नायिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नायिका, स्त्री, (नयति या । नी + ण्वुल् । टाप् अत इत्वञ्च ।) दुर्गाशक्तिः । सा अष्टधा । यथा, -- “ततोऽष्टनायिका देव्या यत्नतः परिपूजयेत् ॥ उग्रचण्डां प्रचण्डाञ्च चण्डोग्रां चण्डनायिकाम् । अतिचण्डाञ्च चामुण्डां चण्डां चण्डवतीन्तथा ॥ पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा । पञ्चोपचारैः संपूज्य भैरवान्मध्यदेशतः ॥” इति प्रकृतिखण्डे ६१ अध्यायः ॥ शृङ्गाररसालम्बनविभावरूपा नारी । सा च त्रिविधा । स्वीया परकीया सामान्यवनिता चेति । तत्र स्वामिन्येवानुरक्ता स्वीया । स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्मा च । तथा अङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना अज्ञातयौवना च । सैव क्रमशो लज्जाभय- पराधीनरतिर्नवोढा । सैव क्रमशो जात- प्रश्रया विश्रब्धनवोढा । समानलज्जामदना मध्या । एषैव चातिप्रश्रयादतिविश्रब्धनवोढा । पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा । मध्याप्रगल्मे मानावस्थायां प्रत्येकं त्रिविधे । धीरा अधीरा धीराधीरा चेति । व्यङ्ग्य- कोपप्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशा अधीरा । व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा । एते धीरादयस्त्रयो भेदा द्बिधा भवन्ति । ज्येष्ठा कनिष्ठा च । परिणीतत्वे सति भर्त्तुरधिकस्नेहा ज्येष्ठा । परिणीतत्वे सति भर्त्तुर्न्यूनस्नेहा कनिष्ठा ॥ अप्रकटपरपुरुषानुरागा परकीया । सा च द्विविधा । परोढा कन्यका च । गुप्ता विदग्धा लक्षिता कुलटा अनुशयानामुदिताप्रभृतीनां परकीयायामेवान्तर्भावः । गुप्ता त्रिविधा । वृत्त- सुरतगोपना च । वर्त्तिष्यमाणसुरतगोपना । वर्त्त- मानसुरतगोपना च । विदग्धा द्विविधा । वाग्वि- दग्धा क्रियाविदग्धा चेति । अनुशयाना त्रिविधा । वर्त्तमानस्थानविघट्टनेन भाविस्यानाभावशङ्कया स्वानधिष्ठितसङ्केतस्थले भर्तुर्गमनानुमानेन ॥ * ॥ वित्तमात्रोपाधिकसकलपुरुषाभिलाषा सामान्य- वनिता । एता अन्यसम्भोगदुःखिता । वक्रोक्ति- गर्व्विता मानवत्यश्च तिस्रो भवन्ति । वक्रोक्ति- गर्व्विता द्बिविधा । प्रेमगर्व्विता सौन्दर्य्यगर्व्विता च । मानवती यथा । प्रियापराधसूचिका चेष्टा मानः । स च लघुर्मध्यमो गुरुश्चेति । अल्पा- पनेयो लघुः । कष्टापनेयो मध्यमः । कष्टतमा- पनेयो गुरुः ॥ * ॥ एताः षोडश अष्टाभिरव- स्थाभिः प्रत्येकमष्टविधा । प्रोषितभर्त्तृका खण्डिता उत्कण्ठिता कलहान्तरिता विप्र- लब्धा वासकसज्जा स्वाधीनपतिका अभिसा- रिका चेति गणनादष्टाविंशत्यधिकं शतं भेदा भवन्ति । तासामुत्तममध्यमाधमगणनया चतु- रधिकाशीतिशतत्रयं भेदा भवन्ति । तत्रासां दिव्य-अदिव्य-दिव्यादिव्यभेदेन गणनया द्विपञ्चा- शदधिकशतयुतसहस्रं भेदा भवन्ति । इति रस- मञ्जरी ॥ * ॥ अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते । दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥ न मुञ्चति च तं देशं नायको यत्र दृश्यते । आगच्छति गृहं चास्य कार्य्यव्याजेन केनचित् ॥ दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते । नित्यं हृष्यति तद्योगे वियोगे मलिना कृशा ॥ मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् । प्रार्थयतेऽल्पमूल्यानि सुप्ता न परिवर्त्तते ॥ विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति । भाषते सूनृतं स्निग्धमनुरक्ता नितम्बिनी ॥ एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः । मध्यव्रीडानि मध्यायाः स्रंसमानत्रपाणि तु ॥ अन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ॥ लेख्यप्रस्थापनैः स्निग्धैर्वीक्षितैर्मृदुभाषितैः । दूतीसम्प्रेषणैर्नार्य्या भावाभिव्यक्तिरिष्यते ॥” * ॥) कस्तूरीविशेषः । यथा, राजनिर्घण्टे । “चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी च कुलत्थिकाख्या । स्थूला यतः कियदियं किल पिण्डिका स्या- त्तस्याश्च किञ्चिदधिकापि च नायिकैषा ॥”
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नायिका¦ स्त्री नी--ण्वुल् कापि अत इत्त्वम्।
१ प्रापिकायांस्त्रियां
२ शृङ्गाररसालम्बनभूतायां स्त्रियां च तद्भेदादिसा॰ द॰ उक्तं यथा
“अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति। नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता। विनयार्जवा-दियुक्ता गृहकर्मपरा पतिव्रता स्वीया। साऽपि कथितात्रिविथा मुग्धा मध्या प्रगल्भेति। प्रथमावतीर्णयौवनभ-दनविकारा रतौ वामा। कथिता मृदुश्च माने समधिकल-ज्जावती मुग्धा। मध्या विचित्रसुरता प्ररूढस्मरयौवना। ईषत्प्रगल्भवचना मध्यमव्रीडिता मता। स्मरान्धा नाढ-तारुण्या समस्तरतकोविदा। भावोन्नता दरव्रीडाप्रगल्भाक्रान्तनायका। ते धीरा चाप्यधीरा च धीरा-धीरेति षडिविधे। प्रियं सोत्प्रासवक्रोक्त्या मध्या-धीरा दहेद्रुषा। धीराधीरा तु रुदितैरधीरा परुषो-क्तिभिः। प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा। उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः। धीराधीरातु सोल्लुण्ठभाषितैः खेदयेदमुम्। तर्जयेत्ताडयेदन्याप्रत्येकं ता अपि द्विधा। कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति। मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश की-र्त्तिताः। मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश। परकीया द्विधा प्रोक्ता परोदा कन्यका तथा। यात्रादि-निरताऽन्योढा कुलटा गलितत्रपा। कन्या त्वजातोपयमा सलज्जा नवयौवना। धीरा कलाप्रगल्भा स्या-द्वेश्या सामान्यनायिका। निर्गुणानपि न द्वेष्टि नरज्यति गुणिष्वपि। वित्तमात्रं समालोक्य सा रामं दर्श-येद् बहिः। काममङ्गीकृतमपि परिक्षीणधनं नरम्। मात्रा निष्क्रामयेदेषा पुनःसन्धानकाङ्क्षया। तस्कराःपण्ड्रकामूर्खाः सुखप्राप्तधनास्तथा। सिङ्गिनश्छन्नका-माद्या आसां प्रायेण वल्लभाः। एषापि मदमायत्ताक्वापि सत्यानुरागिणी। रक्तायां वा विरक्तायां रतमस्यांसुदुर्लभम्। अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः। स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका। कल-[Page4043-a+ 38] हान्तरिता विगसब्धा प्रोषितमर्तृका। अन्या वासक-सज्जा स्याद्विरहोत्कण्ठिता तथा। कान्तोरतिगुणाकृष्टोम जहाति यदन्तिकम्। विचित्रविभ्रमासक्ता सा स्यात्स्ताघीनभर्तृका। पार्श्वमेति प्रियो यस्या अन्यसम्मो-नचिह्नितः। सा खण्डितेति कथिता धीरैरीर्ष्याकषा-यिता। अभिसारयते कान्तं या मन्मथवशंवदा। स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽमिसारिका। चाटु-कारमपि प्राणनाथं रोषादपास्य या। पश्चात्तापमवाप्नोतिकलहान्तरिता तु सा। प्रियः कृत्वापि सङ्केतं यस्या ना-याति सन्निधिम्। विप्रलब्धा तु सा ज्ञेया नितान्तमवमा-निता। नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः। सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका। कुरुते मण्डनंयस्याः सज्जिते वासवेश्मनि। सा तु वासकसज्जा स्याद्वि-दितप्रियसङ्गमा। आगन्तुं कृतचित्तोऽपि दैवान्नायातियत्प्रियः। तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा। इति साष्टविंशतिशतमुत्तममध्यमाधमस्वरूपतः। चतर-धिकाशीतियुतं शतत्रयं नायिकाभेदानां स्यात्”।
३ देव्याः शक्तिभेदे
“ततोऽष्ट नायिका देव्याः यत्नतः परि-पूजयेत्। उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डना-यिकाम्। अतिचण्डां च चामुण्डां चण्डां चण्डवतींतथा” ब्रह्मवै॰ प्रकृतिख॰
६० अ॰।
४ कस्तूरीभेदे
“चूर्णा-कृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी चकुलत्थिकाख्या। स्थूला ततः कियदियं किल पिण्डिकास्यात्तस्याश्च किञ्चिदधिकापि च नायिकैषा” राजनि॰।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नायिका [nāyikā], 1 A mistress.
A wife.
The heroine of a poetic composition. (According to S. D. a नायिका is of three kinds स्वा or स्वीया, अन्या or परकीया, and साधारणस्त्री. For further classification, see S. D.97-112, and Rasamañjarī 3-94; cf. अन्यस्त्री also).
A kind of musk.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नायिका f. See. नायिका
नायिका f. (of यकSee. )a noble lady Vet.
नायिका f. mistress , courtezan(See. नाका-धिप-)
नायिका f. the heroine in a drama Sa1h. etc.
नायिका f. an inferior form or शक्तिof दुर्गा(of which there are 8 , viz. उग्र-चण्डा, प्र-चण्डा, चण्डोग्रा, चण्ड-नायिका, अति-चण्डा, चामुण्डा, चण्डा, and चण्ड-वती; See. कुल-न्) Cat.
नायिका f. a class of female personifications representing illegitimate sexual love (they are called बलिनी, कामेश्वरी, विमला, अरुणा, मेदिनी, जयिनी, सर्वेश्वरी, कौलेशी) RTL. 188
नायिका f. =next L. =