नान्दी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नान्दी, स्त्री, (नन्दन्त्यनयेति । नन्द + घञ् । निपा- तनात् दीर्घः । ततो ङीप् ।) नाटकाद्यादौ मङ्गलार्था देवद्बिजादीनामाशीः । यथा, -- “आशीर्व्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्त्तते । देवद्विजनृपादीनां तस्मान्नान्दीति सा स्मृता ॥ केचित्तु । भेरीप्राया नान्दी ।” इत्यमरटीकायां भरतः ॥ * ॥ नाटके विघ्नविघातायादौ नान्दी कार्य्या । यदाह भरतः । “यद्यप्यङ्गानि भूयांसि पूर्ब्बरङ्गस्य नाटके । तथाप्यवश्यं कर्त्तव्या नान्दी विघ्नप्रशान्तये ॥ देवद्विजनृपादीनामाशीर्व्वादपरायणा । नन्दन्ति देवता यस्मात्तस्मान्नान्दी प्रकीर्त्तिता ॥” अन्यच्च । “देवद्विजनृपादीनामाशीर्व्वन्दनपूर्ब्बिका । नान्दी कार्य्या बुधैर्यत्नान्नमस्कारेण संयुता ॥ गङ्गा नागपतिः सोमः सुधा नन्दा जयाशिषः । एभिर्नामपदैः कार्य्या नान्दी धाराभिरङ्किता ॥ प्रशस्तपदविन्यासा चन्द्रसंकीर्त्तनान्विता । आशीर्व्वादपरा नान्दी योज्येयं मङ्गलात्मिका ॥ काचिद्दशपदा नान्दी काचिदष्टपद्रा तथा । सूत्रधारः पठेन्नान्दी मध्यमस्वरमाश्रितः ॥” इति मालतीमाधवटीका ॥ समृद्धिः । यथा । “नान्दी समृद्धिरिति कथ्यते ।” इत्युद्वाहतत्त्वे ब्रह्मपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नान्दी¦ स्त्री नन्दन्ति देवा अत्र नन्द--घञ् पृषो॰ वृद्भिः ङीप्। [Page4032-a+ 38]

१ समृद्धा

२ नाटकस्यादौ मङ्गलार्थे पाठ्ये श्लोकादौ
“आशिर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्त्तते। देवद्विजनृपा-दीनां तस्मान्नान्दीति सा स्मृता”। नाटके विघ्नविघाता-यादौ नान्दी कार्य्या यदाह भरतः
“यद्यप्यङ्गानि भू-यासि पूर्वरङ्गस्य नाटके। तथाप्यवश्यं कर्त्तव्या नान्दीविघ्नोप्रशान्तये। देवद्विजनृपादीनामाशीर्वादपरायणा। नन्दन्ति देवतायस्मात्तस्मान्नान्दी प्रकीर्त्तिता” अन्यच्च
“देवद्विजनृपादीनामाशीर्वचनपूर्विका। नान्दी कार्य्याबुधैर्यत्नान्नमस्कारेण संयुता। गङ्गा नागपतिः सीमःसुधानन्दाजयाशिषः। एभिर्नामपदैःकार्य्या नान्दी धा-राभिरङ्किता। प्रशस्तपदविन्यासा चन्द्रसङ्कीर्त्तनान्विता। आशीर्वादपरा नान्दी योज्येयं मङ्गलात्मिका। काचि-द्दशपदा नान्दी काचिदष्टपदा तथा। सूत्रधारः पठे-न्नान्दीं मध्यमस्वरमाश्रितः”। सा॰ द॰ अन्यथा उक्तं यथा
“यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये। कुशीलवाःप्रकुर्वन्ति पूर्वङ्गः स उच्यते। प्रत्याहारादिकान्यङ्गान्यस्यभूयांसि यद्यपि। तथाप्यवश्यं कर्त्तव्या नान्दी विघ्नो-पशान्तये”
“आशीर्वचनसंयुक्ता नित्यं यस्मात् प्रयुज्यते। देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता। मङ्गल्य-शङ्खचन्द्राब्जकोककैरवशंसिनी। पदैर्युक्ता द्वादशभिरष्टा-भिर्वा पदैरुत”। अष्टपदा यथा। अनर्घ्यराघवे
“निष्-प्रत्यूहमित्यादि” द्वादशपदा यथा मम तातपादानां पुष्प-मालायाम्।
“शिरसिधृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री। अथ चरणयुगानते स्वकान्तेस्मितसरसा भवतोऽस्तु भूतिहेतुः”। एवमन्यत्र।
“एत-न्नान्दीति” कस्यचिन्मतानुसारेणोक्तम्। वस्तुतस्तु
“पूर्व-रङ्गस्य रङ्गद्वाराभिधानमङ्गमिति” उच्यते। यदुक्तम्।
“यस्मादभिनयो ह्यत्र प्राथम्यादवतार्य्यते। रङ्गद्वारमतोज्ञेयं वागङ्गाभिनयात्मकमिति” उक्तप्रकारायाश्च नान्द्यारङ्गद्वारात् प्रथमं नटैरेव कर्त्तत्यतया न महर्षिणानिर्देशः कृतः। कालिदासादिमहाकविप्रबन्धेषु च
“वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मि-न्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः। अन्तर्यश्चमुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिर-भक्तियोगसुलभो निःश्रेयसायास्तु वः” एवमादिषु नन्दी-लक्षणायोगात्। उक्तञ्च
“रङ्गद्वारमारभ्य कविः कुर्य्या-दिति”। अतएव प्राक्तनपुस्तकेषु
“नान्द्यन्ते सूत्रधार” इत्यनन्तरमेव
“वेदान्तेष्वित्यादि” श्लोकलिखतं दृश्यते। [Page4032-b+ 38] यच्च पश्चात्
“नान्द्यन्ते सूत्रधार” इति लिखनं तस्या-यमभिप्रायः
“नान्द्यन्ते सूत्रधार इदं प्रयोजितवान् इतःप्रभृति मया नाटकमुपादीयते इति कवेरभिप्रायः सूचितःइति”। वृद्धौ
“ते तु नान्दीमुखा नान्दी समृद्धिरितिकथ्यते” इति ब्रह्मपुराणम्
“नान्दीमुखे विवाहे चप्रपितामहपूर्वकम्” इति सम्बन्धविवेकपरिशिष्टधृतवच-नम्।
“नान्दीमुखे पुत्रादिसमृद्धिसाधनरूपे विवाहेविशेषणं तु विवाहादेः पुत्रादिलाभविशेषज्ञापनायनान्दीमुखपदस्य श्राद्धपरत्वे अनेकवचनप्राप्तपितृपूर्व-काभिलापस्य बाधापत्तेः” सं॰ त॰ रघुनन्दनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नान्दी¦ f. (-न्दी)
1. Eulogium of a king, or praise of a deity, recited in be- nedictory verses at the commencement of a religious ceremony, or the opening of a drama; it most usually signifies the kind of blessing pronounced as a prologue to a Na4taka or play.
2. Pros- perity, thriving, increase. E. नदि to be happy, in the causal form, affix इन्, and ङीप्; delighting the gods, &c. or procuring happiness for mankind. नन्दन्ति देवा अत्र नन्द-घञ् पृषो० वृद्धिः ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नान्दी [nāndī], [नन्दन्ति देवा अत्र नन्द्-घञ् पृषो˚ वृद्धिः ङीप्]

Joy, satisfaction, delight.

Prosperity; ततो राजकुले नान्दी संजज्ञे भूयसा पुनः Mb.12.82.66.

Praise of a deity at the commencement of a religious rite or observance.

Particularly, the benedictory verse or verses recited as a sort of prologue at the beginning of a drama, benediction; आशीर्वचनसंयुक्ता नित्यं यस्मात् प्रयुज्यते । देवद्विजनृपा- दीनां तस्मान्नान्दीति संज्ञिता ॥ or देवद्विजनृपादीनामाशीर्वचनपूर्विका । नन्दन्ति देवता यस्यां तस्मान्नान्दीति कीर्तिता ॥

Loud noise of a dozen drums; L. D. B. -Comp. -करः see -नान्दिन्. -निनादः, -नादः, -रवः a shout of joy or rejoicing; नान्दीनादप्रभृति हि कृतं मङ्गलं तैस्तदानीम् Mv.2.4. (v. l.)-पटः the lid or cover of a well. -मुख a. (the class of manes or deceased ancestors) to whom the नान्दीमुख- श्राद्ध is offered. (-खम्), ˚श्राद्धम् a Śrāddha ceremony performed in memory of the manes, preliminary to any festive occasion such as marriage &c. (-खः) the cover or lid of a well. (-खी) a female ancestor entitled to a share in the above Śrāddha. -वादिन् m.

the speaker of a prologue to a drama.

a drummer.-श्राद्धम् see -नान्दीमुखम् above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नान्दी f. ( नन्द्)joy , satisfaction , pleasure RV. MBh.

नान्दी f. eulogium or praise of a deity , ( esp. ) a kind of blessing pronounced as a prologue to a drama Mr2icch. Ka1lid. Sa1h. Prata1p. etc.

नान्दी f. (in music) a partic. measure

नान्दी f. = द्वादश-तूर्य-निर्घोषL.

"https://sa.wiktionary.org/w/index.php?title=नान्दी&oldid=500605" इत्यस्माद् प्रतिप्राप्तम्