नित्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यम्, क्ली, (नियमेन भवम् । नि + “अव्ययात् त्यप् ।” ४ । २ । १०४ । इति त्यप् ।) निरन्तरक्रिया- वचनम् । तत्पर्य्यायः । सततम् २ अनारतम् ३ अश्रान्तम् ४ सन्ततम् ५ अविरतम् ६ अनि- शम् ७ अनवरतम् ८ अजस्रम् ९ । इत्यमरः । १ । १ । ६९ ॥ प्रसक्तम् १० आसक्तम् ११ अल- द्धम् १२ । इति जटाधरः ॥ तद्बति, त्रि । इत्य- मरः ॥ प्रत्यवायजनकीभूताभावप्रतियोगि । यथा एकादश्यामुपोषणं नित्यम् । ध्वंसप्राग- भावाप्रतियोगि । यथा, गगनं नित्यम् । अह- रहर्ज्जायमानम् । यथा, नित्यं क्रीडन्ति कुमाराः । अहरहःक्रियमाणत्वेन विधिबोधि- तम् । यथा, स्नानतर्पणादिकं नित्यम् । अन- वच्छिन्नपरम्पराकः । यथा, वर्णा नित्याः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(श्राद्धम्) nothing of अर्घ्य and आवा- हनम्। M. १६. 5.

"https://sa.wiktionary.org/w/index.php?title=नित्यम्&oldid=431826" इत्यस्माद् प्रतिप्राप्तम्