निदाघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघः, पुं, (नितरां दह्यतेऽत्र अनेन वा । नि + दह + घञ् । न्यङ्क्वादित्वात् कुत्वम् ।) ग्रीष्म- कालः । (यथा, रघुः । १० । ८३ । “ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥”) उष्णः । घर्म्मः । इत्यमरमेदिनीकरौ ॥ (यथा, रघुः । १२ । ३२ । “रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥”) निदाघे वर्णनीयानि यथा । पाटलपुष्पम् १ ग्नल्लिकापुष्पम् २ तापः ३ सरः ४ पथिकशोषः ५ वायुः ६ सेकः ७ शक्तुः ८ प्रपा ९ स्त्री १० मृग- तृष्णा ११ आम्रादिफलपाकः १२ । इति कवि- कल्पलता ॥ (“ता एवौषधयो निदाघे निःसारा रुक्षा अति- मात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्या- ल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापादयन्ति स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वाति- कान् व्यार्धान् जनयति ॥” इति सुश्रुते सूत्र- स्थाने षष्ठेऽध्याये ॥ “निदाघोपचितञ्चैव प्रकुप्यन्तं समीरणम् । निहन्यादनिलघ्नेन विधिना विधिकोविदः । नदीजलं रुक्षमुष्णमुदमन्थं तथातपम् ॥ व्यायामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत् ॥” इति चोत्तरतन्त्रे चतुःषष्टितमेऽध्याये सुश्रुते नोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ पुं।

ग्रीष्मऋतुः

समानार्थक:ऊष्मक,निदाघ,उष्णोपगम,उष्ण,ऊष्मागम,तप

1।4।19।1।1

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

निदाघ पुं।

प्रस्वेदहेतोस्तापः

समानार्थक:घर्म,निदाघ,स्वेद

1।7।33।2।2

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , शरीरजम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ¦ पु॰ नितरां दह्यतेऽत्र नि + दह--आधारे घञ्न्थङ्क्वादि॰ कुत्वम्।

१ उष्णे

२ घर्मे

३ घर्मकाले ज्यैष्ठा-षाढमासयोः

४ घर्मजले च मेदि॰। ऋतुसंहारे

१ म सर्गेनिदाघकाले वर्ण्याः पदार्था भङ्ग्या प्रदर्शितास्तत्रैवदृश्याः। पुलस्त्यपुत्रे ऋभुपत्नीजाते

५ ऋषिभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ¦ m. (-घः)
1. The hot season, (May and june.)
2. Heat, warmth.
2. Sweat, perspiration. E. नि always, दह् to burn, आधारे घञ् affix, न्यङ्क्वादि० कुत्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघः [nidāghḥ], [नि-दह् आधारे घञ् न्यङ्क्वादि कुत्वम्]

Heat, warmth; आर्द्राङ्गुलीदलमनङ्गनिदाघतप्तः

The hot season, summer (the months of ज्येष्ठ and आषाढ); निदाघमिहिर- ज्वालाशतैः Bv.1.16; निदाघकालः समुपागतः प्रिये Ṛs.1.1; Pt.1.14; Ku.7.84.

Sweat, perspiration. प्रस्नापया- मास मुखं निदाघः Ki.17.8.

The internal heat; स्त्रियो निदाघं शमयन्ति कामिनाम् Ṛs.1.4.

The water of perspiration. -Comp. -करः the sun. -कालः summer. -धामन् the sun; निदाघधामानमिवाधिदीधितम् Śi.1.24. -वार्षिक a. (months) belonging to the hot and rainy season; निदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा Mb.7.3.1. -सिन्धुः a river in hot season (nearly dry).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ/ नि- m. ( g. न्यङ्क्व्-आदि)heat , warmth , the hot season (May and June) , summer S3Br. MBh. etc.

निदाघ/ नि- m. internal heat , R2it. i , 4

निदाघ/ नि- m. sweat , perspiration L.

निदाघ/ नि- m. N. of a man( pl. of his descendants g. उपका-दि)

निदाघ/ नि- m. of a son of पुलस्त्यVP.

निदाघ/ नि-दाघ See. नि-दह्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Pravara sage. M. १९९. १७.
(II)--a mind-born son of ब्रह्मा in the १५थ् kalpa. वा. २१. ३५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIDĀGHA : A maharṣi. (For details see under Ṛbhu)


_______________________________
*10th word in right half of page 537 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निदाघ&oldid=431828" इत्यस्माद् प्रतिप्राप्तम्