सामग्री पर जाएँ

नारायण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणः, पुं, (नारा जलं अयनं स्थानं यस्य । अय गतौ + भावे ल्युट् । सर्म्वे गत्यर्थाः प्राप्त्य- र्थाश्च इति नियमात् नारस्य ज्ञानस्य मुक्तेर्वा अयनं प्राप्तिर्यस्मात् इति वा । “नराणां समूहो नारं तत्रायनं स्थानं यस्य नारायणः रेफात् परनकारस्य णत्वविधानात् सर्व्वप्राणिबुद्धि- गुहानिवासाच्छुद्धचैतन्यमित्यर्थः ।” इति शङ्कर- विजये नवमप्रकरणम् ।) विष्णुः । तस्य चत्वारो व्यूहाः । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्याः । इति महाभारतम् ॥ वेदान्तमते । शुद्धान्त- र्यामिसूत्रविराडाख्याः ॥ तन्नामव्युत्पत्तिर्यथा, -- “सारूप्यमुक्तिवचनो नारेति च विदुर्बुधाः । यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः ॥ नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् । यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः ॥ नारञ्च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम् । तयोर्ज्ञानं भवेद्यस्मात् सोऽयं नारायणः स्मृतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०९ अः ॥ “आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्ब्बं तेन नारायणः स्मृतः ॥” इति विष्णुपुराणम् ॥ यद्वा । “नाराजातानि तत्त्वानि नाराणीति विदुबुधाः । तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥” अजामिलपुत्त्रः । यथा, -- “कान्यकुब्जे द्बिजः कश्चिद्दासीपतिरजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ तस्य प्रवयसः पुत्त्रा दश तेषान्तु योऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ दूरे क्रीडनकासक्तं पुत्त्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ निशम्य म्रियमाणस्य मुखतो हरिकीर्त्तनम् । भर्त्तुर्नाम महाराज ! पार्श्वदाः सहसापतन् ॥ विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥” इति श्रीभागवते षष्ठस्कन्धे प्रथमाध्यायः ॥ सैन्यविशेषः । यथा, -- “मत्संहननतुल्यानां गोपानामर्व्वुदं महत् । नारायणा इति ख्याताः सर्व्वे संग्रामयोधिनः ॥” “दुर्य्योधनश्च तत् सैन्यं सर्व्वमावारयत्ततः । सहस्राणां सहस्रञ्च योधानां प्राप्य भारत ! ॥” इति महाभारते । ५ । ७ अध्यायः ॥ धर्म्मपुत्त्रर्षिविशेषः । यथा, -- “धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां नारायणो नर इति स्वतपःप्रभावः ॥” इति श्रीभागवते । २ । ७ । ६ ॥ “दण्डग्रहणमात्रेण नरो नारायणो भवेत् ॥” इति यतिधर्म्मः ॥ (कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः । यथा, मुक्तिकोपनिषदि । “गर्भो नारायणो हंसो बिन्दुर्नादशिरःशिखा ॥” चूर्णौषधिविशेषः । यथा, भावप्रकाशे उदर- रोगाधिकारे । “यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका । कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥ शताह्वा जीरको व्योषं स्वर्णक्षीरी च चित्रकम् । द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥ विडङ्गञ्च समांसानि दण्ड्या भागत्रयं भवेत् । त्रिवृद्बिशाले द्बिगुणे सातला स्याच्चतुर्गुणा ॥ एष नारायणो नाम्ना चूर्णो रोग गणापहः । एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ॥ तक्रेणोदरभिः पेयो गुल्मिभिर्व्वादराम्बुना । आनद्धवाते सुरया वातरोगे प्रसन्नया ॥ दधिमण्डेन विड्बन्धे दाडिमाम्बुभिरर्शसे । परिकर्त्तेषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥ भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे । हृद्रोगे ग्रहणीरोगे कुष्ठे मन्देऽनले ज्वरे ॥ दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे । यथार्हं स्निग्धकोष्णेन पेयमेतद्विरेचनम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायण पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।18।1।2

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः। दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायण¦ पु॰ नानाविधा निरुक्तिः अनुपदं वक्ष्यते तद-नुसारेण व्युत्पत्तिः।

१ विष्णौ परमात्मनि
“जह्नुर्नारा-यणो नरः” विष्णु स॰। भाष्ये अस्य व्युत्पत्तिर्दर्शिता यथा
“नर आत्मा ततो जातान्याकाशादीनि नाराणि तानिकार्य्याणि अयते कारणात्मना व्याप्नुते नारायणः
“यच्चकिञ्चिज्जगत् सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्वहिश्चतत्सर्वं व्याप्य नारायणः स्थितः” इति मन्त्रवर्णात्
“नरा-ज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः। तान्ये-वायनं यस्य तेन नारायणः स्मृतः” इति महामारते। अयनत्वात् प्रलय इति वा
“यत् प्रयन्त्यभि संविशन्तीति” श्रुतेः
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः। ता यदस्यायनं पूर्वं तेन नारायणः ॠतः” मनुः। ब्रह्मवै॰ज॰ ख॰

१०

९ अ॰ अन्यथा निरुक्तिर्दर्शिता यथा
“सारूयमुक्तिवचनो नारेति च विदुर्बुधाः। यो देवो-ह्ययनं तस्य स च नारायणः स्मृतः। नाराश्च कृतपा-पाश्चाप्ययनं गमनं स्मृतम्। यतो हि गमनं तेषां सो-ऽयं नारायणः स्मृतः। नारञ्च मोक्षणं पुण्यमयनंज्ञानमीप्सितम्। तयोर्ज्ञानं भवेद् यस्मात् सोऽयं नारा-यणः स्मृतः”।
“नारायणेति शब्दोऽस्ति वागस्ति वश-वर्त्तिनी। तथापि नरके मूढाः पतन्मीह किमद्भुतम्”। महाभारतम्। नरस्यापत्यम् नडा॰ फक्।

२ नरस्यापत्ये पु॰स्त्री॰

३ अजामिलपुत्रभेदे
“कान्यकुब्जे द्विजः कश्चिद्दासीपति-रजामिलः। नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः। तस्य प्रवयसः पुत्रादश तेषान्तु योऽवरः। वालो नारा-यणी नाम्ना पित्रोश्च दयितो भृशम्। दूरे क्रीडनका-सक्तं पुत्रं नारायणाह्वयम्। ग्लपितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः”।
“निशम्य म्रियमाणस्य मुखतोहरिकीर्त्तनम्। मर्तुर्नाम महाराज! पार्श्वदाः सह-साऽपतन्। विकर्षतोन्तर्हृदयाद्दासीपतिमजामिलम्” भाग॰

६ ।

१ अ॰। नारायणस्येदम् अण्।

४ नारायणसम्बन्धि सैन्य-भेदे
“मत्संहननतुल्यानां गोपानामर्वुदं महत्। नारा-यणा इति ख्याताः सर्वसंग्रामयोधिनः” भा॰ उ॰

७ अ॰[Page4046-a+ 38]

५ धमैपुत्रर्षिभेदे नरशब्दे दृश्यम्। सुखबोधोक्ते

६ तैल-भेदे न॰ तच्च त्रिविधं स्वल्पं वृहन्महच्चेतिभेदात्। तेषांपाकद्रव्यादि क्रमेण तत्रोक्तं तत्रस्वल्पस्य
“विल्वाग्निमन्वश्योनाकपाटलापारिभद्रकाः। प्र-सारण्याश्वगन्धा च वृहती कण्टकारिका। बलाचातिबला चैव श्वदंष्ट्रा सपुनर्णवा। एषां दश पलान्भागान् चतुर्द्रोणेऽम्भसः पचेत्। पादशेषं परिस्राव्यतैलपात्रे प्रदापयेत्। शतपुष्पा देवदारु मांसी शैलेयकंवचा। चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयम्। रास्ना तुरगगन्धा च सैन्धवं सपुनर्णवम्। एषां द्विप-लिकान् भागान् पेषयित्वा विनिःक्षिपेत्। शतावरीर-सञ्चैव तैलतुल्यं प्रदापयेत्। आजं वा यदि वा नव्यंक्षीरं दत्त्वा चतुर्गुणम्। पाने वस्तौ तथाभ्यङ्गे मोज्येचैव प्रशस्यते। अश्वो वा वातसम्भग्नो गजो वा यदि वानरः। पङ्गुकः पीठसर्पी च तैलेनानेन सिध्यति। अधोभागे च ये वाताः शिरोमध्यगताश्च ये। दन्तशूलेहनुस्तम्भे मन्यास्तम्भे गलग्रहे। बल्यं शुष्यति चैकाङ्गंनतिर्यस्य च विहला। क्षीणेन्द्रिया नष्टशुक्रा ज्वर-क्षीणाश्च ये नराः। बधिराः शल्लजिह्वाश्च मन्दमेधसएव च। अल्पप्रजा च या नारी या च गर्भं नविन्दति। वातार्त्तौ वृषणौ येष्ममन्त्रवृद्धिश्च दारुणा। एतत् तैलवरं तेषां स्वल्पं नारायणं स्मृतमिति” दृहतः
“शतावरी चांशुमती पृश्निपर्णी शठी बला। एरण्डस्य च मूलानि वृहत्याः पूतिकस्य च। गवे-धुकस्य मूलानि तथा सहचरस्य च। एषां दश-पलान् भागान् जलद्रोणे विपाचयेत्। पादशेषं रसे पूतेतत्र तैलं समावपेत्। पुनर्णवाबचादारुशताह्वाचन्दना-मुरु। शैलेयं तगरं कुष्ठमेलाभांसीस्थिराबला। अश्वाह्वा-सैन्धवं रास्नापलार्द्धानि च पेषयेत्। मव्याश्रपयसः प्रस्थौद्वौ द्वावत्र प्रदापयेत्। शतावरीरसप्रस्थं तैलप्रस्थं विपा-चयेत्। अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतः परम्। अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम्। तैलमे-तत् प्रयोक्तव्यं सर्ववातनिवारणम्। आयुष्मांश्च नरःपीत्वा निश्चयेन दृढो भवेत्। गर्भमश्वतरी विन्देत्किम्पुनर्मानुषी तथा। हृत्स्यूलं पार्श्वशूलञ्च तथैवार्द्धा-वभेदकम्। अपचिं गण्डमालाञ्च वातरक्तं हनुग्रहम्। कामलां पाण्डुरोगञ्च अश्मरी{??}पि नाशयेत्। तैलमेतद्भगवता विष्णुना परिकीर्तितम्। नारायणमिति[Page4046-b+ 38] ख्यातं वातान्तकरणं शुभमिति”। वृहन्नारायणतैलम्। महतः
“विल्वाश्वगन्धा वृहती श्वदंष्ट्रा श्योनाकवाट्यालकपारिभ-द्रम्। क्षुद्रा कठिल्लातिबलाग्निमन्थं मूलानि चैषां सरला-युतानाम्। मूलं विदद्यादथ पाटलीशं प्रत्येकमेषां प्रवदन्तितज्ज्ञाः। सपादप्रस्थं विधिनोद्धृतञ्च द्रोणैरपामष्टभि-रेव पक्त्वा। पादावशेषेण रसेन तेन तैलाढकाभ्यां सममेव-दुग्धम्। छानस्य मांसद्रवमेव तुल्यमेकत्र सम्यक् विप-चेत् सुबुद्धिः। दद्याद्रसञ्चैव शतावरीणां तैलेन तुल्यंपुनरेव तत्र। रास्नाश्वगन्धाद्रुमदारुकाष्ठं पर्णी चतुष्कागुरुकेसराणि। सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकंचन्दनपुष्कराणि। एला सयष्टी तगराव्दपत्रं भृङ्गाष्ट-वर्गास्तु वचापलाशम्। स्थौणेयवृश्चीरकचोरकाख्यमेभिःसमस्तैर्द्विपलप्रमाणैः। कर्पूरकाश्मीरमृगाण्डजानांदद्यात् सुनन्धाय वदन्ति केचित्। प्रस्वेददौर्गन्ध्यनिवा-रणार्थं चूर्णीकृतानाम् द्विपलप्रमाणम्। आलोड्य सम्य-ग्विधिवद्विपक्वं नारायणं नाम महच्च तैलम्। सर्वैःप्रकारैर्विधिवत् प्रयोज्यमश्वस्य पुंसां पवनार्दितानाम्। ये पङ्गवः पीठविसर्पर्णाश्च एकाङ्गहीनार्द्दितवेपमानाः। वाधिर्यशुक्रक्षयपीडिताश्च मन्याहनुस्तम्भशिरोगदार्त्ताः। मुक्ता नरास्ते बलवीर्य्ययुक्ताः संसेव्य तैलं सहसा भवन्ति। वन्ध्या च नारी लभते च पुत्रं वीरोपमं सर्वगुणोपपन्नम्। शाखाश्रिते कोष्ठगते च वाते वृद्धौ विधेयं पवनार्दिता-नाम्। जिह्वानिले दन्तगते च शूले औन्मादकौ{??}ज्वरकर्षितानाम्। प्राप्नोति लक्ष्मीं प्रमदाप्रियत्त्वं जीवेच्चिरंचापि भवेद्युवेव। देवासुरे युद्धवरे समीक्ष्य स्नाव्यस्थिमम्नानसुरैः सुरांश्च। नारायणेनापि सुवृंहणार्थं स्व-नामतैलं विहितन्तु तेषाम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायण¦ m. (-णः)
1. A name of VISHN4U, but especially considered as the deity who was before all worlds.
2. A sage, and brother of नर | The two great sages, while practising penance at the Badarika4shram on the Hima4laya, Indra being afraid lest he might be deprived of his throne sent Heavenly nymphs to disturb their devotions; But Na4ra4yana put these damsels to shame by creating a nymph (Urvashi by name) from his thigh far excelling Indra's nymph's in beauty.
3. A valiant combatant. f. (-णी)
1. A name of DURGA
4.
2. A name of LAKSHMI4, the goddess of prosperity, and wife of VISHNU
4.
3. GANGA
4.
4. A plant, (Asparagus racemosa.) E. नारा the primeval waters, derived from नर the spirit of God, whence they originated, and अयन place of coming or moving; he who moved over the waters before creation; the word has several etymologies, as नर the spirit or soul of the universe, अण् affix, नार appertaining to it, the actions or emotions of the soul, and अयन pervading, influencing; again नार multitudes, man kind, and अयन place; present amongst all men, &c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायणः [nārāyaṇḥ], 1 An epithet of Viṣṇu; (the word is thus derived in Ms.1.1. आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥) नारायणं नमस्कृत्य ...... ततो जयमुदीरयेत् Mb.1.1.1; नीरे नीरचरैः समं स भगवान् निद्राति नारायणः Jagannātha Paṇḍita.

N. of an ancient sage said to be a companion of Nara and to have produced Urvaśī from his thigh; cf. ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V.1.3; see नरनारायण under नर also.

N. of the second month (reckoning from मार्गशीर्ष).

णी An epithet of Lakṣmī the goddess of wealth.

An epithet of Durgā.

An epithet of Gaṅgā and Gaṇḍakī.

N. of a plant (Mar. शतावरी). -Comp. -अस्त्रम् N. of a missile. -उपनिषद् N. of an Upaniṣad.

प्रियः N. of Śiva.

yellow sandal-wood. -बलिः an oblation given to five deities including नारायण in performing the funeral rites of a person dying a sinful death.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नारायण m. ( patr. fr. नरSee. )the son of the original Man (with whom he is generally associated e.g. Mn. i , 10 ; he is identified with ब्रह्माib. 11 with विष्णुor कृष्णTA1r. MBh. etc. ; the अप्सरस्उर्वशीis said to have sprung from his thigh Hariv. 4601 ; elsewhere he is regarded as a कश्यपor अङ्गिरस, also as chief of the साध्यs , and with जैनs as the 8th of the 9 black वासुदेवs)

नारायण m. the पुरुष-hymn ( Rv. x , 90 , said to have been composed by -N नारायण) S3Br. S3a1n3khS3r.

नारायण m. (as synonym of विष्णु) N. of the 2nd month (reckoning from मार्गशीर्ष) Var.

नारायण m. a mystical N. of the letter आUp.

नारायण m. N. of a son of अजामिलBhP.

नारायण m. of a son of भू-मित्रor भूमि-मित्र(a prince of the dynasty of the काण्वायनs) Pur.

नारायण m. of a son of नर-हरिKshiti7s3.

नारायण m. of sev. men , authors and commentators (also with आचार्य. कवि, गार्ग्य, चक्र-चूडामणि, दैव-विद्, धर्मा-धिकारिन्, पण्डिन, पण्डित, धर्मा-द्किकारिङ्पण्डिता-चार्य, परिव्राज्, भट्ट[See. below , and भट्ट-न्] , भट्टा-चार्य, भट्टा-रड, भारती, भिषज्, मुनि, यति, यती-वर, राय, वन्द्य, वादी-श्वर, विद्या-विनोद, वैष्णव-मुनि, शर्मन्, सरस्वती, सर्व-ज्ञ, सार्वभौम)

नारायण mf( ई)n. relating or belonging to नारायणor कृष्णMBh. etc. ( m. pl. the warriors of -K कृष्ण, iv , 147 )

नारायण n. (with क्षेत्र)N. of the ground on the banks of the Ganges for a distance of 4 cubits from he water L.

नारायण n. (with चूर्ण)a partic. medicinal powder Bhpr.

नारायण n. (with तैल)a medic. oil expressed from various plants ib.

नारायण See. above.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--an अवतार् with Nara; as the Supreme Being; as पुरुष and महापुरुष; Protector of the प्राणस्; is कृष्ण; फलकम्:F1:  भा. I. 2. 4; 3. 9; II. 5. १५-16; 7. 6; १०. ११; IV. 1. ५२; V. २६. ३८; X. 6. २४; ६९. ४४; Br. II. ३५. ९३; III. 3. ६२; ३३. १६; ३५. 3, ३६-40; वा 104. ५८; १०९. २३.फलकम्:/F identified with Veda; फलकम्:F2:  भा. VI. 1. ४०-41.फलकम्:/F reincarnated as अदिती's son; फलकम्:F3:  Ib. VI. 6. ३८.फलकम्:/F मन्त्र sacred to; फलकम्:F4:  Ib. VI. ch. 8. (whole).फलकम्:/F the sage of sages; फलकम्:F5:  Ib. XI. १६. २५; XII. 8. ३२ and ४७; 9. 1.फलकम्:/F the आश्रम of; फलकम्:F6:  Ib. VII. १४. ३२.फलकम्:/F born of धर्म in the चाक्षुष epoch. फलकम्:F7:  Br. III. ७१. १९६-7; ७३. ७२.फलकम्:/F The Lord without birth; same as विष्णु, brother of Indra; the last resort of the sages. फलकम्:F8:  Ib. II. ३५. २०८; III. 3. १०२; M. 1. 2-3; १५४. ३५२; १६४. २७; १७२. 3-5; Vi. I. 3. 3, 8. १५; 9. ४१; २२. ८६.फलकम्:/F The one who came out of the darkness of महा- प्रलय and created the world in its different aspects; his serpent couch on the dark waters described; approach of ब्रह्मा into नारायण's stomach, and coming out by way of the lotus; फलकम्:F9:  Br. II. ३५. १७०; IV. ३४. ७६; M. 2. २७-37; १७८. 1.फलकम्:/F permeates the whole universe and pervades the three worlds; फलकम्:F१०:  वा. 1. २०४; 5. ३८; २४. 8-३५.फलकम्:/F approached by शिव to redeem the sin of [page२-232+ ३१] brahmicide; फलकम्:F११:  M. १८३. ८८.फलकम्:/F the वारह अवतार् of; फलकम्:F१२:  Br. I. 4. २७; 5. 3-5; M. २४७. 6; वा. 6. 3-७८; २१. ८१; १०३. 9.फलकम्:/F is प्रजापति, is Brah- man; फलकम्:F१३:  M. २४७. ३५; Br. II. 6. ६१.फलकम्:/F is साध्य with श्री as wife; फलकम्:F१४:  वा. ३०. ७२.फलकम्:/F a compound of क्षेत्रज and प्रकृति for the welfare of the world; फलकम्:F१५:  Ib. १०१. २२८.फलकम्:/F to be remem- bered in श्राद्धस्; फलकम्:F१६:  M. १६. ४५.फलकम्:/F encouraged the Asuras and Devas in the churning of the ocean; praised by ब्रह्मा; फलकम्:F१७:  Ib. १५४. ३५९; १६३. १०४; २४८. ४३; २४९. 1, 3-4, ८१; २५०. 1; २८२. 5.फलकम्:/F represents the planet Budha; उर्वशी born of. फलकम्:F१८:  Br. II. २४. ४९; III. 7. १६.फलकम्:/F
(II)--the name of the last son of अजामिल. भा. VI. 1. २४.
(III)--the son of भूमिमित्र Kan2va; ruled for १२ years: फलकम्:F1:  भा. XII. 1. २०; Br. III. ७४. १५८; M. २७२. ३४; वा. ९९. ३४५.फलकम्:/F Father of सुशर्मन्. फलकम्:F2:  Vi. IV. २४. ४०-1.फलकम्:/F
(IV)--the sage who taught the भागवत पुराण to नारद who in turn taught it to व्यास. भा. XII. 4. ४१; १३. १० and १८.
(V)--a साध्य and overlord of the साध्यस्; the Hari of the स्वारोचिष epoch. Br. III. 3. १७; 8. 6; M. २०३. ११.
(VI)--a देवऋषि. वा. ६१. ८३. [page२-233+ ३१]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Nārāyaṇa : m. (pl.): Name of a class of Gopas or Gopālas; their army referred to as Nārāyaṇabala.

A. Description: All Nārāyṇas acted as warriors (sarve saṁgrāmayodhinaḥ) 5. 7. 16; as warriors, equal to Kṛṣṇa in firmness (matsaṁhananatulya) 5. 7. 16; difficult to be assailed in war (te vā yudhi durādharṣā …) 5. 7. 17; fierce in war (yuddhadurmada) 9. 2. 36; in wars, they fought with weapons of different kinds (vividhāyudhapāṇi) 7. 18. 7.

B. Epic events:

(1) A large number of Gopas called Nārayaṇas, an arbuda strong, were taken by Duryodhana to fight from his side (gopānām arbudaṁ mahat/nārāyāṇā iti khyātāḥ) 5. 7. 16; (sahasrāṇāṁ sahasraṁ tu) 5. 7. 20-21;

(2) On the twelfth day of war, the fleeing Nārāyaṇa Gopālas who formed a part of the army of the Saṁśaptakas, incited by Suśarman, returned to the battlefield determined to fight till death (saṁśaptakagaṇāḥ punaḥ/nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṁ nivartanam) 7. 17. 31; the angry Nārāyaṇas surrounded Arjuna and covered him with arrows; they made both Kṛṣṇa and Arjuna invisible for a while; Arjuna employed tvāṣṭra astra against them; bewildered by the astra, they killed each other; the astra reduced to ashes the arrows released by Nārāyaṇas and killed them 7. 18. 7-8, 11-15; later in the day, Arjuna fought with the remainder of the Saṁśaptakas and Nārāyaṇas stationed to the right side of the army (dakṣiṇena tu senāyāḥ kurute kadanaṁ balī/saṁśaptakāvaśeṣasya nārāyaṇabalasya ca) 7. 30. 29;

(3) On the fourteenth day, the Nārāyaṇa Gopālas tried to check the march of Arjuna in the direction of Jayadratha; they were determined to risk their lives while fighting with Arjuna (nārāyaṇāś ca gopālāḥ…tyaktvātmāno 'rjunaṁ prati) 7. 66. 38-39;

(4) On the sixteenth day, the army of the Nārayaṇa Gopālas stood at the left foot of the Makaravyūha (8. 7. 14) of the Kauravas: they were led by Kṛtavarman (kṛtavarmā vyavasthitaḥ/ nārāyaṇabalair yukto gopālair…) 8. 7. 17; they (nārāyaṇabalaṁ ca yat) and the Saṁśaptakas attacked Arjuna 8. 19. 2;

(5) On the seventeenth day, Arjuna killed the army of the Nārāyaṇas (nārāyaṇabalaṁ ca yat) and the Kosalas and the Saṁśaptakas 8. 37. 2;

(6) Mentioned by Dhṛtarāṣṭra among those who were killed in the war (nārāyaṇā hatā yatra gopālā…) 9. 2. 36.

_______________________________
*3rd word in right half of page p755_mci (+offset) in original book.

previous page p754_mci .......... next page p756_mci

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=नारायण&oldid=500619" इत्यस्माद् प्रतिप्राप्तम्