नारायणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारायणी, स्त्री, (नारायणस्येयमिति । नारायण + अण् + ङीप् ।) दुर्गा । (यथा, मार्कण्डेये । ९१ । ९ । “सर्व्वमङ्गलमङ्गल्ये शिवे सर्व्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि ! नमोऽस्तु ते ॥” इयं सुपार्श्वाख्यपीठस्थाने एतम्मूर्त्त्या विराजते । यथा, देवीभागवते । ७ । ३० । ६६ । “नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥”) लक्ष्मीः । शतावरी । इति हेमचन्द्रः ॥ * ॥ तस्या निरुक्तिर्यथा, -- “यशसा तेजसा रूपैर्नारायणसमा गुणैः । शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४५ अध्यायः ॥ अपि च । “नारायणार्द्धाङ्गभूता तेन तुल्या च तेजसा । तदा तस्य शरीरस्था तेन नारायणी स्मृता ॥” इति तत्रैव श्रीकृष्णजन्मखण्डे २७ अध्यायः ॥ * ॥ गङ्गा । यथा, तन्मन्त्रे । “गङ्गायै विश्व मुख्यायै शिवामृतायै नारायण्यै नमः ॥” (यथा च काशीखण्डे । २९ । ९७ । “नभोऽङ्गनचरी नूतिर्नम्या नारायणी नुता ॥”) मुद्गलमुनिपत्नी । इति पुराणम् ॥ (स्वनाम- ख्याता श्रीकृष्णसम्बन्धिनी सेना । इयं हि भारतयुद्धे दुर्य्योधनपक्षमाश्रितवती ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारायणी स्त्री।

शतावरी

समानार्थक:शतमूली,बहुसुता,भीरु,इन्दीवरी,वरी,ऋष्यप्रोक्ता,भीरुपत्री,नारायणी,शतावरी,अहेरु

2।4।101।1।3

ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी। अहेरुरथ पीतद्रुकालीयकहरिद्रवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारायणी¦ स्त्री नारायणस्येयम् अण् ङीप्। नारायणस्य

१ शक्तौ

२ लक्ष्म्यां

३ दुर्गायाञ्च तन्निरुक्तिः
“यशसा तेजसारूपैर्नारायणसमा गुणैः। शक्तिर्नारायणस्येयं तेन ना-रायणी स्मृता” ब्रह्मवै॰ प्र॰ ख॰

४५ अ॰।
“नारायणा-र्द्धाङ्गमूता तेन तुल्या च तेजसा। तथा तस्य शरीरस्थातेन नारायणी स्मृता” जन्मख॰

२७ अ॰। नारस्य जीव-संघस्य जलस्य वा अयनी स्थानभूता।
“जलायनानराधारा समुद्रशयनाऽपि वा। नारायणी समाख्याता-नरनारीप्रवर्त्तिका। वसत्यदृष्टा सर्वेषु भूतेष्वन्तर्हिता-यतः। देव्या व्याप्तमिदं सर्वं जगत् स्थाबरजङ्गमम्” देवीपु॰।

४ शतावर्य्यां हेमच॰।

५ मुद्गलमुनिपत्न्यां च।
“सर्वस्यार्त्तिहरे देवि! नारायणि! नमोऽस्तुते” देवीमा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारायणी f. See. s.v.

नारायणी f. (of णSee. ) patr. of इन्द्र-सेना(the wife of मुद्गल) MBh. Hariv.

नारायणी f. N. of दुर्गाHariv.

नारायणी f. of लक्ष्मीL.

नारायणी f. of गङ्गाand गण्डकीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of योगमाया; ललिता; फलकम्:F1: भा. X. 2. १२; Br. IV. १३. 3.फलकम्:/F the goddess enshrined at सुपार्श्व. फलकम्:F2: M. १३. ३६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=नारायणी&oldid=431783" इत्यस्माद् प्रतिप्राप्तम्