निद्रा

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रा, स्त्री, (निन्द्यते इति । निदि कुत्सायाम् + “निन्देर्नलोपश्च ।” उणां । २ । १७ । इति रक् नलोपश्च ।) मेध्यामनःसंयोगः । इति जग- दीशः ॥ सुषुप्त्यवस्थास्वन्यावस्था । इति चण्डी- टीकायां नागभट्टः । घुम इति भाषा ॥ तत्- पर्य्यायः । शयनम् २ स्वापः ३ स्वप्नः ४ संवेशः ५ । इत्यमरः । २ । ७ । ३६ ॥ सुप्तिः ६ स्वपनम् ७ । इति शब्दरत्नावली ॥ यथाकाले सेवितनिद्रा- गुणाः । धातुसाम्यत्वम् । अतन्द्रितत्वम् । पुष्टि- वर्णबलोत्साहाग्निदीप्तिकारित्वञ्च ॥ * ॥ दिवा- स्वप्नगुणः । स्निग्धत्वम् । तृट्शूलहिक्काजीर्णाति- सारिणां हितत्वञ्च ॥ * ॥ आसीनप्रचलायि- तस्य उपविश्य निद्रावशाद्दोलायमानस्य गुणः । अरूक्षत्वम् । अनभिष्यन्दित्वञ्च ॥ * ॥ निद्रा सात्म्यीकृतानां दिवा रात्रौ च स्वपतां जाग्रतां वा दोषो न भवति । इति राजवल्लभः ॥ * ॥ निद्रारहिता यथा, -- “कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च । परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥” * ॥ सुखसुप्ता यथा, -- “सुखं स्वपित्यनृणवान् व्याधिमुक्तश्च यो नरः । सावकाशस्तु यो भुङ्क्ते यस्तु दारैर्न शङ्कितः ॥” इति गारुडे नीतिसारः ॥ (“सत्त्वाच्च तम एव स्यात् जाग्रते स्वपते प्रभुः । तमसा प्रावृतो देही व्योम्ना च शून्यताङ्गतः ॥ देहं विश्रमते यस्मात्तस्मान्निद्रा प्रकीर्त्तिता । नासार्द्धे च भ्रुवोर्म्मध्ये लीयते चान्तरात्मना ॥ तस्माच्चेतो भवेत्तत्र निद्राव्यालीयते नृणाम् ॥” इति शारीरस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥ “निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् । वृषता क्लीवता ज्ञानमज्ञानं जीवितं न च ॥ अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता । सुखायुषी पराकुर्य्यात् कालरात्रिरिवापरा ॥” इति वाभटे सूत्रस्थाने सप्तमेऽध्याये ॥ “पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद्विकशति स्वपतश्च निमीलति ॥ निद्रान्तु वैष्णवीं पाप्मानमुपदिशन्ति सा स्वभा- वत एव सर्व्वप्राणिनोऽभिस्पृशति ॥ तत्र यदा संज्ञावहानि स्रोतांसि तमो भूयिष्ठः श्लेष्मा प्रति- पद्यते तदा तामसी नाम निद्रा सम्भवत्यनव- बोधिनी सा प्रलयकाले । तमोभूयिष्ठानामहःसु निशासु च भवति । रजो भूयिष्ठानामनिमि- त्तम् । सत्त्वभूयिष्ठानामर्द्धरात्रे । क्षीणश्लेष्मणाम- निलबहुलानां मनःशरीराभितापवताञ्च नैव सा वैकारिकी भवति ॥ हृदयञ्चेतनास्थानमुक्तं सुश्रुत ! देहिनाम् । तमोऽभिभूते तस्मिंस्तु निद्रा विशति देहिनाम् ॥ निद्राहेतुस्तमः सत्त्वं बोधने हेतुरुच्यते । स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्तते ॥ पूर्ब्बदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः । रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥ करणानान्तु वैकल्ये तमसाभिप्रवर्द्धिते । अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥ सर्व्वर्त्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् ॥” इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रा स्त्री।

निद्रा

समानार्थक:निद्रा,शयन,स्वाप,स्वप्न,संवेश,तन्द्रा

1।7।36।2।1

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे। स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

वैशिष्ट्य : निद्राशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रा¦ स्त्री नि + द्रा--भावे अ।

१ शयने स्वप्ने। निद्रा चकालाग्निरुद्रपत्नी यथा
“कालाग्निरुद्रपत्नी च निद्रासा सिद्धयोगिनी। सर्वलोकाः समाच्छन्ना यया योगेनरात्रिषु” इति। रात्रिषु योगेन सम्बन्धेन।

२ तत्त्वा-प्रतिबोधे।

३ अभावप्रत्ययालम्बनायां वृत्तौ चतसृणांवृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बना-वृत्तिरेव निद्रा न तु ज्ञानाद्यभावमात्रम्। सत्वरजउभयविरोधिन्यां तमोगुणालम्बनायां

४ वृत्तौ।
“निद्रा-भिमानिनी काली तामसी शक्तिरिष्यते। यदा तुमनसि क्लान्ते कर्मात्मानः क्लमान्विताः। विषयेभ्यो निव-र्त्तन्ते तदा स्वपिति मानवः”। कर्मात्मानः उभयविधा-नीन्द्रियाणि
“सुखं स्वपित्यनृणवान् व्याधिमुक्तश्च योनरः। सावकाशस्तु यो भुङ्क्ते यस्तु दारैर्न शङ्कितः। कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च। परनारीप्रस-क्तस्य परद्रव्यहरस्य च” निद्रा च मेध्या नाडीसंयोग-रूपेति नैयायिका चित्तवृत्तिभेद इति योगाचार्य्या यथा
“वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः”
“प्रमाणविर्य्ययविकल्पनिद्रास्मृतयः पा॰ सू॰ वृत्तीः पञ्चधा विभज्य
“अभावप्रत्ययावलम्बना वृत्तिर्निद्रा” सू॰ निद्रावृत्तिर्लक्षिता

५ साच सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः कथं? सुखमह-मस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशदीकरोति। दुःखमहमस्वाप्सं स्त्यानं मे मनोभ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मेचिचमलसं मुषितमिव तिष्ठतीति। स स्वल्वयं प्रबुद्धस्यप्रत्यवमर्शो न स्यात् असति प्रत्ययानुभवे तदाश्रिताःस्मृतयश्च तद्विषया न स्युः। तस्मात्प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्येति” भा॰
“अधिकृतंहि वृत्तिपदमनुवादकं प्रमाणविपर्यविकल्पस्मृतीनां वृ-त्तित्वं प्रतिपरीक्षकाणामविप्रतिपत्तेरतस्तदनूद्यते विशेषविघानायं निद्रायास्तु वृत्तित्वे परीक्षकाणां विप्रतिपत्ते-रिति वृत्तित्वं विधेयम्। न च प्रकृतमनुवादकं विधा-नाय कल्पत इति पुनर्वृत्तिग्रहणम् जाग्रत्स्वप्रवृत्ती-[Page4066-b+ 38] नामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्वाच्छादकं तमस्त-देवालम्बनं विषयो यस्याः सा तथोक्ता वृत्तिर्निद्रा। बुद्धिसत्वे हि त्रिगुणे यदा सत्वरजसी अभिभूय समस्त-कारणावरकमाविरस्ति तमस्तदा बुद्धेर्विषयाकारपरिणा-माभावादुद्धूततमोमयोः वुद्धिमवबुध्यमानः पुरुषः सुषु-प्तोऽन्तःसंज्ञ इत्युच्यते। कस्मात्पुनर्निरुद्धकैवल्ययो-रिव वृत्त्यभाव एव न निद्रेत्यत आह। सा च सम्प्रबोधेप्रत्यवमर्शात्सोपपत्तिकात् स्मरणात्प्रत्ययविशेषः। कथं?यदा हि सत्वसचिवन्तम आविरस्ति तदेदृशः प्रत्यवमर्शसुप्तोत्थितस्य भवति। सुखमहमस्वाप्सम्प्रसन्नं मनःप्रज्ञां मे विशदीकरोति स्वच्छीकरोति इति यदा तुरजःसचिवन्तमः आविरस्ति तदेदृशः प्रत्यवमशइत्याह। दुःखमहमस्वापसं स्त्यानम् अकर्मण्यं मे मनःकस्मात् यतो भ्रमत्यनवस्थितम्। नितान्ताभिमूतरजःसत्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह। गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तंमे चित्तमलसम्मुषितमिव तिष्ठतीति। साध्यव्यति-रेके हेतुव्यतिरेकमाह। स खल्ययमिति। प्रबुद्धस्यप्रबुद्धमात्रस्य तदाश्रिताश्चेति बोधकाले प्रत्ययानुवृत्त्य-भावे कारणानुभव इत्यर्थः। ननु प्रमाणादयो व्युत्थान-चित्ताधिकरणा निरुध्यन्तां समाधिप्रतिपक्षत्वान्निद्रा-यास्त्वेकाग्रवृत्तितुल्याया कथं समाधिप्रतिपक्षतेत्यतआह। स च समाधाविरिति। एकाग्रतुल्यापि ताम-सत्वेन निद्रा सवीजनिर्वीजसमाधिप्रतिपक्ष इति सापिनिरोद्धव्येत्यर्थः” विवरणम्। इयञ्च वेदान्तिमिः सुषुप्तिरित्यभिधीयते।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रा¦ f. (-द्रा)
1. Sleep, sleepiness, sloth.
2. Dream. E. णिद् to condemn or censure, Una4di affix रक्; or द्रै to sleep, affix क्विप् and नि pre- fixed. or more correctly. नि + द्रा भावे अ |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रा [nidrā], 2 P. To fall asleep, sleep.

निद्रा [nidrā], 1 Sleep, sleepiness; प्रच्छायसुलभनिद्रा दिवसाः Ś.1.3; निद्रामुद्रां क्षिपन् Māl.2.12.

Sloth; निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् (निवर्तयेत्) Mb.12.274.7.

Shutting, budding state. -Comp. -अन्ध a. dead, fast asleep.-अलस a. dull or languid with drowsiness, fast asleep; निद्रालसा बर्हिणः V.3.2. -दरिद्र a. suffering from want of sleep. -भङ्गः awaking. -वृक्षः darkness. -सजननम् phlegm, phlegmatic humour.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रा/ नि- (or द्रै) P. A1. -द्रायति, ते( -द्रातिS3a1ntis3. ; pf. -दद्रौNaish. ) , to fall asleep , sleep , slumber S3Br. MBh. Ka1v. etc.

निद्रा/ नि- f. sleep , slumber , sleepiness , sloth RV. MBh. Ka1v. etc.

निद्रा/ नि- f. the budding state of a flower (hence द्रां-त्यज्, to bloom) S3a1rn3gP.

निद्रा/ नि- f. a mystic. N. of the letter भ्Up.

"https://sa.wiktionary.org/w/index.php?title=निद्रा&oldid=359128" इत्यस्माद् प्रतिप्राप्तम्