नामकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामकरणम्, क्ली, (नाम्नः करणं यत्र ।) संस्कार- विशेषः । तत्रोक्तनक्षत्राणि यथा । अश्विनी १ रोहिणी ४ मृगशिराः ५ पुनर्व्वसुः ७ उत्तर- फल्गुनी १२ स्वाती १५ अनुराधा १७ उत्तरा- नातिदीर्घं नातिह्रस्वं नातिगुर्व्वक्षरान्वितम् । सुखोच्चार्य्याक्षरं नाम कुर्य्याच्च प्रवणाक्षरम् ॥’ इति विष्णुपुराणे ३ अंशे १० अध्यायः ॥ प्रवणाक्षरं लघूत्तराक्षरम् । इति तट्टीकाकारः ॥ गोभिलः । ‘अयुग्मकदान्तं तथा स्त्रीणाम् ।’ अयुग्मकम् अयुगक्षरम् । दान्तं दकारान्तम् । यथा यशोदेत्यादि ॥ * ॥ तस्य श्रीपूर्ब्बकत्वं यथा, -- ‘देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्ब्बं समुदीरयेत् ॥’ इति राघवभट्टधृतप्रयोगदर्शनात् स्वर्गकामि- त्वादिना सिद्धोऽधिकारो येषां नराणामित्यनेन जीवतां श्रीशब्दादित्वं नाम्नो न मृतानां तथेति शिष्टाचारः ॥ * ॥ गोभिलः । मात्रे चैनं प्रथमं नामधेयमाख्याय यथार्थमुदीच्यं वामदेव्यगानान्तं कुर्य्यात् गौर्दक्षिणा ।” इति संस्कारतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामकरण¦ न॰ नाम्नः करणं यत्र। संस्कारभेदे तत्रतत्कालादिनिरूपणं ज्यो॰ त॰ यथा
“एकादशे द्वादशेवाऽहवि पिता नाम कुर्य्यादिति” श्रुतिः। एकादशे इतिमुख्यः कल्पः
“समर्थस्य क्षेपायोगादिति” न्यायात् एतच्चपरपरप्रशस्ततरतमकालोदितकर्मेतरकर्मपरम्। गोभिलः
“जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेय-करणमिति”। व्युष्टे गते। गर्गः
“आदौ घोषवदक्षरं यव-रलान्मध्ये पुनः स्थापयेदन्ते दीर्षविसर्जनीयरहितंनाम प्रयत्नात् कृतम्”।
“ऋक्षे तिष्यकराश्विसौम्यवसुभेचित्रानुराधोत्तरे पौष्णे चादितिरोहिणीषु शुभकृत् पुंसांसमैरक्षरैः” दीपिकास्वरसात् स्वातीशतभिषाश्रवणाअत्र ग्राह्याः। गोभिलसम्मतं पूर्वार्द्धम् देवनामकम्” तेननारायणजनार्द्दनादि नाम कुर्य्यात्। यत्तुनामकरणम्कुलदेवतानक्षत्रामिसम्बन्धं पिता नाम कुर्य्यादन्यो वाकुलवृद्धः” इति कल्पतरुधृतशङ्खलिखितवचनेनाभिवादनीयंनामधेयं कल्पयित्वा
“देवताश्रयं नक्षत्राश्रयं गोत्राश्रयमप्येवम्” इति गोभिलसूत्रेणोपनयनकाले च नक्षत्राभिसम्बन्धेननामाधिधागं तत् शतपदचक्रानुसारात् स्वनक्षत्रपदानु-सारात् ज्ञेयम्। पाश्चात्त्यानां तथैव व्यवहारः। यत्रतु न तथा कृतम्। तत्र नामाक्षरानुसारनक्षत्रादपिफलं ज्ञेयम्। अत्र कुलवृद्ध इति दर्शनात् संस्कारान्तरेतथैव व्यवहारः। मनुः
“स्त्रीणां सुखोद्यमक्रूरं विस्प-ष्टार्थं मनोहरम्। माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभि-धानवत्”। गोभिलः
“अयुग्दान्तं स्त्रीणामिति”। यथायशोदा वसुदेत्यादि। नारायणपद्धतौ।
“नामकरणं स्थि-रलग्ने केन्द्रपञ्चनवमस्थितसौम्ये। त्र्यायषष्ठसमधिष्ठितपापे जीवशुक्रशशिसौम्यदिनेषु” ज्यो॰ त॰। विष्णुपु॰
“ततश्च नाम कुर्वीत पितैव दशमेऽहनि। देवपूर्वं न-राख्यं हि शर्मवर्मादिसयुतम्” इति। नरमाचष्टे इतिनराख्यं नरनाम देवात् पूर्वं तच्च विशिष्टं शर्मयुतम्।
“शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभुजः। भूतिर्गुप्तश्चवैश्यस्य दासः शूद्रस्य कारयेत्” इति यमवचने समुच्च-योपलब्धेः
“शर्मान्तं ब्राह्मणस्य स्यात्” इति शातातपी-येन शर्मान्तता च। गोभिलः
“अयुग्दान्तं स्त्रीणाम्। अयुन्माक्षरं दान्तं यथा यशोदा इत्यादि।
“देवं गुरुंगुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् सिद्धं सिद्धाधिकारांश्चश्रीपूर्वं समुदीरयेत्” इति राघवभट्टधृतप्रयोगसार-दर्शनात् स्वर्गगामित्वादिना सिद्धः अविकारो येषां[Page4039-b+ 38] नराणामित्यनेन जीवतां श्रीशब्दादित्वं नाम्नो नमृतानां तथेति शिष्टाचारः” संस्कारत॰। अत्र महा-भाष्यं यथा दशम्यां याज्ञिकाः पठन्ति।
“दशप्युत्तर-कालं पुत्रस्य जातस्य नाम् विदध्यात् घोषबदाद्यन्तरन्त-स्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि प्रति-ष्ठितमं भवति द्व्यक्षरं चतुरक्षसं वा नाम
“कृतं कुर्य्यान्नतद्धितमिति”। नचान्तरेण व्याकरणं कृतस्तद्धिता बाशक्या विज्ञातुमिति”।
“दशम्या उत्तर इति पञ्चमीतियोगविभागात् समासः। ततः कालशंब्देन बहुत्रोहिःक्रियाविशेषणं चैतत्। दशदिनान्याशौचं भवतीति दश-भ्युत्तरकालमित्युक्तम्। यदपि गृह्यकाराः पठन्ति दशम्यांपुत्रस्येति तैरपि दशम्यामिति सामीपिकमधिकरणं व्या-ख्येयम्। घोषवन्तो ये वर्णाः शिक्षायां प्रदर्शितास्तदादि। अन्तरन्तस्थमिति। मध्ये यरलवा यस्य तदित्यर्थः। त्रिपुरुषानूकमिति। नामकरणे योऽधिकारी पिता तस्यये त्रयः पुरुषास्ताननूकायत्यभिधत्त इति त्रिपुरुषानू-कम् अन्येषामपि दृश्यत इति दीर्घ” इति कैयटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामकरण¦ n. (-णं) Naming a child first after birth. E. नाम, and करण making.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामकरण/ नाम--करण m. a nominal suffix Nir.

नामकरण/ नाम--करण n. the calling of a person( gen. )by the name of( नाम्ना) Sarvad.

नामकरण/ नाम--करण n. the ceremony of naming a child after birth Kaus3. etc. RTL. 370

नामकरण/ नाम--करण n. ( रणंकृ, to perform this -cchild) BhP.

"https://sa.wiktionary.org/w/index.php?title=नामकरण&oldid=500611" इत्यस्माद् प्रतिप्राप्तम्