नारदीय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारदीय¦ न॰ नारदस्येदम्
“वृद्धाछः” पा॰ वेदव्यासकृते नारदंप्रति सनकाद्युपदेशात्मके महापुराणभेदे तत्प्रतिपाद्य-विषयाश्च वृहन्नारदीये
९६ अ॰ उक्ता यथाश्रीब्रह्मोवाच।
“शृणु विप्र! प्रवक्ष्यामि पुराणं नार-दीयकम्। पञ्चविंशतिसाहस्रं वृहत् चित्रकथाश्रयम्। सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम्। नानाधर्मकथाःपुण्याः प्रवृत्ते समुदाहृताः। प्रागभागे प्रथमे पादे सन-[Page4045-a+ 38] केन महात्मना। द्वितीये मोक्षधर्माख्ये मोक्षोपायनि-रूपणम्। वेदाङ्गानाञ्च कथनं शुकोत्पत्तिश्च विस्तरात्। सनन्दनेन गदिता नारदाय महात्मने। महातन्त्रेसमुद्दिष्टं पशुपाशविमोक्षणम्। मन्त्राणां शोधनं दीक्षामन्त्रोद्धारश्च पूजनम्। प्रयोगाः कवचं नामसहस्रंस्तोत्रमेव च। गणेशसूर्य्यविष्णूनां शिवशक्त्योरनु-क्रमात्। सनत्कुमारमुनिना नारदाय तृतीयके। पुराणलक्षणञ्चैव प्रमाणं दानमेव च। पृथक् पृथक्समुद्दिष्टं दानकालपुरःसरम्। चैत्रादिसर्वमामेषुतिथीनाञ्च पृथक् कृथक्। प्रोक्तं प्रतिपदादीनां व्रतंसर्वाघनाशनम्। सनातनेन सुनिना नारदाय चतुर्थके। पूर्वभागोऽयमुदितो वृहदाख्यानसंज्ञितः। अस्योत्तरे वि-भागे तु प्रश्र एकादशीव्रते। वशिष्ठेनाथ संवादोमान्धातुः परिकीर्त्तितः। रुक्माङ्गदकथा पुण्या मोहि-न्युत्पत्तिकर्म च। वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया। गङ्गाकथा पुण्यतमा गयायात्रानुकीर्त्तनम्। काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम्। यात्राविधानंक्षेत्रस्य वह्वाख्यानसमन्वितम्। प्रयागस्याहि माहात्म्यंकुरुक्षेत्रस्य तत्परम्। हरिद्वारस्य चाख्यानं कामोदा-ख्यानकं तथा। वदरीतीर्थमाहात्म्यं कामाख्यायास्तथैवच। प्रभासस्य च माहात्म्यं पुराणाख्यानकं ततः। गौतमाख्यानकं पश्चाद् वेदपादतपस्ततः। गोकर्णक्षेत्र-माहात्म्यं लक्षणाख्यानकं तधा। सेतुमाहात्म्यकथनंनर्मदातीर्थवर्णनम्। अवन्त्याश्चैव माहात्म्यं मथुराया-स्ततःपरम्। वृन्दावनस्य महिमा वसोर्व्रह्मान्तिकेगतिः। मोहिनीचरितं पश्चादेवं वै नारदीयकम्। यः शृणोति नरो भक्तप्रा श्रावयेद्वा समाहितः। सयाति ब्रह्मणो धाम नात्र कार्य्या विचारणा। यस्त्वे-तदिह पूर्णायां धेनूनां सप्तकान्वितम्। प्रदद्याद्द्वि-जवर्य्याय स लभेन्मोक्षमेव च। यश्चानुक्रमणीमेतांनारदीयस्य वर्णयेत्। शृणुयाद्वैकचितेन सोऽपि स्वर्ग-गतिं लभेत्”।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नारदीय mfn. relating to or composed by नारदCat. (also यकib. )
नारदीय n. N. of sev. works. Ka1d.