नालिकेरः

विकिशब्दकोशः तः
नालिकेरः

संस्कृतम्[सम्पाद्यताम्]

  • नालिकेरः, नारिकेलः, कौशिकफलः, तृणद्रुमः, शिरफलः, नारिकेरः, नारिकेलिः।


नामम्[सम्पाद्यताम्]

  • नालिकेरः नाम नारिकेलः।

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्-തേങ
  2. आमगलम्-COCONUT
  3. हिन्दि-नारियल्
  4. तेलुगु-నారికేళము
  5. कन्नड-ತೆಂಗಿನಕಾಯಿ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकेरः, पुं, (नारिकेलः । रलयोरैक्यात् रस्य लः । लस्य रश्च ।) नारिकेलः । इत्यमरटीकायां रमानाथः ॥ (क्वचित् क्लीवेऽपि दृश्यते । यथास्य गुणाः । “नालिकेरं सुमधुरं गुरुस्निग्धञ्च शीतलम् । हृद्यं संबृंहणं वस्तिशोधनं रक्तपित्तनुत् ॥ विष्टम्भि पक्वं मतिमन्नपक्वं कफवातलम् । बृंहणं शीतलं वृष्यं नालिकेरफलं विदुः ॥” इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥ अस्य तोयगुणा यथा, -- “नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु । तृष्णापित्तानिलहरं दीपनं वस्तिशोधनम् ॥” इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=नालिकेरः&oldid=506752" इत्यस्माद् प्रतिप्राप्तम्