सामग्री पर जाएँ

निगमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमः, पुं, (निगमे पुर्य्यां भवः । निगम + “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् । संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः ।) बाणिजः । (निगभ्यतेऽत्रेति । नि + गम + “गोचरसञ्चरेति ।” ३ । ३ । ११९ । इति धप्रत्ययेन साधुः ।) पुरी । कटः । (निगम्यते ज्ञायतेऽनेनेति ।) वेदः । (यथा, देवीभाग- वते । १ । ५ । ६१ । “कथङ्कारं वाच्यः सकलनिगमागोचरगुण- प्रभावः स्वं यस्मात् स्वयमपि न जानासि परमम् ॥”) बणिक्पथः । हट्ट इति यावत् । इति मेदिनी । मे, ४५ ॥ निश्चयः । (यथा, “तस्या एव प्रति- ज्ञाया हेतुभिर्दृष्टान्तोपनयनिगमैः स्थापना ॥” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥) अध्वा । इति हेमचन्द्रः । ४ । ३८ ॥ (उपदेशः । यथा, भागवते । १ । ५ । ३९ । “इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् । अदान्मे ज्ञानमैश्वर्य्यं स्वस्मिन् भावञ्च केशवः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमः [nigamḥ], The Veda or Vedic text; साढ्यै साढ्वा साढेति निगमे P.VI.3.113; VII.2.64; निगमकल्पतरोर्गलितं फलम् Bhāg.1.1.3; Māl.9.4; निगमशब्दो वेदवाची Sāyaṇa Bhāṣya.

Any passage or word quoted from the Vedas, a Vedic sentence; तथापि च निगमो भवति (often found in Nirukta).

A work auxiliary to, and explanatory of the Vedas; नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान Ms.4.19. and Kull. thereon.

A sacred precept, the words of a god or holy man.

A root (as the source of a word).

Certainty, assurance.

Logic or science of ethics; सर्वे च ये$न्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः Mb.5.2.6.

Trade, traffic.

A market, fair.

A caravan of wandering merchants; Rām.2.15.2.

A road, market-road.

A city.

Insertion of the name of a deity into a liturgical formula.

Resolution; स्वनिगममपहाय मत्प्रतिज्ञाम् Bhāg.1.9.37.

Precept, advice; इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् Bhāg.1.5.39.

Obtainment (प्राप्ति); पन्था मन्निगमः स्मृतः Bhāg.11.19.42.

"https://sa.wiktionary.org/w/index.php?title=निगमः&oldid=356857" इत्यस्माद् प्रतिप्राप्तम्