नारिकेल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारिकेलः, पुं, (किल श्वैत्ये क्रीडने च + भावे घञ् । नार्य्या रमण्याः केल इव सुखदायी केलो यस्य । पृषोदरादित्वात् ह्रस्वः ।) स्वनाम- प्रसिद्धफलवृक्षविशेषः । तत्पर्य्यायः । लाङ्गली २ । इत्यमरः । २ । ४ । १६८ ॥ नारिकेरः ३ नाडि- केलः ४ नारीकेलः ५ नारीकेली ६ नारि- केरी ७ । इत्यादि भरतः । नारिकेलिः ८ सदापुष्पः ९ शिरःफलः १० । इति शब्दमाला ॥ नालिकेरः ११ रसफलः १२ सुतुङ्गः १३ कूर्च्च- शेखरः १४ दृढनीलः १५ नीलतरुः १६ मङ्गल्यः १७ उच्चतरुः १८ तृणराजः १९ स्कन्धतरुः २० दाक्षिणात्यः २१ दुरारुहः २२ त्र्यम्बकफलः २३ दृढफलः २४ । इति राजनिर्घण्टः ॥ कूर्च्च- शीर्षकः २५ तुङ्गः २६ स्कन्धफलः २७ उच्चः २८ सदाफलः २९ । इति भावप्रकाशः ॥ शिरा- फलः ३० करकाम्भाः ३१ पयोधरः ३२ मत्- कुणः ३३ कौषिकफलः ३४ फलमुण्डः ३५ चटा- फलः ३६ मुण्डफलः ३७ विश्वामित्रप्रियः ३८ । इति शब्दरत्नावली ॥ नारकेरः ३९ सुभङ्गः ४० फलकेसरः ४१ । इति जटाधरः ॥ अस्य गुणाः । गुरुत्वम् । स्निग्धत्वम् । शीतत्वम् । पित्तनाशित्वञ्च ॥ * ॥ अर्द्धपक्वस्य तस्य गुणौ । तृषाशोषशमनत्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ बाल- नारिकेलजलगुणाः । लघुत्वम् । शीतलत्वम् । रसपाके मधुरत्वम् । पित्तपीनसतृषास्रविदाह- भ्रान्तिशोषशमनत्वम् । सुखदायित्वञ्च ॥ * ॥ पक्वनारिकेलजलगुणाः । किञ्चित्पित्तकारित्वम् । रुचिदत्वम् । मधुरत्वम् । दीपनत्वम् । बल- करत्वम् । गुरुत्वम् । वृष्यत्वम् । वीर्य्यवर्द्धन- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “नारिकेलफलं शीतं दुर्ज्जरं वस्तिशोधनम् । विष्टम्भि वृंहणं बल्यं वातपित्तास्रदाहनुत् ॥ विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरमूत्रदोषान् । तदेव जीर्णं गुरु पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः ॥ तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु । पिपासापित्तजित् स्वादु वस्तिशुद्धिकरं परम् ॥” तस्य मस्तिष्कगुणाः । “नारिकेलस्य तालस्य खर्ज्जूरस्य शिरांसि तु । कषायस्निग्धमधुरवृंहणानि गुरूणि च ॥” इति भावप्रकाशः ॥ * ॥ “बालस्य नारिकेलस्य जलं प्रायो विरेचनम् ॥” इति राजवल्लभः ॥ * ॥ कांस्यपात्रे तज्जलं मद्यतुल्यम् । यथा, -- “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥” इति कर्म्मलोचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारिकेल¦ पु॰ नल--इण् नालिः केन वायुना जलेन वाइलति चलति इल--क कर्म॰ रलयोरैक्यम्। स्वनाम-ख्यातेऽवृक्षे अमरः। नालिकेरोऽपि तत्रार्थे शब्दरत्ना॰।
“नारिकेलफलं शीतं दुर्जरं वस्तिशोधनम्। विष्टम्भि वृं-हणं बल्यं वातपित्तास्रदाहनुत्। विशेषतः कोमल ना-रिकेलं निहन्ति पित्तज्वरमूत्रदोषान्। तदेव जीर्णं गुरु-पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः” नवस्य जल-गुणाः।
“तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलंलघु। पिपासा पित्तजित् स्वादु वस्तिशुद्धिकरं परम्”। तस्यमस्तिष्कगुणाः
“नारिकेलस्य तालस्य खार्जूरस्य शिरांसितु। कषायस्निग्धमधुरवृंहणानि गुरूणि च” भावप्र॰
“वालस्य नारिकेलस्य जलं प्रायो विरेचनम्” इतिराजवल्लभः। कांस्यपात्रे तत् जलं मद्यतुल्यं यथाह
“नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु। गव्यञ्चताम्रपात्रस्थं मद्यतुल्यं घृतं विना” इति कर्मलोचनम्। तस्येदमण्।

२ तदीये त्रि॰
“नारिकेलासवं तत्र शात्रवं वयशः पपुः” रघुः। अष्टम्यां तद्भक्षणनिषेधः
“नारिकेले चमूर्खता” ति॰ त॰ तिथिभेदेऽभक्ष्योक्तौ
“कोजागररात्रौतदुदकपानं कार्यं यथाह
“नारिकेलोदकं पीत्वा कोजा-बर्त्तिमहीतले” ति॰ त॰ कोजागरशब्दे दृश्यम्। [Page4048-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारिकेल¦ mf. (-लः-ली) The cocoanut. E. नारिक watery (place), ईर् to go or grow, affix क, and र optionally changed to ल; also with इन्, नारिकेलि, and ड being substituted for र, नाडिकेर, &c. नल-इन् नालिः केन वायुना जलेन वा इलति चलति, इल-क-कर्म-रलयोरैक्यम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारिकेल m. id. MBh. etc. ( L. also 606103 लिf. , or 606103.1 लीf. )

"https://sa.wiktionary.org/w/index.php?title=नारिकेल&oldid=500620" इत्यस्माद् प्रतिप्राप्तम्