. -अङ्गानिn. (pl.) ten अङ्गs of नाट्य i. e. गेयपद, स्थितपाद्य, आसीन, पुष्पगण्डिका, प्रच्छेदक, त्रिगूढक, सैन्धव, द्विगूढक, उत्तमोत्तमक, उक्तप्रत्युक्त. -आगारम् a dancing room. -आचार्यः a dancing preceptor. -उक्तिः f. dramatic phraseology (as: स्वगत, प्रकाश, अपवाहित, जनान्तिक). -धर्मिका, -धर्मी the rules of dramatic representation. -प्रियः an epithet of Śiva. -रासकम् a kind of play consisting of one act; S. D. -वेदः the science of drama and dancing. -वेदी a stage, scene.

शाला a dancing-hall.

a theatre.

शास्त्रम् the dramatic science, dramaturgy.

a work on dramatic representation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट्य n. dancing , mimic representation , dramatic art Ka1v. Pur. etc. (605333 ट्येनind. with a gesture Ka1lid. etc. )

नाट्य n. the costume of an actor BhP. (See. below).

"https://sa.wiktionary.org/w/index.php?title=नाट्य&oldid=349517" इत्यस्माद् प्रतिप्राप्तम्